Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 12 / Mantra 18

117 Mantra
12/18
Devata- अग्निर्देवता Rishi- वत्सप्रीर्ऋषिः Chhand- निचृदार्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
दि॒वस्परि॑ प्रथ॒मं ज॑ज्ञेऽअ॒ग्निर॒स्मद् द्वि॒तीयं॒ परि॑ जा॒तवे॑दाः। तृ॒तीय॑म॒प्सु नृ॒मणा॒ऽअज॑स्र॒मिन्धा॑नऽएनं जर॒ते स्वा॒धीः॥१८॥

दि॒वः। परि॑। प्र॒थ॒मम्। ज॒ज्ञे॒। अ॒ग्निः। अ॒स्मत्। द्वि॒तीय॑म्। परि॑। जा॒तवे॑दा॒ इति॑ जा॒तऽवे॑दाः। तृ॒तीय॑म्। अ॒प्स्वित्य॒प्ऽसु। नृ॒मणा॑। नृ॒मना॒ इति॑ नृ॒ऽमनाः॑। अज॑स्रम्। इन्धा॑नः। ए॒न॒म्। ज॒र॒ते॒। स्वा॒धीरिति॑ सुऽआ॒धीः ॥१८ ॥

Mantra without Swara
दिवस्परि प्रथमञ्जज्ञे अग्निरस्माद्द्वितीयम्परि जातवेदाः । तृतीयमप्सु नृमणाऽअजस्रमिन्धानऽएनञ्जरते स्वाधीः ॥

दिवः। परि। प्रथमम्। जज्ञे। अग्निः। अस्मत्। द्वितीयम्। परि। जातवेदा इति जातऽवेदाः। तृतीयम्। अप्स्वित्यप्ऽसु। नृमणा। नृमना इति नृऽमनाः। अजस्रम्। इन्धानः। एनम्। जरते। स्वाधीरिति सुऽआधीः॥१८॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(दिवः) विद्युतः (परि) उपरि (प्रथमम्) (जज्ञे) जायते (अग्निः) (अस्मत्) अस्माकं सकाशात् (द्वितीयम्) (परि) (जातवेदाः) जातप्रज्ञानः (तृतीयम्) (अप्सु) प्राणेषु जलेषु वा (नृमणाः) नृषु नायकेषु मनो यस्य सः (अजस्रम्) निरन्तरम् (इन्धानः) प्रदीपयन् (एनम्) (जरते) स्तौति (स्वाधीः) शोभनाध्यानयुक्ताः प्रजाः॥१८॥
Essence
मनुष्यैरादौ ब्रह्मचर्य्येण विद्यासुशिक्षा द्वितीयेन गृहाश्रमेणैश्वर्य्यं तृतीयेन वानप्रस्थेन तपश्चरणं चतुर्थेन संन्यासाश्रमेण नित्यं वेदविद्या धर्मे प्रकाशनं च कर्त्तव्यम्॥१८॥
Subject
पुना राजविषयमाह॥
Anvaya
हे सभेश! योऽग्निरिव त्वं दिवस्परि जज्ञे, तमेनं प्रथमं यो जातवेदास्त्वमस्मज्जज्ञे, तमेनं द्वितीयं यो नृमणास्त्वमप्सु जज्ञे, तमेनं तृतीयमजस्रमिन्धानो विद्वान् परिजरते, स त्वं स्वाधीः प्रजाः स्तुहि॥१८॥