Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 12 / Mantra 101

117 Mantra
12/101
Devata- भिषजो देवताः Rishi- वरुण ऋषिः Chhand- निचृदनुष्टुप् Swara- गान्धारः
Mantra with Swara
त्वमु॑त्त॒मास्यो॑षधे॒ तव॑ वृ॒क्षाऽउप॑स्तयः। उप॑स्तिरस्तु॒ सोऽस्माकं॒ योऽअ॒स्माँ२ऽ अ॑भि॒दास॑ति॥१०१

त्वम्। उ॒त्त॒मेत्यु॑त्त॒मा। अ॒सि॒। ओ॒ष॒धे॒। तव॑। वृ॒क्षाः। उप॑स्तयः। उप॑स्तिः। अ॒स्तु॒। सः। अ॒स्माक॑म्। यः। अ॒स्मान्। अ॒भि॒दास॒तीत्य॑भि॒ऽदास॑ति ॥१०१ ॥

Mantra without Swara
त्वमुत्तमास्योषधे तव वृक्षाऽउपस्तयः । उपस्तिरस्तु सो स्माकँयोऽअस्माँ अभिदासति ॥

त्वम्। उत्तमेत्युत्तमा। असि। ओषधे। तव। वृक्षाः। उपस्तयः। उपस्तिः। अस्तु। सः। अस्माकम्। यः। अस्मान्। अभिदासतीत्यभिऽदासति॥१०१॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(त्वम्) (उत्तमा) (असि) अस्ति, अत्र व्यत्ययः (ओषधे) ओषधी (तव) यस्याः (वृक्षाः) वटादयः (उपस्तयः) ये उप समीपे स्त्यायन्ति संघ्नन्ति ते। अत्रोपपूर्वात् स्त्यै संघात इत्यस्मादौणादिकः क्विप् संप्रसारणं च (उपस्तिः) संहतिः (अस्तु) (सः) (अस्माकम्) (यः) (अस्मान्) (अभिदासति) अभीष्टं सुखं ददाति॥१०१॥
Essence
मनुष्यैर्न कदाचिद् विरोधिनो वैद्यस्यौषधं ग्राह्यम्, न विरोधिमित्रस्य च। किन्तु यो वैद्यकशास्त्रार्थविदाप्तोऽजातशत्रुः सर्वोपकारी सर्वेषां सुहृद् वर्त्तते, तस्मादौषधविद्या संग्राह्या॥१०१॥
Subject
पुनस्सौषधिः कीदृशीत्याह॥
Anvaya
हे वैद्यजन! योऽस्मान् अभिदासति स त्वमस्माकमुपस्तिरस्तु, योत्तमौषधे ओषधिरसि अस्ति तव यस्य वृक्षा उपस्तयस्तेनौषधिनाऽस्मभ्यं सुखं देहि॥१०१॥