Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 13 / Mantra 39

58 Mantra
13/39
Devata- अग्निर्देवता Rishi- विरूप ऋषिः Chhand- निचृदबृहती Swara- मध्यमः
Mantra with Swara
ऋ॒चे त्वा॑ रु॒चे त्वा॑ भा॒से त्वा॒ ज्योति॑षे त्वा। अभू॑दि॒दं विश्व॑स्य॒ भुव॑नस्य॒ वाजि॑नम॒ग्नेर्वै॑श्वान॒रस्य॑ च॥३९॥

ऋ॒चे। त्वा॒। रु॒चे। त्वा॒। भा॒से। त्वा॒। ज्योति॑षे। त्वा॒। अभू॑त्। इ॒दम्। विश्व॑स्य। भुव॑नस्य। वाजि॑नम्। अ॒ग्नेः। वै॒श्वा॒न॒रस्य॑। च॒ ॥३९ ॥

Mantra without Swara
ऋचे त्वा रुचे त्वा भासे त्वा ज्योतिषे त्वा । अभूदिदँविश्वस्य भुवनस्य वाजिनमग्नेर्वैश्वानरस्य च ॥

ऋचे। त्वा। रुचे। त्वा। भासे। त्वा। ज्योतिषे। त्वा। अभूत्। इदम्। विश्वस्य। भुवनस्य। वाजिनम्। अग्नेः। वैश्वानरस्य। च॥३९॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(ऋचे) स्तुतये (त्वा) त्वाम् (रुचे) प्रीतये (त्वा) (भासे) विज्ञानाय (त्वा) (ज्योतिषे) न्यायप्रकाशाय (त्वा) (अभूत्) भवेत् (इदम्) (विश्वस्य) समग्रस्य (भुवनस्य) सर्वाधिकारस्य जगतः (वाजिनम्) वाजिनां विज्ञानवतामिदमवयवभूतं विज्ञानम् (अग्नेः) विद्युदाख्यस्य (वैश्वानरस्य) अखिलेषु नरेषु राजमानस्य (च)। [अयं मन्त्रः शत॰७.५.२.१२ व्याख्यातः]॥३९॥
Essence
यस्य मनुष्यस्य सर्वेषां जगत्पदार्थानां यथार्थो बोधः स्यात्, तमेव सेवित्वा पदार्थविज्ञानं सर्वैर्मनुष्यैः प्राप्तव्यम्॥३९॥
Subject
विद्वद्भ्य इतरैरपि विज्ञानं प्राप्यमित्याह॥
Anvaya
हे विद्वन्! यस्य तव विश्वस्य भुवनस्य वैश्वानरस्याग्नेश्च वाजिनमिदं विज्ञानमभूत् जातम्, तमृचे त्वा रुचे त्वा भासे त्वा ज्योतिषे त्वा वयमाश्रयेम॥३९॥