Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 12 / Mantra 105

117 Mantra
12/105
Devata- विद्वान् देवता Rishi- हिरण्यगर्भ ऋषिः Chhand- विराट्त्रिष्टुप् Swara- धैवतः
Mantra with Swara
इष॒मूर्ज॑म॒हमि॒तऽआद॑मृ॒तस्य॒ योनिं॑ महि॒षस्य॒ धारा॑म्। आ मा॒ गोषु॑ विश॒त्वा त॒नुषु॒ जहा॑मि से॒दिमनि॑रा॒ममी॑वाम्॥१०५॥

इष॑म्। ऊर्ज॑म्। अ॒हम्। इ॒तः। आद॑म्। ऋ॒तस्य॑। योनि॑म्। म॒हि॒षस्य॑। धारा॑म्। आ। मा॒। गोषु॑। वि॒श॒तु॒। आ। त॒नूषु॑। जहा॑मि। से॒दिम्। अनि॑राम् अमी॑वाम् ॥१०५ ॥

Mantra without Swara
इषमूर्जमहमितऽआदमृतस्य योनिम्महिषस्य धाराम् । आ मा गोषु विशत्वा तनूषु जहामि सेदिमनिराममीवाम् ॥

इषम्। ऊर्जम्। अहम्। इतः। आदम्। ऋतस्य। योनिम्। महिषस्य। धाराम्। आ। मा। गोषु। विशतु। आ। तनूषु। जहामि। सेदिम्। अनिराम् अमीवाम्॥१०५॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(इषम्) अन्नम् (ऊर्जम्) पराक्रमम् (अहम्) (इतः) अस्मात् पूर्वोक्तात् विद्युत्स्वरूपात् (आदम्) अत्तुं योग्यम् (ऋतस्य) सत्यस्य (योनिम्) कारणम् (महिषस्य) महतः (धाराम्) धारिकां वाचम् (आ) (मा) माम् (गोषु) इन्द्रियेषु (विशतु) प्रविशतु (आ) (तनूषु) शरीरेषु (जहामि) (सेदिम्) हिंसाम्। सदिमनि॰॥ (अष्टा॰वा॰३.२.१७१) इति वार्त्तिकेनास्य सिद्धिः (अनिराम्) अविद्यमाना इराऽन्नभुक्तिर्यस्यां ताम् (अमीवाम्) रोगोत्पन्नां पीडाम्। [अयं मन्त्रः शत॰७.३.१.२३ व्याख्यातः]॥१०५॥
Essence
मनुष्या अग्नेर्यच्छुक्रादियुक्तं स्वरूपं तेन रोगान् हन्युः। इन्द्रियाणि शरीराणि च स्वस्थान्यरोगाणि कृत्वा कार्य्यकारणज्ञापिकां विद्यावाचं प्राप्नुवन्तु, युक्त्याहारविहारौ च कुर्य्युः॥१०५॥
Subject
अथ युक्ताहारविहारौ कुर्युरित्याह॥
Anvaya
हे मनुष्याः! यथाऽहमित आदमिषमूर्जं महिषस्यर्त्तस्य योनिं धारां प्राप्नुयाम्, यथेयमिडूर्क् मा मामाविशतु, येन मम गोषु तनूषु प्रविष्टां सेदिमनिराममीवां जहामि त्यजामि, तथा यूयमपि कुरुत॥१०५॥