Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 13 / Mantra 27

58 Mantra
13/27
Devata- विश्वेदेवा देवताः Rishi- गोतम ऋषिः Chhand- निचृद्गायत्री Swara- षड्जः
Mantra with Swara
मधु॒ वाता॑ऽ ऋताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः। माध्वी॑र्नः स॒न्त्वोष॑धीः॥२७॥

मधु॑। वाताः॑। ऋ॒ता॒य॒ते। ऋ॒त॒य॒त इत्यृ॑तऽय॒ते। मधु॑। क्ष॒र॒न्ति॒। सिन्ध॑वः। माध्वीः॑। नः॒। स॒न्तु॒। ओष॑धीः ॥२७ ॥

Mantra without Swara
मधु वाताऽऋतायते मधु क्षरन्ति सिन्धवः । माध्वीर्नः सन्त्वोषधीः ॥

मधु। वाताः। ऋतायते। ऋतयत इत्यृतऽयते। मधु। क्षरन्ति। सिन्धवः। माध्वीः। नः। सन्तु। ओषधीः॥२७॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(मधु) मधुरं यथा स्यात् तथा (वाताः) वायवः (ऋतायते) ऋतमुदकमिवाचरन्ति। अत्र वचनव्यत्ययेन बहुवचनस्थान एकवचनम्। ऋतमित्युदकनामसु पठितम्॥ (निघं॰१।१२) न छन्दस्यपुत्रस्य [अष्टा॰७.४.३५] इतीत्वाभावः। अन्येषामपि॰ [अष्टा॰६.३.१३७] इति दीर्घः (मधु) (क्षरन्ति) वर्षन्ति (सिन्धवः) नद्यः समुद्रा वा। सिन्धव इति नदीनामसु पठितम्॥ (निघं॰१।१३) (माध्वीः) माध्व्यो मधुरगुणयुक्ताः। अत्र ऋत्व्यवास्त्व्य॰ [अष्टा॰६.४.१७५] इति मधुशब्दादणि यणादेशनिपातः (नः) अस्मभ्यम् (सन्तु) (ओषधीः) ओषधयः। [अयं मन्त्रः शत॰७.५.१.४ व्याख्यातः]॥२७॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। यदा वसन्त आगच्छति, तदा पुष्पादिसुगन्धयुक्ता वाय्वादयः पदार्था भवन्ति, तस्मिन् भ्रमणं पथ्यं वर्त्तत इति वेद्यम्॥२७॥
Subject
अथ वसन्तर्तौर्गुणान्तरानाह॥
Anvaya
हे मनुष्याः! यथा वाता वसन्ते नो मधु ऋतायते सिन्धवो मधु क्षरन्ति ओषधीर्नो माध्वीः सन्तु, तथा वयमनुतिष्ठेम॥२७॥