Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 12 / Mantra 110

117 Mantra
12/110
Devata- विद्वान् देवता Rishi- पावकाग्निर्ऋषिः Chhand- आर्षी पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
इ॒ष्क॒र्त्तार॑मध्व॒रस्य॒ प्रचे॑तसं॒ क्षय॑न्त॒ꣳ राध॑सो म॒हः। रा॒तिं वा॒मस्य॑ सु॒भगां॑ म॒हीमिषं॒ दधा॑सि सान॒सिꣳ र॒यिम्॥११०॥

इ॒ष्क॒र्त्तार॑म्। अ॒ध्व॒रस्य॑। प्रचे॑तस॒मिति॒ प्रऽचे॑तसम्। क्षय॑न्तम्। राध॑सः। म॒हः। रा॒तिम्। वा॒मस्य॑। सु॒भगा॒मिति॑ सु॒ऽभगा॑म्। म॒हीम्। इष॑म्। दधा॑सि। सा॒न॒सिम्। र॒यिम् ॥११० ॥

Mantra without Swara
इष्कर्तारमध्वरस्य प्रचेतसङ्क्षयन्तँ राधसो महः । रातिँ वामस्य सुभगाम्महीमिषन्दधासि सानसिँ रयिम् ॥

इष्कर्त्तारम्। अध्वरस्य। प्रचेतसमिति प्रऽचेतसम्। क्षयन्तम्। राधसः। महः। रातिम्। वामस्य। सुभगामिति सुऽभगाम्। महीम्। इषम्। दधासि। सानसिम्। रयिम्॥११०॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(इष्कर्त्तारम्) निष्कर्त्तारं संसाधकम्, अत्र ‘छान्दसो वर्णलोपः’ इति नलोपः (अध्वरस्य) अहिंसनीयस्य वर्धितुं योग्यस्य यज्ञस्य (प्रचेतसम्) प्रकृतप्रज्ञम्, चेता इति प्रज्ञानामसु पठितम्॥ (निघं॰३.९) (क्षयन्तम्) निवसन्तम् (राधसः) धनस्य (महः) महतः (रातिम्) दातारम् (वामस्य) प्रशस्यस्य (सुभगाम्) सुष्ठ्वैश्वर्यप्रदाम् (महीम्) पृथिवीम् (इषम्) अन्नादिकम् (दधासि) (सानसिम्) पुराणम् (रयिम्) धनम्। [अयं मन्त्रः शत॰७.३.१.३३ व्याख्यातः]॥११०॥
Essence
मनुष्यो यथा स्वार्थं सुखमिच्छेत् तथा परार्थं च, स एवाप्तः पूज्यो भवेत्॥११०॥
Subject
कः परोपकारी जायत इत्याह॥
Anvaya
हे विद्वन्! यस्त्वध्वरस्येष्कर्त्तारं प्रचेतसं वामस्य महो राधसो रातिं क्षयन्तं सुभगां महीमिषं सानसिं रयिं च दधासि, तस्मादस्माभिः पूज्योऽसि॥११०॥