Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 13 / Mantra 47

58 Mantra
13/47
Devata- अग्निर्देवता Rishi- विरूप ऋषिः Chhand- विराड ब्राह्मी पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
इ॒मं मा हि॑ꣳसीर्द्वि॒पादं॑ प॒शुꣳ स॑हस्रा॒क्षो मेधा॑य ची॒यमा॑नः। म॒युं प॒शुं मेध॑मग्ने जुषस्व॒ तेन॑ चिन्वा॒नस्त॒न्वो निषी॑द। म॒युं ते॒ शुगृ॑च्छतु॒ यं द्वि॒ष्मस्तं ते॒ शुगृ॑च्छतु॥४७॥

इ॒मम्। मा। हि॒ꣳसीः॒। द्वि॒पाद॒मिति द्वि॒ऽपाद॑म्। प॒शुम्। स॒ह॒स्रा॒क्ष इति॑ सहस्रऽअ॒क्षः। मेधा॑य। ची॒यमा॑नः। म॒युम्। प॒शुम्। मेध॑म्। अ॒ग्ने। जु॒ष॒स्व॒। तेन॑। चि॒न्वा॒नः। त॒न्वः᳖। नि। सी॒द॒। म॒युम्। ते॒। शुक्। ऋ॒च्छ॒तु॒। यम्। द्वि॒ष्मः। तम्। ते॒। शुक्। ऋ॒च्छ॒तु॒ ॥४७ ॥

Mantra without Swara
इमम्मा हिँसीर्द्विपादम्पशुँ सहस्राक्षो मेधाय चीयमानः । मयुम्पशुम्मेधमग्ने जुषस्व तेन चिन्वानस्तन्वो निषीद । मयुन्ते शुगृच्छतु यन्द्विष्मस्तन्ते शुगृच्छतु ॥

इमम्। मा। हिꣳसीः। द्विपादमिति द्विऽपादम्। पशुम्। सहस्राक्ष इति सहस्रऽअक्षः। मेधाय। चीयमानः। मयुम्। पशुम्। मेधम्। अग्ने। जुषस्व। तेन। चिन्वानः। तन्वः। नि। सीद। मयुम्। ते। शुक्। ऋच्छतु। यम्। द्विष्मः। तम्। ते। शुक्। ऋच्छतु॥४७॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(इमम्) (मा) (हिंसीः) हिंस्याः (द्विपादम्) मनुष्यादिकम् (पशुम्) चतुष्पादं गवादिकम् (सहस्राक्षः) असंख्यदर्शनः (मेधाय) सुखसंगमाय (चीयमानः) वर्धमानः (मयुम्) जाङ्गलम् (पशुम्) प्रसिद्धम् (मेधम्) पवित्रकारकम् (अग्ने) पावक इव मनुष्यजन्मप्राप्त (जुषस्व) प्रीणीहि (तेन) (चिन्वानः) वर्धमानः (तन्वः) शरीरस्य मध्ये पुष्टः सन् (नि) नितराम् (सीद) तिष्ठ (मयुम्) शस्यादिहिंसकं पशुम् (ते) तव (शुक्) शोकः, भावे क्किप्। (ऋच्छतु) प्राप्नोतु (यम्) शत्रुम् (द्विष्मः) अप्रीतयामः (तम्) (ते) तव सकाशात् (शुक्) शोकः (ऋच्छतु)। [अयं मन्त्रः शत॰७.५.२.३२ व्याख्यातः]॥४७॥
Essence
केनापि मनुष्येणोपकारकाः पशवः कदाचिन्न हिंसनीया, किन्त्वेतान् संपाल्यैतेभ्य उपकारं संगृह्य सर्वे मनुष्या आनन्दयितव्याः। यैर्जाङ्गलैर्हिंसकैः पशुशस्यमनुष्याणां हानिः स्यात्, ते तु राजपुरुषैर्हन्तव्या निग्रहीतव्याश्च॥४७॥
Subject
पुनर्मनुष्येण किं कार्य्यमित्याह॥
Anvaya
हे अग्ने! पावक इव मनुष्य मेधाय चीयमानः सहस्राक्षस्त्वमिमं द्विपादं मेधं मयुं पशुं च मा हिंसीः, तं पशुं जुषस्व। तेन चिन्वानः सन् तन्वो मध्ये निषीद। इयं ते शुङ् मयुमृच्छतु। ते तव यं शत्रुं वयं द्विष्मस्तं शुगृच्छतु॥४७॥