Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 14 / Mantra 23

31 Mantra
14/23
Devata- यज्ञो देवता Rishi- विश्वदेव ऋषिः Chhand- भुरिग्ब्राह्मी पङ्क्तिः, भुरिगतिजगती Swara- पञ्चमः, निषादः
Mantra with Swara
आ॒शुस्त्रि॒वृद्भा॒न्तः प॑ञ्चद॒शो व्यो॑मा सप्तद॒शो ध॒रुण॑ऽ एकवि॒ꣳशः प्रतू॑र्त्तिरष्टाद॒शस्तपो॑ नवद॒शोऽभीव॒र्त्तः स॑वि॒ꣳशो वर्चो॑ द्वावि॒ꣳशः स॒म्भर॑णस्त्रयोवि॒ꣳशो योनि॑श्चतुर्वि॒ꣳशो गर्भाः॑ पञ्चवि॒ꣳशऽ ओज॑स्त्रिण॒वः क्रतु॑रेकत्रि॒ꣳशः प्र॑ति॒ष्ठा त्र॑यस्त्रि॒ꣳशो ब्र॒ध्नस्य॑ वि॒ष्टपं॑ चतुस्त्रि॒ꣳशो नाकः॑ षट्त्रि॒ꣳशो वि॑व॒र्तोऽष्टाचत्वारि॒ꣳशो ध॒र्त्रं च॑तुष्टो॒मः॥२३॥

आ॒शुः। त्रि॒वृदिति॑ त्रि॒ऽवृत्। भा॒न्तः। प॒ञ्च॒द॒श इति॑ पञ्चऽद॒शः। व्यो॒मेति॒ विऽओ॑मा। स॒प्त॒द॒श इति॑ सप्तऽद॒शः। ध॒रुणः॑। ए॒क॒वि॒ꣳश इत्ये॑कऽवि॒ꣳशः। प्रतू॑र्त्ति॒रिति॒ प्रऽतू॑र्त्तिः। अ॒ष्टा॒द॒श इत्य॑ष्टाऽद॒शः। तपः॑। न॒व॒द॒श इति॑ नवऽद॒शः। अ॒भी॒व॒र्त्तः। अ॒भी॒व॒र्त्त इत्य॑भिऽव॒र्त्तः। स॒वि॒ꣳश इति॑ सऽवि॒ꣳशः। वर्चः॑। द्वा॒वि॒ꣳशः। स॒म्भर॑ण॒ इति॑ स॒म्ऽभर॑णः। त्र॒यो॒वि॒ꣳश इति॑ त्रयःऽविं॒शः। योनिः॑। च॒तु॒र्वि॒ꣳशः इति॑ चतुःऽविं॒शः। गर्भाः॑। प॒ञ्च॒वि॒ꣳश इति॑ पञ्चऽवि॒ꣳशः। ओजः॑। त्रि॒ण॒वः। त्रि॒न॒व॒ इति॑ त्रिऽन॒वः। क्रतुः॑। ए॒क॒त्रि॒ꣳश इत्ये॑कऽत्रि॒ꣳशः। प्र॒ति॒ष्ठा। प्र॒ति॒स्थेति॑ प्रति॒ऽस्था। त्र॒य॒स्त्रि॒ꣳश इति॑ त्रयःऽत्रि॒ꣳशः। ब्र॒ध्नस्य॑। वि॒ष्टप॑म्। च॒तु॒स्त्रि॒ꣳश इति॑ चतुःऽत्रि॒ꣳशः। नाकः॑। ष॒ट्त्रि॒ꣳश इति॑ षट्ऽत्रि॒ꣳशः। वि॒व॒र्त्त इति॑ विऽव॒र्त्तः। अ॒ष्टा॒च॒त्वा॒रि॒ꣳश इत्य॑ष्टाऽच॒त्वा॒रि॒ꣳशः। ध॒र्त्रम्। च॒तु॒ष्टो॒मः। च॒तु॒स्तो॒म इति॑ चतुःऽस्तो॒मः ॥२३ ॥

Mantra without Swara
आशुस्त्रिवृद्भान्तः पञ्चदशो व्योमा सप्तदशो धरुणऽएकविँशः प्रतूर्तिरष्टादशस्तपो नवदशोभीवर्तः सविँशो वर्चा द्वाविँशः सम्भरणस्त्रयोविँशो योनिश्चतुर्विँशो गर्भाः पञ्चविँशःऽओजस्त्रिणवः क्रतुरेकत्रिँशः प्रतिष्ठा त्रयस्त्रिँशो ब्रध्नस्य विष्टपञ्चतुस्त्रिँशो नाकः षट्त्रिँशो विवर्ता ष्टाचत्वारिँशो धर्त्रञ्चतुष्टोमः ॥

आशुः। त्रिवृदिति त्रिऽवृत्। भान्तः। पञ्चदश इति पञ्चऽदशः। व्योमेति विऽओमा। सप्तदश इति सप्तऽदशः। धरुणः। एकविꣳश इत्येकऽविꣳशः। प्रतूर्त्तिरिति प्रऽतूर्त्तिः। अष्टादश इत्यष्टाऽदशः। तपः। नवदश इति नवऽदशः। अभीवर्त्तः। अभीवर्त्त इत्यभिऽवर्त्तः। सविꣳश इति सऽविꣳशः। वर्चः। द्वाविꣳशः। सम्भरण इति सम्ऽभरणः। त्रयोविꣳश इति त्रयःऽविंशः। योनिः। चतुर्विꣳशः इति चतुःऽविंशः। गर्भाः। पञ्चविꣳश इति पञ्चऽविꣳशः। ओजः। त्रिणवः। त्रिनव इति त्रिऽनवः। क्रतुः। एकत्रिꣳश इत्येकऽत्रिꣳशः। प्रतिष्ठा। प्रतिस्थेति प्रतिऽस्था। त्रयस्त्रिꣳश इति त्रयःऽत्रिꣳशः। ब्रध्नस्य। विष्टपम्। चतुस्त्रिꣳश इति चतुःऽत्रिꣳशः। नाकः। षट्त्रिꣳश इति षट्ऽत्रिꣳशः। विवर्त्त इति विऽवर्त्तः। अष्टाचत्वारिꣳश इत्यष्टाऽचत्वारिꣳशः। धर्त्रम्। चतुष्टोमः। चतुस्तोम इति चतुःऽस्तोमः॥२३॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(आशुः) (त्रिवृत्) शीते चोष्णो द्वयोर्मध्ये च वर्त्तते सः (भान्तः) प्रकाशः (पञ्चदशः) पञ्चदशानां पूरणः पञ्चदशविधः (व्योमा) व्योमवद् विस्तृतः (सप्तदशः) सप्तदशविधः (धरुणः) धारणगुणः (एकविंशः) एकविंशतिधा (प्रतूर्त्तिः) शीघ्रगतिः (अष्टादशः) अष्टादशधा (तपः) संतापो गुणः (नवदशः) नवदशधा (अभीवर्त्तः) य आभिमुख्ये वर्त्तते सः (सविंशः) विंशत्या सह वर्त्तमानः (वर्चः) दीप्तिः (द्वाविंशः) द्वाविंशतिधा (सम्भरणः) सम्यग् धारकः (त्रयोविंशः) त्रयोविंशतिधा (योनिः) संयोजको वियोजको गुणः (चतुर्विंशः) चतुर्विंशतिधा (गर्भाः) गर्भधारणशक्तयः (पञ्चविंशः) पञ्चविंशतिधा (ओजः) पराक्रमः (त्रिणवः) सप्तविंशतिधा (क्रतुः) कर्म प्रज्ञा वा (एकत्रिंशः) एकत्रिंशद्धा (प्रतिष्ठा) प्रतिष्ठन्ति यस्यां सा (त्रयस्त्रिंशः) त्रयस्त्रिंशत् प्रकारः (ब्रध्नस्य) महतः (विष्टपम्) व्याप्तिम्। अत्र विष् धातोर्बाहुलकादौणादिकस्तपः प्रत्ययः (चतुस्त्रिंशः) चतुस्त्रिंशद्विधः (नाकः) आनन्दः (षट्त्रिंशः) षट्त्रिंशत्प्रकारः (विवर्त्तः) विविधं वर्तते यस्मिन् सः (अष्टाचत्वारिंशः) अष्टाचत्वारिंशद्धा (धर्त्रम्) धारणम् (चतुष्टोमः) चत्वारः स्तोमाः स्तुतयो यस्मिन् संवत्सरे सः। [अयं मन्त्रः शत॰८.४.१.९ व्याख्यातः]॥२३॥
Essence
यस्य संवत्सरस्य सम्बन्धिनो भूतभविष्यद्वर्त्तमानादयोऽवयवाः सन्ति तस्य सम्बन्धादेते व्यवहारा भवन्तीति यूयं बुध्यध्वम्॥२३॥
Subject
अथ संवत्सर कीदृशोऽस्तीत्याह॥
Anvaya
हे मनुष्याःæ! यूयं यस्मिन् संवत्सर आशुस्त्रिवृद् भान्तः पञ्चदशो व्योमा सप्तदशो धरुण एकविंशः प्रतूर्त्तिरष्टादशस्तपो नवदशोऽभीवर्त्तः सविंशो वर्चो द्वाविंशः संभरणस्त्रयोविंशो योनिश्चतुर्विंशो गर्भाः पञ्चविंश ओजस्त्रिणवः क्रतुरेकत्रिंशः प्रतिष्ठा त्रयस्त्रिंशो ब्रध्नस्य विष्टपं चतुस्त्रिंशो नाकः षट्त्रिंशो विवर्त्तोऽष्टाचत्वारिंशो धर्त्रं चतुष्टोमोऽस्ति, तं संवत्सरं विजानीत॥२३॥