Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 12 / Mantra 32

117 Mantra
12/32
Devata- अग्निर्देवता Rishi- तापस ऋषिः Chhand- विराडनुष्टुप् Swara- गान्धारः
Mantra with Swara
प्रेद॑ग्ने॒ ज्योति॑ष्मान् याहि शि॒वेभि॑र॒र्चिभि॒ष्ट्वम्। बृ॒हद्भि॑र्भा॒नुभि॒र्भास॒न् मा हि॑ꣳसीस्त॒न्वा प्र॒जाः॥३२॥

प्र। इत्। अ॒ग्ने॒। ज्योति॑ष्मान्। या॒हि॒। शि॒वेभिः॑। अ॒र्चिभि॒रित्य॒र्चिऽभिः॑। त्वम्। बृ॒हद्भि॒रिति॑ बृ॒हत्ऽभिः॑। भा॒नुभि॒रिति॑ भा॒नुऽभिः॑। भास॑न्। मा। हि॒ꣳसीः॒। त॒न्वा᳖। प्र॒जा इति॑ प्र॒ऽजाः ॥३२ ॥

Mantra without Swara
प्रेदग्ने ज्योतिष्मान्याहि शिवेभिरर्चिभिष्ट्वम् । बृहद्भिर्भानुभिर्भासन्मा हिँसीस्तन्वा प्रजाः ॥

प्र। इत्। अग्ने। ज्योतिष्मान्। याहि। शिवेभिः। अर्चिभिरित्यर्चिऽभिः। त्वम्। बृहद्भिरिति बृहत्ऽभिः। भानुभिरिति भानुऽभिः। भासन्। मा। हिꣳसीः। तन्वा। प्रजा इति प्रऽजाः॥३२॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(प्र) (इत्) (अग्ने) विद्याप्रकाशक (ज्योतिष्मान्) बहूनि ज्योतींषि विज्ञानानि विद्यन्ते यस्य सः (याहि) प्राप्नुहि (शिवेभिः) मङ्गलकारकैः (अर्चिभिः) पूजितैः (त्वम्) (बृहद्भिः) महद्भिः (भानुभिः) विद्याप्रकाशकैर्गुणैः (भासन्) प्रकाशकः सन् (मा) (हिंसीः) हिंस्याः (तन्वा) शरीरेण (प्रजाः) पालनीयाः। [अयं मन्त्रः शत॰६.८.१.१९ व्याख्यातः]॥३२॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। हे सराजपुरुष राजन्! त्वं शरीरेणानपराधिनः कस्यापि प्राणिनो हिंसामकृत्वा विद्यान्यायप्रकाशेन प्रजाः पालयन् जीवन्नभ्युदयं मृत्वा मुक्तिसुखं प्राप्नुयाः॥३२॥
Subject
पुना राजा किं कृत्वा किं प्राप्नुयादित्याह
Anvaya
हे अग्ने विद्वन्! त्वं यथा ज्योतिष्मान् सूर्य्यः शिवेभिरर्चिभिर्बृहद्भिर्भानुभिरिदेव भासन् वर्त्तते तथा प्रयाहि, तन्वा प्रजा मा हिंसीः॥३२॥