Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 13 / Mantra 55

58 Mantra
13/55
Devata- प्रजापतिर्देवता Rishi- उशना ऋषिः Chhand- निचृदतिधृतिः Swara- षड्जः
Mantra with Swara
अ॒यं द॑क्षि॒णा वि॒श्वक॑र्मा॒ तस्य॒ मनो॑ वैश्वकर्म॒णं ग्री॒ष्मो मा॑न॒सस्त्रि॒ष्टुब् गै्रष्मी॑ त्रि॒ष्टुभः॑ स्वा॒रꣳ स्वा॒राद॑न्तर्य्या॒मोऽन्तर्या॒मात् प॑ञ्चद॒शः प॑ञ्चद॒शाद् बृ॒हद् भ॒रद्वा॑ज॒ऽ ऋषिः॑ प्र॒जाप॑तिगृहीतया॒ त्वया॒ मनो॑ गृह्णामि प्र॒जाभ्यः॑॥५५॥

अ॒यम्। द॒क्षि॒णा। वि॒श्वक॒र्मेति॑ वि॒श्वऽक॑र्मा। तस्य॑। मनः॑। वै॒श्व॒क॒र्म॒णमिति॑ वैश्वऽक॒र्म॒णम्। ग्री॒ष्मः। मा॒न॒सः। त्रि॒ष्टुप्। त्रि॒स्तुबिति॑ त्रि॒ऽस्तुप्। ग्रैष्मी॑। त्रि॒ष्टुभः॑। त्रि॒स्तुभ॒ इति॑ त्रि॒ऽस्तुभः॑। स्वा॒रम्। स्वा॒रात्। अ॒न्त॒र्या॒म इत्य॑न्तःया॒मः। अ॒न्त॒र्या॒मादित्य॑न्तःऽया॒मात्। प॒ञ्च॒द॒श इति॑ प॒ञ्च॒ऽद॒शः। प॒ञ्च॒द॒शादिति॑ पञ्चऽद॒शात्। बृ॒हत्। भ॒रद्वा॑ज॒ इति॑ भ॒रत्ऽवा॑जः। ऋषिः॑। प्र॒जाप॑तिगृहीत॒येति॑ प्र॒जाप॑तिऽगृहीतया। त्वया॑। मनः॑। गृ॒ह्णा॒मि॒। प्र॒जाभ्य॒ इति॑ प्र॒ऽजाभ्यः॑ ॥५५ ॥

Mantra without Swara
अयन्दक्षिणा विश्वकर्मा तस्य मनो वैश्वकर्मणङ्ग्रीष्मो मानसस्त्रिष्टुब्ग्रैष्मी त्रिष्टुभः स्वारँ स्वारादन्तर्यामोन्तर्यामात्पञ्चदशः पञ्चदशाद्बृहद्भरद्वाजऽऋषिः प्रजापतिगृहीतया त्वया मनो गृह्णामि प्रजाभ्यः॥

अयम्। दक्षिणा। विश्वकर्मेति विश्वऽकर्मा। तस्य। मनः। वैश्वकर्मणमिति वैश्वऽकर्मणम्। ग्रीष्मः। मानसः। त्रिष्टुप्। त्रिस्तुबिति त्रिऽस्तुप्। ग्रैष्मी। त्रिष्टुभः। त्रिस्तुभ इति त्रिऽस्तुभः। स्वारम्। स्वारात्। अन्तर्याम इत्यन्तःयामः। अन्तर्यामादित्यन्तःऽयामात्। पञ्चदश इति पञ्चऽदशः। पञ्चदशादिति पञ्चऽदशात्। बृहत्। भरद्वाज इति भरत्ऽवाजः। ऋषिः। प्रजापतिगृहीतयेति प्रजापतिऽगृहीतया। त्वया। मनः। गृह्णामि। प्रजाभ्य इति प्रऽजाभ्यः॥५५॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(अयम्) वायुः (दक्षिणा) दक्षिणतः (विश्वकर्मा) विश्वान्यखिलानि कर्माणि यस्मात् सः (तस्य) वायोः (मनः) मननशीलं प्रेरकं कर्म (वैश्वकर्मणम्) यस्माद् विश्वानि कर्माणि निवृर्त्तानि भवन्ति तत् (ग्रीष्मः) यो रसान् ग्रसते सः (मानसः) मनस ऊष्मेव वर्त्तमानः (त्रिष्टुप्) छन्दः (ग्रैष्मी) ग्रीष्मर्तुव्याख्यात्री ऋक् (त्रिष्टुभः) छन्दसः (स्वारम्) तापाज्जातं तेजः (स्वारात्) (अन्तर्यामः) अन्तर्मध्ये यामाः प्रहरा यस्मिन् समये सः (अन्तर्यामात्) (पञ्चदशः) पञ्चदशानां तिथीनां पूरकः स्तोमः (पञ्चदशात्) (बृहत्) महान् (भरद्वाजः) वाजोऽन्नं विज्ञानं वा बिभर्त्ति येन श्रोत्रेण तत् (ऋषिः) विज्ञापकः (प्रजापतिगृहीतया) (त्वया) (मनः) मननात्मकविज्ञानयुक्तं चित्तम् (गृह्णामि) (प्रजाभ्यः)। [अयं मन्त्रः शत॰८.१.१.७-९ व्याख्यातः]॥५५॥
Essence
स्त्रीपुरुषैः प्राणस्य मनो नियन्तृ मनसश्च प्राणो नियन्तेति विदित्वा प्राणायामान्मनःशुद्धि संपादयद्भिरखिलायाः सृष्टेः पदार्थविज्ञानं स्वीकार्यम्॥५५॥
Subject
अथ मनुष्यैर्ग्रीष्म ऋतौ कथं वर्त्तितव्यमित्याह॥
Anvaya
हे स्त्रि! यथा दक्षिणाऽयं विश्वकर्मा वायुरिवास्ति, तस्य वैश्वकर्मणं मनो मानसो ग्रीष्मो ग्रैष्मी त्रिष्टुप् त्रिष्टुभः स्वारं स्वारादन्तर्यामोऽन्तर्यामात् पञ्चदशः पञ्चदशाद् बृहद्भरद्वाज ऋषिः प्रजापतिगृहीतया विद्यया सह राजा प्रजाभ्यो मनो गृह्णाति, तथा त्वया साकमहं विश्वस्माद् विज्ञानं गृह्णामि॥५५॥