Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 13 / Mantra 52

58 Mantra
13/52
Devata- अग्निर्देवता Rishi- उशना ऋषिः Chhand- निचृद्गायत्री Swara- षड्जः
Mantra with Swara
त्वं य॑विष्ठ दा॒शुषो॒ नॄः पा॑हि शृणु॒धी गिरः॑। रक्षा॑ तो॒कमु॒त त्मना॑॥५२॥

त्वम्। य॒वि॒ष्ठ॒। दा॒शुषः॑। नॄन्। पा॒हि॒। शृ॒णु॒धि। गिरः॑। रक्ष॑। तो॒कम्। उ॒त। त्मना॑ ॥५२ ॥

Mantra without Swara
त्वँयविष्ठ दाशुषो नऋृँ पाहि शृणुधी गिरः । रक्षा तोकमुत त्मना ॥

त्वम्। यविष्ठ। दाशुषः। नॄन्। पाहि। शृणुधि। गिरः। रक्ष। तोकम्। उत। त्मना॥५२॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(त्वम्) (यविष्ठ) अतिशयेन युवन् (दाशुषः) सुखदातॄन् (नॄन्) धर्मनेतॄन् मनुष्यान्। अत्र नृन् पे [अष्टा॰८.३.१०] इति रुरादेशः पूर्वस्यानुनासिकत्वं च (पाहि) (शृणुधि) अत्र हेर्ध्यादेशः ‘अन्येषामपि॰ [अष्टा॰६.३.१३७] इति दीर्घः (गिरः) सत्या वाचः (रक्ष) अत्र द्व्यचोऽतस्तिङः [अष्टा॰६.३.१३५] इति दीर्घः (तोकम्) अपत्यम् (उत) अपि (त्मना) आत्मना। [अयं मन्त्रः शत॰७.५.२.३९ व्याख्यातः]॥५२॥
Essence
ये मनुष्या मनुष्यादिरक्षकान् पशून् वर्धयन्ते, करुणामयानुपदेशान् शृण्वन्ति श्रावयन्ति, त आत्मजं सुखं लभन्ते॥५२॥
Subject
पुनः कीदृशा रक्ष्या हिंसनीयाश्चेत्याह॥
Anvaya
हे यविष्ठ! त्वं संरक्षितैरेतैः पशुभिर्दाशुषो नॄन् पाहि। इमा गिरः शृणुधि, त्मना मनुष्याणामुत पशूनां तोकं रक्ष॥५२॥