Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 13 / Mantra 29

58 Mantra
13/29
Devata- विश्वेदेवा देवताः Rishi- गोतम ऋषिः Chhand- निचृद्गायत्री Swara- षड्जः
Mantra with Swara
मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माँ२ऽ अस्तु॒ सूर्य्यः॑। माध्वी॒र्गावो॑ भवन्तु नः॥२९॥

मधु॑मा॒निति॒ मधु॑ऽमान्। नः॒। वन॒स्पतिः॑। मधु॑मा॒निति॒ मधु॑ऽमान्। अ॒स्तु॒। सूर्य्यः॑। माध्वीः॑। गावः॑। भ॒व॒न्तु॒। नः॒ ॥२९ ॥

Mantra without Swara
मधुमान्नो वनस्पतिर्मधुमाँ अस्तु सूर्यः । माध्वीर्गावो भवन्तु नः ॥

मधुमानिति मधुऽमान्। नः। वनस्पतिः। मधुमानिति मधुऽमान्। अस्तु। सूर्य्यः। माध्वीः। गावः। भवन्तु। नः॥२९॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(मधुमान्) प्रशस्ता मधवो गुणा विद्यन्ते यस्मिन् सः (नः) अस्मभ्यम् (वनस्पतिः) अश्वत्थादिः (मधुमान्) प्रशस्तो मधुः प्रतापो विद्यते यस्य सः (अस्तु) भवतु (सूर्य्यः) सविता (माध्वीः) मधुरा गुणा विद्यन्ते यासु ताः (गावः) धेनव इव किरणाः (भवन्तु) (नः) अस्मभ्यम्॥२९॥
Essence
हे मनुष्याः! यूयं वसन्तमृतुं प्राप्य यादृग् द्रव्यहोमेन वनस्पत्यादयो मधुरादिगुणाः स्युः, तादृशं यज्ञमाचरतेत्थं वासन्तिकं सुखं सर्वे यूयं प्राप्नुत॥२९॥
Subject
अथ वसन्ते जनैः किमाचरणीयमित्याह॥
Anvaya
हे विद्वांसः! यया वसन्ते नो वनस्पतिर्मधुमान् सूर्य्यश्च मधुमानस्तु। नो गावो माध्वीर्भवन्तु तथोपदिशत॥२९॥