Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 14 / Mantra 10

31 Mantra
14/10
Devata- विद्वांसो देवता Rishi- विश्वदेव ऋषिः Chhand- निचृदष्टिः Swara- मध्यमः
Mantra with Swara
अ॒न॒ड्वान् वयः॑ प॒ङ्क्तिश्छन्दो॑ धे॒नुर्वयो॒ जग॑ती॒ छन्द॒स्त्र्यवि॒र्वय॑स्त्रि॒ष्टुप् छन्दो॑ दित्य॒वाड् वयो॑ वि॒राट् छन्दः॒ पञ्चा॑वि॒र्वयो॑ गाय॒त्री छन्द॑स्त्रिव॒त्सो वय॑ऽउ॒ष्णिक् छन्द॑स्तुर्य्य॒वाड् वयो॑ऽनु॒ष्टुप् छन्दः॑॥१०॥

अ॒न॒ड्वान्। वयः॑। प॒ङ्क्तिः। छन्दः॑। धे॒नुः। वयः॑। जग॑ती। छन्दः॑। त्र्यवि॒रिति॑ त्रि॒ऽअविः॑। वयः॑। त्रि॒ष्टुप्। त्रि॒स्तुबिति॑ त्रि॒ऽस्तुप्। छन्दः॑। दि॒त्य॒वाडिति॑ दित्य॒ऽवाट्। वयः॑। वि॒राडिति॑ वि॒ऽराट्। छन्दः॑। पञ्चा॑वि॒रिति॒ पञ्च॑ऽअविः। वयः॑। गा॒य॒त्री। छन्दः॑। त्रि॒व॒त्स इति॑ त्रिऽव॒त्सः। वयः॑। उ॒ष्णिक्। छन्दः॑। तु॒र्य॒वाडिति॑ तुर्य॒ऽवाट्। वयः॑। अ॒नु॒ष्टुप्। अ॒नु॒स्तुबित्यनु॒ऽस्तुप्। छन्दः॑ ॥१० ॥

Mantra without Swara
अनड्वान्वयः पङ्क्तिश्छन्दो धेनुर्वयो जगती छन्दस्त्र्यविर्वयस्त्रिष्टुप्छन्दो दित्यवाड्वयो विराट्छन्द पञ्चाविर्वयो गायत्री च्छन्दस्त्रिवत्सो वयऽउष्णिक्छन्दस्तुर्यवाड्वयोनुष्टुप्छन्दो लोकन्ताऽइन्द्रम्। गलितमन्त्रा---- लोकम्पृण च्छिद्रम्पृणाथो सीद धु्रवा त्वम् । इन्द्राग्नी त्वा बृहस्पतिरस्मिन्योनावसीषदन्॥ ताऽअस्य सूददोहसः सोमँ श्रीणन्ति पृश्नयः । जन्मन्देवानाँविशस्त्रिष्वा रोचने दिवः ॥ इन्द्रँविश्वाऽअवीवृधन्त्समुद्रव्यचसङ्गिरः । रथीतमँ रथीनाँवाजानाँ सत्पतिम्पतिम् ॥

अनड्वान्। वयः। पङ्क्तिः। छन्दः। धेनुः। वयः। जगती। छन्दः। त्र्यविरिति त्रिऽअविः। वयः। त्रिष्टुप्। त्रिस्तुबिति त्रिऽस्तुप्। छन्दः। दित्यवाडिति दित्यऽवाट्। वयः। विराडिति विऽराट्। छन्दः। पञ्चाविरिति पञ्चऽअविः। वयः। गायत्री। छन्दः। त्रिवत्स इति त्रिऽवत्सः। वयः। उष्णिक्। छन्दः। तुर्यवाडिति तुर्यऽवाट्। वयः। अनुष्टुप्। अनुस्तुबित्यनुऽस्तुप्। छन्दः॥१०॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(अनड्वान्) वृषभः (वयः) बलम् (पङ्क्तिः) (छन्दः) (धेनुः) दुग्धप्रदा (वयः) कामनाम् (जगती) जगदुपकारकम् (छन्दः) आह्लादनम् (त्र्यविः) त्रयोऽव्यादयो यस्मात्तम् (वयः) प्रजननम् (त्रिष्टुप्) त्रीणि कर्मोपासनाज्ञानानि स्तुवन्ति यया सा (छन्दः) (दित्यवाट्) दितिभिः खण्डनैर्निर्वृत्तान् यवादीन् वहति (वयः) प्रापणम् (विराट्) (छन्दः) आनन्दकरम् (पञ्चाविः) पञ्चेन्द्रियाण्यवन्ति येन सः (वयः) विज्ञानम् (गायत्री) (छन्दः) (त्रिवत्सः) त्रयः कर्मोपासनाज्ञानानि वत्सा इव यस्य सः (वयः) पराक्रमम् (उष्णिक्) यद् दुःखानि दहति तम् (छन्दः) (तुर्यवाट्) तुर्यान् चतुरो वेदान् वहति येन सः (वयः) (अनुष्टुप्) अनुस्तौति यया सा (छन्दः) सुखसाधकम्। अत्र पूर्ववत् मन्त्रत्रयप्रतीकानि लोकन्ता इन्द्रमिति लिखितानि निवारितानि। [अयं मन्त्रः शत॰८.२.४.९-१५ व्याख्यातः]॥१०॥
Essence
अत्र श्लेषवाचकलुप्तोपमालङ्कारौ। एरयपदानुवृत्तिश्च। यथाऽनडुहादीनां रक्षणेन कृषीवला अन्नादीन्युत्पाद्य सर्वान् सुखयन्ति, तथैव विद्वांसः स्त्रीपुरुषा विद्यां प्रचार्य्य सर्वानानन्दयन्ति॥१०॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे स्त्रि पुरुष वा! अनड्वानिव त्वं पङ्क्तिश्छन्दो वय एरय, धेनुरिव त्वं जगती छन्दो वय एरय, त्र्यविरिव त्वं त्रिष्टुप् छन्दो वय एरय, दित्यवाडिव त्वं विराट् छन्दो वय एरय, पञ्चाविरिव त्वं गायत्री छन्दो वय एरय, त्रिवत्स इव त्वमुष्णिक् छन्दो वय एरय, तुर्य्यवाडिव त्वमनुष्टुप् छन्दो वय एरय॥१०॥