Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 13 / Mantra 48

58 Mantra
13/48
Devata- अग्निर्देवता Rishi- विरूप ऋषिः Chhand- निचृद् ब्राह्मी पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
इ॒मं मा हि॑ꣳसी॒रेक॑शफं प॒शुं क॑निक्र॒दं वा॒जिनं॒ वाजि॑नेषु। गौ॒रमा॑र॒ण्यमनु॑ ते दिशामि॒ तेन॑ चिन्वा॒नस्त॒न्वो निषी॑द। गौ॒रं ते॒ शुगृ॑च्छतु॒ यं द्वि॒ष्मस्तं ते॒ शुगृ॑च्छतु॥४८॥

इ॒मम्। मा। हि॒ꣳसीः॒। एक॑शफ॒मित्येक॑ऽशफम्। प॒शुम्। क॒नि॒क्र॒दम्। वा॒जिन॑म्। वाजि॑नेषु। गौ॒रम्। आ॒र॒ण्यम्। अनु॑। ते॒। दि॒शा॒मि॒। तेन॑। चि॒न्वा॒नः। त॒न्वः᳖। नि। सी॒द॒। गौ॒रम्। ते॒। शुक्। ऋ॒च्छ॒तु॒। यम्। द्वि॒ष्मः। तम्। ते॒। शुक्। ऋ॒च्छ॒तु॒ ॥४७ ॥

Mantra without Swara
इमम्मा हिँसीरेकशपम्फशुङ्कनिक्रदँवाजिनँवाजिनेषु । गौरमारण्यमनु ते दिशामि तेन चिन्वानस्तन्वो नि षीद । गौरन्ते शुगृच्छतु यन्द्विष्मस्तन्ते शुगृच्छतु ॥

इमम्। मा। हिꣳसीः। एकशफमित्येकऽशफम्। पशुम्। कनिक्रदम्। वाजिनम्। वाजिनेषु। गौरम्। आरण्यम्। अनु। ते। दिशामि। तेन। चिन्वानः। तन्वः। नि। सीद। गौरम्। ते। शुक्। ऋच्छतु। यम्। द्विष्मः। तम्। ते। शुक्। ऋच्छतु॥४७॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(इमम्) (मा) (हिंसीः) हिंस्याः (एकशफम्) एकखुरमश्वादिकम् (पशुम्) द्रष्टव्यम् (कनिक्रदम्) भृशं विफलं प्राप्तव्यथम् (वाजिनम्) वेगवन्तम् (वाजिनेषु) वाजिनानां संग्रामाणामवयवेषु कर्मसु कार्यसिद्धिकरम् (गौरम्) गौरवर्णम् (आरण्यम्) अरण्ये भवम् (अनु) (ते) तुभ्यम् (दिशामि) उपदिशामि (तेन) (चिन्वानः) वर्द्धमानः (तन्वः) शरीरस्य मध्ये (नि) (सीद) (गौरम्) (ते) इत्यादि पूर्ववत्। [अयं मन्त्रः शत॰७.५.२.३३ व्याख्यातः]॥४८॥
Essence
मनुष्यैरेकशफा अश्वादयः पशवः कदाचिन्नो हिंस्याः, न चोपकारका आरण्याः। येषां हननेन जगतो हानी रक्षणेनोपकारश्च भवति, ते सदैव पालनीया हिंस्राश्च हन्तव्याः॥४८॥
Subject
पुनरयं मनुष्यः किं कुर्यादित्याह॥
Anvaya
हे मनुष्य! त्वं वाजिनेष्विममेकशफं कनिक्रदं वाजिनं पशुं मा हिंसीः। ईश्वरोऽहं ते तुभ्यं यमारण्यं गौरं पशुमनु दिशामि, तेन चिन्वानः सँस्तन्वो मध्ये निषीद। ते तव सकाशाद् गौरं शुगृच्छतु यं वयं द्विष्मस्तं ते शुगृच्छतु॥४८॥