Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 11 / Mantra 71

83 Mantra
11/71
Devata- अग्निर्देवता Rishi- विरूप ऋषिः Chhand- विराड्गायत्री Swara- षड्जः
Mantra with Swara
पर॑स्या॒ऽअधि॑ सं॒वतोऽव॑राँ२ऽअ॒भ्यात॑र। यत्रा॒हमस्मि॒ ताँ२ऽअ॑व॥७१॥

पर॑स्याः। अधि॑। सं॒वत॒ इति॑ स॒म्ऽवतः॑। अव॑रान्। अ॒भि। आ। त॒र॒। यत्र॑। अ॒हम्। अस्मि॑। तान्। अ॒व॒ ॥७१ ॥

Mantra without Swara
परस्याऽअधि सँवतोवराँऽअभ्यातर । यत्राहमस्मि ताँऽअव ॥

परस्याः। अधि। संवत इति सम्ऽवतः। अवरान्। अभि। आ। तर। यत्र। अहम्। अस्िम। तान्। अव॥७१॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(परस्याः) प्रकृष्टायाः कन्यायाः (अधि) (संवतः) संविभक्तान् (अवरान्) नीचाननुत्कृष्टगुणस्वभावान् (अभि) (आ) (तर) प्लव (यत्र) (अहम्) (अस्मि) (तान्) (अव)। [अयं मन्त्रः शत॰६.६.३.१ व्याख्यातः]॥७१॥
Essence
कन्यया स्वस्या उत्कृष्टस्तुल्यो वा वरः स्वीकार्य्यः, न नीचः। यस्य पाणिग्रहणं कुर्य्यात्, तस्य सम्बन्धिनो मित्राणि च सर्वदा सन्तोषणीयानि॥७१॥
Subject
पुनः पतिः स्वपत्नीं प्रति किं किमुपदिशेदित्याह॥
Anvaya
हे कन्ये! यस्याः परस्यास्तवाहमधिष्ठाता भवितुमिच्छामि, सा त्वं संवतोऽवरानभ्यातर, यत्र कुलेऽहमस्मि तानव॥७१॥