Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 13 / Mantra 36

58 Mantra
13/36
Devata- अग्निर्देवता Rishi- भरद्वाज ऋषिः Chhand- निचृद्गायत्री Swara- षड्जः
Mantra with Swara
अग्ने॑ यु॒क्ष्वा हि ये तवाश्वा॑सो देव सा॒धवः॑। अरं॒ वह॑न्ति म॒न्यवे॑॥३६॥

अग्ने॑। यु॒क्ष्व। हि। ये। तव॑। अश्वा॑सः। दे॒व॒। सा॒धवः॑। अर॑म्। वह॑न्ति। म॒न्यवे॑ ॥३६ ॥

Mantra without Swara
अग्ने युक्ष्वा हि ये तवाश्वासो देव साधवः । अरँ वहन्ति मन्यवे ॥

अग्ने। युक्ष्व। हि। ये । तव। अश्वासः। देव। साधवः। अरम्। वहन्ति। मन्यवे॥३६॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(अग्ने) विद्वन् (युक्ष्व) अत्र द्व्यचोऽतस्तिङः [अष्टा॰६.३.१३५] इति दीर्घः, विकरणस्य लुक् च। (हि) खलु (ये) (तव) (अश्वासः) सुशिक्षितास्तुरङ्गाः (देव) दिव्यविद्यायुक्त (साधवः) अभीष्टं साध्नुवन्तः (अरम्) अलम् (वहन्ति) रथादीनि यानानि प्रापयन्ति (मन्यवे) शत्रूणामुपरि क्रोधाय। [अयं मन्त्रः शत॰७.५.१.३३ व्याख्यातः]॥३६॥
Essence
राजमनुष्यैर्वसन्ते प्रथममश्वान् सुशिक्ष्य सारथींश्च रथेषु नियोज्य शत्रुविजयाय गन्तव्यम्॥३६॥
Subject
अथ शत्रुविजयः कथं कर्त्तव्य इत्याह॥
Anvaya
हे देवाऽग्ने! ये तव साधवोऽश्वासो मन्यवेऽरं वहन्ति, तान् हि त्वं युक्ष्व॥३६॥