Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 13 / Mantra 24

58 Mantra
13/24
Devata- प्रजापतिर्देवता Rishi- इन्द्राग्नी ऋषी Chhand- निचृद्धृतिः Swara- ऋषभः
Mantra with Swara
वि॒राड् ज्योति॑रधारयत् स्व॒राड् ज्योति॑रधारयत्। प्र॒जाप॑तिष्ट्वा सादयतु पृ॒ष्ठे पृ॑थि॒व्या ज्योति॑ष्मतीम्। विश्व॑स्मै प्रा॒णाया॑पा॒नाय॑ व्या॒नाय॒ विश्वं॒ ज्योति॑र्यच्छ। अ॒ग्निष्टेऽधि॑पति॒स्तया॑ दे॒वत॑याङ्गिर॒स्वद् ध्रु॒वा सी॑द॥२४॥

वि॒राडिति॑ वि॒ऽराट्। ज्योतिः॑। अ॒धा॒र॒य॒त्। स्व॒राडिति॑ स्व॒ऽराट्। ज्योतिः॑। अ॒धा॒र॒य॒त्। प्र॒जाप॑ति॒रिति॒ प्र॒जाऽप॑तिः। त्वा॒। सा॒द॒य॒तु॒। पृ॒ष्ठे। पृ॒थि॒व्याः। ज्योति॑ष्मतीम्। विश्व॑स्मै। प्रा॒णाय॑। अ॒पा॒नायेत्य॑पऽआ॒नाय॑। व्या॒नायेति॑ विऽआ॒नाय॑। विश्व॑म्। ज्योतिः॑। य॒च्छ॒। अ॒ग्निः। ते॒। अधि॑पति॒रित्यधि॑ऽपतिः। तया॑। दे॒वत॑या। अ॒ङ्गि॒र॒स्वत्। ध्रु॒वा। सी॒द॒ ॥२४ ॥

Mantra without Swara
विराड्ज्योतिरधारयत्स्वराड्ज्योतिरधारयत्। प्रजापतिष्ट्वा सादयतु पृष्ठे पृथिव्या ज्योतिष्मतीम् । विश्वस्मै प्राणायापानाय व्यानाय विश्वञ्ज्योतिर्यच्छ । अग्निष्टे धिपतिस्तया देवतयाङ्गिरस्वद्धरुवा सीद ॥

विराडिति विऽराट्। ज्योतिः। अधारयत्। स्वराडिति स्वऽराट्। ज्योतिः। अधारयत्। प्रजापतिरिति प्रजाऽपतिः। त्वा। सादयतु। पृष्ठे। पृथिव्याः। ज्योतिष्मतीम्। विश्वस्मै। प्राणाय। अपानायेत्यपऽआनाय। व्यानायेति विऽआनाय। विश्वम्। ज्योतिः। यच्छ। अग्निः। ते। अधिपतिरित्यधिऽपतिः। तया। देवतया। अङ्गिरस्वत्। ध्रुवा। सीद॥२४॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(विराट्) या विविधासु राजते (ज्योतिः) विद्याप्रकाशम् (अधारयत्) धारयेत् (स्वराट्) सर्वेषु धर्माचरणेषु स्वयं राजते (ज्योतिः) विद्युदादिप्रकाशम् (अधारयत्) (प्रजापतिः) प्रजायाः पालकः (त्वा) त्वाम् (सादयतु) संस्थापयतु (पृष्ठे) तले (पृथिव्याः) भूमेः (ज्योतिष्मतीम्) प्रशस्तं ज्योतिर्विद्याविज्ञानं विद्यते यस्यास्ताम् (विश्वस्मै) अखिलाय (प्राणाय) प्राणिति सुखं येन तस्मै (अपानाय) अपानिति दुःखं येन तस्मै (व्यानाय) व्यानिति सर्वान् शुभगुणकर्मस्वभावान् येन तस्मै (विश्वम्) समग्रम् (ज्योतिः) विज्ञानम् (यच्छ) गृहाण (अग्निः) विज्ञानवान् (ते) तव (अधिपतिः) स्वामी (तया) (देवतया) दिव्यया (अङ्गिरस्वत्) सूत्रात्मवत् (ध्रुवा) निष्कम्पा (सीद) स्थिरा भव। [अयं मन्त्रः शत॰७.४.२.२३ व्याख्यातः]॥२४॥
Essence
ये स्त्रीपुरुषाः सत्संगविद्याभ्यासाभ्यां विद्युदादिपदार्थविद्यां वर्द्धयन्ते त इह सुखिनो भवन्ति। पतिः स्त्रियं सदा सत्कुर्यात्, स्त्री पतिञ्च कुर्य्यात्। एवं परस्परं प्रीत्या सहैव सुखं भुञ्जाताम्॥२४॥
Subject
दम्पती अन्योऽन्यं कथं वर्तेयातामित्याह॥
Anvaya
या विराट् स्त्री ज्योतिरधारयत्, यः स्वराट् पुरुषो ज्योतिरधारयत्, सा स चाऽखिलं सुखं प्राप्नुयात्। हे स्त्रि! योऽग्निस्तेऽधिपतिरस्ति, तया देवतया सह त्वमङ्गिरस्वद् ध्रुवा सीद। हे पुरुष! याऽग्निस्तवाऽधिपत्न्यस्ति, तया देवतया सह त्वमङ्गिरस्वद् ध्रुवः सीद। हे स्त्रि! यः प्रजापतिः पृथिव्याः पृष्ठे विश्वस्मै प्राणायापानाय व्यानाय ज्योतिष्मतीं विद्युतमिव त्वा सादयतु, सा त्वं विश्वं ज्योतिर्यच्छैतस्मा एनं पतिं त्वं सादय॥२४॥