Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 12 / Mantra 42

117 Mantra
12/42
Devata- अग्निर्देवता Rishi- दीर्घतमा ऋषिः Chhand- विराडार्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
बोधा॑ मेऽअ॒स्य वच॑सो यविष्ठ॒ मꣳहि॑ष्ठस्य॒ प्रभृ॑तस्य स्वधावः। पीय॑ति त्वो॒ऽअनु॑ त्वो गृणाति व॒न्दारु॑ष्टे त॒न्वं वन्देऽअग्ने॥४२॥

बोध॑। मे॒। अ॒स्य। वच॑सः। य॒वि॒ष्ठ॒। मꣳहि॑ष्ठस्य। प्रभृ॑त॒स्येति॒ प्रऽभृ॑तस्य। स्व॒धा॒व॒ इति॑ स्वधाऽवः। पीय॑ति। त्वः॒। अनु॑। त्वः॒। गृ॒णा॒ति॒। व॒न्दारुः॑। ते॒। त॒न्व᳖म्। व॒न्दे॒। अ॒ग्ने॒ ॥४२ ॥

Mantra without Swara
बोधा मेऽअस्य वचसो यविष्ठ मँहिष्ठस्य प्रभृतस्य स्वधावः । पीयति त्वो अनु त्वो गृणाति वन्दारुष्टे तन्वँवन्दे अग्ने ॥

बोध। मे। अस्य। वचसः। यविष्ठ। मꣳहिष्ठस्य। प्रभृतस्येति प्रऽभृतस्य। स्वधाव इति स्वधाऽवः। पीयति। त्वः। अनु। त्वः। गृणाति। वन्दारुः। ते। तन्वम्। वन्दे। अग्ने॥४२॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(बोध) अवगच्छ। अत्र द्व्यचोऽतस्तिङः [अष्टा॰६.३.१३५] इति दीर्घः (मे) मम (अस्य) वर्त्तमानस्य (वचसः) (यविष्ठ) अतिशयेन युवन् (मंहिष्ठस्य) अतिशयेन भाषितुं योग्यस्य महतः (प्रभृतस्य) प्रकर्षेण धारकस्य पोषकस्य वा (स्वधावः) प्रशस्ता स्वधा बहून्यन्नानि विद्यन्ते यस्य सः (पीयति) निन्देत्, अत्रानेकार्था अपि धातवो भवन्तीति निन्दार्थः (त्वः) कश्चित् निन्दकः (अनु) पश्चात् (त्वः) कश्चित् (गृणाति) स्तुयात् (वन्दारुः) अभिवादनशीलः (ते) तव (तन्वम्) शरीरम् (वन्दे) स्तुवे (अग्ने) श्रोतः। [अयं मन्त्रः शत॰६.८.२.९ व्याख्यातः]॥४२॥
Essence
यदा कश्चित् कंचिदध्यापयेदुपदिशेद् वा तदाऽध्येता श्रोता च ध्यानं दत्त्वाऽधीयीत शृणुयाच्च, यदा सत्यासत्ययोर्निर्णयः स्यात्, तदा सत्यं गृह्णीयादसत्यं त्यजेद्, एवं कृते सति कश्चिन्निन्द्यात् कश्चित् स्तुयात्, तर्ह्यपि कदाचित् सत्यं न त्यजेदनृतं च न भजेदिदमेव मनुष्यस्यासाधारणो गुणः॥४२॥
Subject
मनुष्याः परस्परमध्ययनाध्यापनं कथं कुर्युरित्याह॥
Anvaya
हे यविष्ठ स्वधावोऽग्ने! त्वं मे मम प्रभृतस्य मंहिष्ठस्यास्य वचसोऽभिप्रायं बोध। यदि त्वो यं त्वां पीयति निन्देत् त्वोऽनुगृणाति स्तुयात् यस्य ते तव तन्वं वन्दारुरहं वन्दे॥४२॥