Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 12 / Mantra 111

117 Mantra
12/111
Devata- अग्निर्देवता Rishi- पावकाग्निर्ऋषिः Chhand- स्वराडार्षी पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
ऋ॒तावा॑नं महि॒षं वि॒श्वद॑र्शतम॒ग्निꣳ सु॒म्नाय॑ दधिरे पु॒रो जनाः॑। श्रुत्क॑र्णꣳ स॒प्रथ॑स्तमं त्वा गि॒रा दैव्यं॒ मानु॑षा यु॒गा॥१११॥

ऋ॒तावा॑नम्। ऋ॒तवा॑नमित्यृ॒तऽवा॑नम्। म॒हि॒षम्। वि॒श्वद॑र्शत॒मिति॑ वि॒श्वऽद॑र्शतम्। अ॒ग्निम्। सु॒म्नाय॑। द॒धि॒रे॒। पु॒रः। जनाः॑। श्रुत्क॑र्ण॒मिति॒ श्रुत्ऽक॑र्णम्। स॒प्रथ॑स्तम॒मिति॑ स॒प्रथः॑ऽतमम्। त्वा॒। गि॒रा। दैव्य॑म्। मानु॑षा। यु॒गा ॥१११ ॥

Mantra without Swara
ऋतावानम्महिषँविश्वदर्शतमग्निँ सुम्नाय दधिरे पुरो जनाः । श्रुत्कर्णँ सप्रथस्तमन्त्वा गिरा दैव्यम्मानुषा युगा ॥

ऋतावानम्। ऋतवानमित्यृतऽवानम्। महिषम्। विश्वदर्शतमिति विश्वऽदर्शतम्। अग्निम्। सुम्नाय। दधिरे। पुरः। जनाः। श्रुत्कर्णमिति श्रुत्ऽकर्णम्। सप्रथस्तममिति सप्रथःऽतमम्। त्वा। गिरा। दैव्यम्। मानुषा। युगा॥१११॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(ऋतावानम्) ऋतं बहु सत्यं विद्यते यस्मिँस्तम्, अत्र छन्दसीवनिपौ [अष्टा॰वा॰५.२.१०९] इति वार्तिकेन वनिप् (महिषम्) महान्तम् (विश्वदर्शतम्) सर्वविद्याबोधस्य द्रष्टारम् (अग्निम्) विद्वांसम् (सुम्नाय) सुखाय (दधिरे) हितवन्तः (पुरः) पुरस्तात् (जनाः) विद्याविज्ञानेन प्रादुर्भूता मनुष्याः (श्रुत्कर्णम्) श्रुतौ श्रवणसाधकौ कर्णौ यस्य बहुश्रुतस्य तम् (सप्रथस्तमम्) प्रथसा विस्तरेण सह वर्त्तमानः सप्रथास्तमतिशयितम् (त्वा) त्वाम् (गिरा) वाचा (दैव्यम्) देवेषु विद्वत्सु कुशलम् (मानुषा) मनुष्याणामिमानि (युगा) युगानि वर्षाणि। [अयं मन्त्रः शत॰७.३.१.३४ व्याख्यातः]॥१११॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। ये सत्पुरुषा अतीतास्तेषामेवानुकरणं मनुष्याः कुर्युर्नेतरेषाम-धार्मिकाणाम्॥१११॥
Subject
मनुष्यैः केषामनुकरणं कार्यमित्याह॥
Anvaya
हे मनुष्य! यथा जना गिरा सुम्नाय दैव्यं श्रुत्कर्णं विश्वदर्शतं सप्रथस्तममृतावानं महिषमग्निं विद्वांसं मानुषा युगा च पुरो दधिरे, तथैवंभूतं विद्वांसमेतानि च त्वं धेहीति त्वा शिक्षयामि॥१११॥