Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 12 / Mantra 86

117 Mantra
12/86
Devata- वैद्यो देवता Rishi- भिषगृषिः Chhand- निचृदनुष्टुप् Swara- गान्धारः
Mantra with Swara
यस्यौ॑षधीः प्र॒सर्प॒थाङ्ग॑मङ्गं॒ परु॑ष्परुः। ततो॒ यक्ष्मं॒ विबा॑धध्वऽउ॒ग्रो म॑ध्यम॒शीरि॑व॥८६॥

यस्य॑। ओष॑धीः। प्र॒सर्प॒थेति॑ प्र॒ऽसर्प॑थ। अङ्ग॑मङ्ग॒मित्यङ्ग॑म्ऽअङ्गम्। प॑रुष्परुः। परुः॑परु॒रिति॒ परुः॑ऽपरुः। ततः॑। यक्ष्म॑म्। वि। बा॒ध॒ध्वे॒। उ॒ग्रः। म॒ध्य॒म॒शीरि॒वेति॑ मध्यम॒शीःऽइ॑व ॥८६ ॥

Mantra without Swara
यस्यौषधीः प्रसर्पथाङ्गम्ङ्गम्परुष्परुः । ततो यक्ष्मँ वि बाधध्व उग्रो मध्यमशीरिव ॥

यस्य। ओषधीः। प्रसर्पथेति प्रऽसर्पथ। अङ्गमङ्गमित्यङ्गम्ऽअङ्गम्। परुष्परुः। परुःपरुरिति परुःऽपरुः। ततः। यक्ष्मम्। वि। बाधध्वे। उग्रः। मध्यमशीरिवेति मध्यमशीःऽइव॥८६॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(यस्य) (ओषधीः) (प्रसर्पथ) (अङ्गमङ्गम्) प्रत्यवयवम् (परुष्परुः) मर्ममर्म (ततः) (यक्ष्मम्) (वि) (बाधष्वे) (उग्रः) (मध्यमशीरिव) यो मध्यमानि मर्माणि शृणातीव॥८६॥
Essence
यदि शास्त्राऽनुसारेणौषधानि सेवेरँस्तर्ह्यङ्गादङ्गाद् रोगान् निःसार्याऽरोगिनो भवन्ति॥८६॥
Subject
यथायोग्यं सेवितमौषधं रोगान् कथं न नाशयेदित्याह॥
Anvaya
हे मनुष्याः! यूयं यस्याङ्गमङ्गं परुष्परुः प्रति वर्त्तमानं उग्रो यक्ष्मं मध्यमशीरिव विबाधध्वे। तत ओषधीः प्रसर्पथ विजानीत तान् वयं सेवेमहि॥८६॥