Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 12 / Mantra 16

117 Mantra
12/16
Devata- अग्निर्देवता Rishi- त्रित ऋषिः Chhand- विराडनुष्टुप् Swara- गान्धारः
Mantra with Swara
अ॒न्तर॑ग्ने रु॒चा त्वमु॒खायाः॒ सद॑ने॒ स्वे। तस्या॒स्त्वꣳ हर॑सा॒ तप॒ञ्जात॑वेदः शि॒वो भ॑व॥१६॥

अ॒न्तः। अ॒ग्ने॒। रु॒चा। त्वम्। उ॒खायाः॑। सद॑ने। स्वे। तस्याः॑। त्वम्। हर॑सा। तप॑न्। जात॑वेद॒ इति॑ जात॑ऽवेदः। शि॒वः। भ॒व॒ ॥१६ ॥

Mantra without Swara
अन्तरग्ने रुचा त्वमुखायाः सदने स्वे । तस्यास्त्वँ हरसा तपञ्जातवेदः शिवो भव ॥

अन्तः। अग्ने। रुचा। त्वम्। उखायाः। सदने। स्वे। तस्याः। त्वम्। हरसा। तपन्। जातवेद इति जातऽवेदः। शिवः। भव॥१६॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(अन्तः) मध्ये (अग्ने) विद्वन् (रुचा) प्रीत्या (त्वम्) (उखायाः) प्राप्तायाः प्रजायाः (सदने) अध्ययनस्थाने (स्वे) स्वकीये (तस्याः) (त्वम्) (हरसा) ज्वलनेन। हर इति ज्वलतो नामसु पठितम्॥ (निघं॰१.१७) (तपन्) शत्रून् सन्तापयन् (जातवेदः) जाता विदिता वेदा यस्य तत्सम्बुद्धौ (शिवः) मङ्गलकारी (भव)। [अयं मन्त्रः शत॰६.७.३.१५ व्याख्यातः]॥१६॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। यथा सभाध्यक्षो राजा न्यायासने स्थित्वा परमरुच्या राज्यपालनकृत्यानि कुर्यात्, तथा प्रजा राजानं सुखयन्ती सती दुष्टान् संतापयेत्॥१६॥
Subject
पुना राजकर्म्माह॥
Anvaya
हे जातवेदोऽग्ने! यस्त्वं यस्या उखाया अधोऽग्निरिव स्वे सदने तपन् सन्नन्ता रुचा वर्तेथास्तस्या हरसा सन्तपँस्त्वं शिवो भव॥१६॥