Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 12 / Mantra 90

117 Mantra
12/90
Devata- वैद्या देवताः Rishi- भिषगृषिः Chhand- विराडनुष्टुप् Swara- गान्धारः
Mantra with Swara
मु॒ञ्चन्तु॑ मा शप॒थ्यादथो॑ वरु॒ण्यादु॒त। अथो॑ य॒मस्य॒ पड्वी॑शात् सर्व॑स्माद् देवकिल्वि॒षात्॥९०॥

मु॒ञ्चन्तु॑। मा॒। श॒प॒थ्या᳕त्। अथो॒ऽइत्यथो॑। व॒रु॒ण्या᳖त्। उ॒त। अथो॒ऽइत्यथो॑। य॒मस्य॑। पड्वी॑शात्। सर्व॑स्मात्। दे॒व॒कि॒ल्वि॒षादिति॑ देवऽकि॒ल्वि॒षात् ॥९० ॥

Mantra without Swara
मुञ्चन्तु मा शपथ्यादथो वरुण्यादुत । अथो यमस्य पड्वीशात्सर्वस्माद्देवकिल्बिषात् ॥

मुञ्चन्तु। मा। शपथ्यात्। अथोऽइत्यथो। वरुण्यात्। उत। अथोऽइत्यथो। यमस्य। पड्वीशात्। सर्वस्मात्। देवकिल्विषादिति देवऽकिल्विषात्॥९०॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(मुञ्चन्तु) पृथक्कुर्वन्तु (मा) माम् (शपथ्यात्) शपथे भवात् कर्मणः (अथो) (वरुण्यात्) वरुणेषु वरेषु भवादपराधात् (उत) अपि (अथो) (यमस्य) न्यायाधीशस्य ( पड्वीशात्) न्यायविरोधाचरणत् (सर्वस्मात्) (देवकिल्विषात्) देवेषु विद्वत्स्वपराधकरणात्॥९०॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। मनुष्यैः प्रमादकार्य्यौषधं विहायान्यद् भोक्तव्यम्, न कदाचिच्छपथः कार्य्यः, श्रेष्ठापराधान्न्यायविरोधात् पापाचरणाद् विद्वदीर्ष्याविषयात् पृथग् भूत्वाऽऽनुकूल्येन वर्त्तितव्यमिति॥९०॥
Subject
किं किमौषधं कस्मात् कस्मान्मुञ्चतीत्याह॥
Anvaya
हे विद्वांसः! भवन्तो यथौषधयो रोगात् पृथग् रक्षन्ति, तथा शपथ्यादथो वरुण्यादथो यमस्य पड्वीशादुत सर्वस्माद् देवकिल्विषान्मा मुञ्चन्तु पृथग् रक्षन्तु, तथा युष्मानपि रोगेभ्यो मुञ्चन्तु॥९०॥