Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 14 / Mantra 28

31 Mantra
14/28
Devata- ईश्वरो देवता Rishi- विश्वदेव ऋषिः Chhand- निचृद्विकृतिः Swara- मध्यमः
Mantra with Swara
एक॑यास्तुवत प्र॒जाऽ अ॑धीयन्त प्र॒जाप॑ति॒रधि॑पतिरासीत्। ति॒सृभि॑रस्तुवत॒ ब्रह्मा॑सृज्यत॒ ब्रह्म॑ण॒स्पति॒रधि॑पतिरासीत्। प॒ञ्चभि॑रस्तुवत भू॒तान्य॑सृज्यन्त भू॒तानां॒ पति॒रधि॑पतिरासीत्। स॒प्तभि॑रस्तुवत सप्तऽ ऋ॒षयो॑ऽसृज्यन्त धा॒ताधि॑पतिरासीत्॥२८॥

एक॑या। अ॒स्तु॒व॒त॒। प्र॒जा इति॑ प्र॒ऽजाः। अ॒धी॒य॒न्त॒। प्र॒जाप॑ति॒रिति॑ प्र॒जाऽप॑तिः। अधि॑पति॒रित्यधि॑ऽपतिः। आ॒सी॒त्। ति॒सृभि॒रिति॑ ति॒सृऽभिः॑। अ॒स्तु॒व॒त॒। ब्रह्म॑। अ॒सृ॒ज्य॒त॒। ब्रह्म॑णः। पतिः॑। अधि॑पति॒रित्यधि॑ऽपतिः। आ॒सी॒त्। प॒ञ्चभि॒रिति॑ प॒ञ्चऽभिः॑। अ॒स्तु॒व॒त॒। भू॒तानि॑। अ॒सृ॒ज्य॒न्त॒। भू॒ताना॑म्। पतिः॑। अधि॑पति॒रित्यधि॑ऽपतिः। आ॒सी॒त्। स॒प्तभि॒रिति॑ स॒प्तऽभिः॑। अ॒स्तु॒व॒त॒। स॒प्त॒ऋ॒षय॒ इति॑ सप्तऋ॒षयः॑। अ॒सृ॒ज्य॒न्त॒। धा॒ता। अधि॑पति॒रित्यधि॑ऽपतिः। आ॒सी॒त् ॥२८ ॥

Mantra without Swara
एकयास्तुवत प्रजाऽअधीयन्त प्रजापतिरधिपतिरासीत्तिसृभिरस्तुवत ब्रह्मासृज्यत ब्रह्मणस्पतिरधिपतिरासीत्पञ्चभिरस्तुवत भूतान्यसृज्यन्त भूतानाम्पतिरधिपतिरासीत्सप्तभिरस्तुवत सप्तऽऋषयो सृज्यन्त धाताधिपतिरासीत् ॥

एकया। अस्तुवत। प्रजा इति प्रऽजाः। अधीयन्त। प्रजापतिरिति प्रजाऽपतिः। अधिपतिरित्यधिऽपतिः। आसीत्। तिसृभिरिति तिसृऽभिः। अस्तुवत। ब्रह्म। असृज्यत। ब्रह्मणः। पतिः। अधिपतिरित्यधिऽपतिः। आसीत्। पञ्चभिरिति पञ्चऽभिः। अस्तुवत। भूतानि। असृज्यन्त। भूतानाम्। पतिः। अधिपतिरित्यधिऽपतिः। आसीत्। सप्तभिरिति सप्तऽभिः। अस्तुवत। सप्तऋषय इति सप्तऋषयः। असृज्यन्त। धाता। अधिपतिरित्यधिऽपतिः। आसीत्॥२८॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(एकया) वाण्या (अस्तुवत) स्तुवन्तु (प्रजाः) (अधीयन्त) अधीयताम् (प्रजापतिः) पालक ईश्वरः (अधिपतिः) (आसीत्) अस्ति (तिसृभिः) प्राणोदानव्यानगतिभिः (अस्तुवत) स्तुवन्तु (ब्रह्म) परमेश्वरेण वेदः (असृज्यत) सृष्टः (ब्रह्मणस्पतिः) वेदस्य पालकः (अधिपतिः) (आसीत्) अस्ति (पञ्चभिः) समानचित्तबुद्ध्यहंकारमनोभिः (अस्तुवत) स्तुवन्तु (भूतानि) पृथिव्यादीनि (असृज्यन्त) संसृष्टानि कुर्वन्तु (भूतानाम्) (पतिः) पालकः (अधिपतिः) पत्युः पतिः (आसीत्) भवति (सप्तभिः) नागकूर्म्मकृकलदेवदत्तधनञ्जयेच्छाप्रयत्नैः (अस्तुवत) स्तुवन्तु (सप्त ऋषयः) पञ्च मुख्यप्राणा महत्तत्त्वमहंकारश्चेति (असृज्यन्त) सृज्यन्ते (धाता) धर्त्ता पोषको वा (अधिपतिः) सर्वेषां स्वामी (आसीत्) अस्ति। [अयं मन्त्रः शत॰८.४.३.३-६ व्याख्यातः]॥२८॥
Essence
सर्वैर्मनुष्यैः सर्वस्य जगत उत्पादको न्यायाधीशः परमेश्वरः स्तोतव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः। यथा हेमन्तर्त्तौ सर्वे पदार्थाः शीतला भवन्ति, तथैव परमेश्वरमुपास्य शान्तियुक्ता भवन्तु॥२८॥
Subject
अथैतदृतुचक्रं केन सृष्टमित्याह॥
Anvaya
हे मनुष्याः! यः प्रजापतिरधिपतिः सर्वस्य स्वामीश्वर आसीत् तमेकयाऽस्तुवत। सर्वाः प्रजाश्चाधीयन्त, यो ब्रह्मणस्पतिरधिपतिरासीद् येनेदं सर्वविद्यामयं ब्रह्म वेदोऽसृज्यत, तं तिसृभिरस्तुवत। येन भूतान्यसृज्यन्त यो भूतानां पतिरधिपतिरासीत्, तं सर्वे मनुष्याः पञ्चभिरस्तुवत। येन सप्त ऋषयोऽसृज्यन्त यो धाताऽधिपतिरासीत् तं सप्तभिरस्तुवत॥२८॥