Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 13 / Mantra 44

58 Mantra
13/44
Devata- अग्निर्देवता Rishi- विरूप ऋषिः Chhand- निचृत्त्रिष्टुप् Swara- धैवतः
Mantra with Swara
वरू॑त्रीं॒ त्वष्टु॒र्वरु॑णस्य॒ नाभि॒मविं॑ जज्ञा॒ना रज॑सः॒ पर॑स्मात्। म॒ही सा॑ह॒स्रीमसु॑रस्य मा॒यामग्ने॒ मा हि॑ꣳसीः पर॒मे व्यो॑मन्॥४४॥

वरू॑त्रीम्। त्वष्टुः॑। वरु॑णस्य। नाभि॑म्। अवि॑म्। ज॒ज्ञा॒नाम्। रज॑सः। पर॑स्मात्। म॒हीम्। सा॒ह॒स्रीम्। असु॑रस्य। मा॒याम्। अग्ने॑। मा। हि॒ꣳसीः॒। प॒र॒मे। व्यो॑मन्निति॒ विऽओ॑मन् ॥४४ ॥

Mantra without Swara
वरूत्रीन्त्वष्टुर्वरुणस्य नाभिमविञ्जज्ञानाँ रजसः परस्मात् । महीँ साहस्रीमसुरस्य मायामग्ने मा हिँसीः पर्मे व्योमन् ॥

वरूत्रीम्। त्वष्टुः। वरुणस्य। नाभिम्। अविम्। जज्ञानाम्। रजसः। परस्मात्। महीम्। साहस्रीम्। असुरस्य। मायाम्। अग्ने। मा। हिꣳसीः। परमे। व्योमन्निति विऽओमन्॥४४॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(वरूत्रीम्) वरयित्रीम् (त्वष्टुः) छेदकस्य सूर्य्यस्य (वरुणस्य) जलस्य (नाभिम्) बन्धिकाम् (अविम्) रक्षणादिनिमित्ताम् (जज्ञानाम्) प्रजाताम् (रजसः) लोकात् (परस्मात्) श्रेष्ठात् (महीम्) महतीं भूमिम् (साहस्रीम्) असंख्यातां बहुफलप्रदाम् (असुरस्य) मेघस्य (मायाम्) प्रज्ञापिकां विद्युतम् (अग्ने) विद्वन् (मा) (हिंसीः) हिंस्याः (परमे) सर्वोत्कृष्टे (व्योमन्) आकाशवद् व्याप्ते ब्रह्मणि। [अयं मन्त्रः शत॰७.५.२.२० व्याख्यातः]॥४४॥
Essence
सर्वैर्मनुष्यैर्येयं पृथिवी परस्मात् कारणाज्जाता, सूर्य्याकर्षणसम्बन्धिनी, जलाधारा, मेघनिमित्ता, बहुभूगोलाकारा, असंख्यसुखप्रदा परमेश्वरेण निर्मिताऽस्ति, तां गुणकर्मस्वभावतो विज्ञाय सुखाय समुपयोक्तव्या॥४४॥
Subject
पुनस्तेन किं न कार्य्यमित्याह॥
Anvaya
हे अग्ने! त्वं त्वष्टुर्वरूत्रीं वरुणस्य नाभिं परस्माद् रजसो जज्ञानामसुरस्य मायां साहस्रीमविं परमे व्योमन् वर्त्तमानां महीं मा हिंसीः॥४४॥