Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 13 / Mantra 38

58 Mantra
13/38
Devata- अग्निर्देवता Rishi- विरूप ऋषिः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
स॒म्यक् स्र॑वन्ति स॒रितो॒ न धेना॑ऽ अ॒न्तर्हृ॒दा मन॑सा पू॒यमा॑नाः। घृ॒तस्य॒ धारा॑ऽ अ॒भिचा॑कशीमि हिर॒ण्ययो॑ वेत॒सो मध्ये॑ऽ अ॒ग्नेः॥३८॥

स॒म्यक्। स्र॒व॒न्ति॒। स॒रितः॑। न। धेनाः॑। अ॒न्तः। हृ॒दा। मन॑सा। पू॒यमा॑नाः। घृ॒तस्य॑। धाराः॑। अ॒भि। चा॒क॒शी॒मि॒। हि॒र॒ण्ययः॑। वे॒त॒सः। मध्ये॑। अ॒ग्नेः ॥३८ ॥

Mantra without Swara
सम्यक्स्रवन्ति सरितो न धेनाऽअन्तर्हृदा मनसा पूयमानाः । घृतस्य धारा अभि चाकशीमि हिरण्ययो वेतसो मध्येऽअग्नेः ॥

सम्यक्। स्रवन्ति। सरितः। न। धेनाः। अन्तः। हृदा। मनसा। पूयमानाः। घृतस्य। धाराः। अभि। चाकशीमि। हिरण्ययः। वेतसः। मध्ये। अग्नेः॥३८॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(सम्यक्) (स्रवन्ति) गच्छन्ति (सरितः) नद्यः। सरित इति नदीनामसु पठितम्॥ (निघं॰१।१६) (न) इव (धेनाः) वाचः। धेना इति वाङ्नामसु पठितम्॥ (निघं॰१।११) (अन्तः) आभ्यन्तरे (हृदा) हृदयेन (मनसा) विज्ञानवता चित्तेन (पूयमानाः) पवित्राः (घृतस्य) उदकस्य (धाराः) (अभि) आभिमुख्ये (चाकशीमि) भृशं प्राप्नोमि (हिरण्ययः) यशस्वी (वेतसः) वेगवत्यः। अत्र वीधातोर्बाहुलकादौणादिकस्तसिः प्रत्ययः (मध्ये) (अग्नेः) विद्युतः। [अयं मन्त्रः शत॰७.५.२.११ व्याख्यातः]॥३८॥
Essence
अत्रोपमालङ्कारः। मनुष्यैर्यथा समं विषमं चलन्त्यः शुद्धाः सत्यो नद्यः समुद्रं प्राप्यं स्थिरत्वं प्राप्नुवन्ति, तथैव विद्यासुशिक्षाधर्मैः पवित्रीभूता वाण्यो निश्चलाः प्राप्तव्याः प्रापयितव्याश्च॥३८॥
Subject
मनुष्यैः किं भूत्वा वाग् धार्य्येत्याह॥
Anvaya
हे मनुष्याः! यथाऽग्नेर्मध्ये हिरण्यय इव वर्त्तमानोऽहं या घृतस्य वेतसो धाराः सरितो नान्तर्हृदा मनसा पूयमाना धेनाः सम्यक् स्रवन्ति, ता अभिचाकशीमि, तथा यूयमप्येताः प्राप्नुत॥३८॥