Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 11 / Mantra 60

83 Mantra
11/60
Devata- वस्वादयो मन्त्रोक्ता देवताः Rishi- सिन्धुद्वीप ऋषिः Chhand- स्वराट्संकृतिः Swara- गान्धारः
Mantra with Swara
वस॑वस्त्वा धूपयन्तु गाय॒त्रेण॒ छन्द॑साङ्गिर॒स्वद् रु॒द्रास्त्वा॑ धूपयन्तु॒ त्रैष्टु॑भेन॒ छन्द॑साङ्गिर॒स्वदा॑दि॒त्यास्त्वा॑ धूपयन्तु॒ जाग॑तेन॒ छन्द॑साङ्गिर॒स्वद् विश्वे॑ त्वा दे॒वा वैश्वान॒रा धू॑पय॒न्त्वानु॑ष्टुभेन॒ छन्द॑साङ्गिर॒स्वदिन्द्र॑स्त्वा धूपयतु॒ वरु॑णस्त्वा धूपयतु॒ विष्णु॑स्त्वा धूपयतु॥६०॥

वस॑वः। त्वा॒। धू॒प॒य॒न्तु॒। गा॒य॒त्रेण॑। छन्द॑सा। अ॒ङ्गि॒र॒स्वत्। रु॒द्राः। त्वा॒। धू॒प॒य॒न्तु॒। त्रैष्टु॑भेन। त्रैस्तु॑भेनेति॒ त्रैऽस्तु॑भेन। छन्द॑सा। अ॒ङ्गि॒र॒स्वत्। आ॒दि॒त्याः। त्वा॒। धू॒प॒य॒न्तु॒। जाग॑तेन। छन्द॑सा। अ॒ङ्गि॒र॒स्वत्। विश्वे॑। त्वा॒। दे॒वाः। वै॒श्वा॒न॒राः। धू॒प॒य॒न्तु॒। आनु॑ष्टुभेन। आनु॑स्तुभे॒नेत्यानु॑ऽस्तुभेन। छन्द॑सा। अ॒ङ्गि॒र॒स्वत्। इन्द्रः॑। त्वा॒। धू॒प॒य॒तु॒। वरु॑णः। त्वा॒। धू॒प॒य॒तु॒। विष्णुः॑। त्वा॒। धू॒प॒य॒तु॒ ॥६० ॥

Mantra without Swara
वसवस्त्वा धूपयन्तु गायत्रेण च्छन्दसाङ्गिरस्वद्रुद्रास्त्वा धूपयन्तु त्रैष्टुभेन छन्दसाङ्गिरस्वदादित्यास्त्वा धूपयन्तु जागतेन च्छन्दसाङ्गिरस्वद्विश्वे त्वा देवा वैश्वानरा धूपयन्त्वानुष्टुभेन छन्दसाङ्गिरस्वदिन्द्रस्त्वा धूपयतु वरुणस्त्वा धूपयतु विष्णुत्वा धूपयतु ॥

वसवः। त्वा। धूपयन्तु। गायत्रेण। छन्दसा। अङ्गिरस्वत्। रुद्राः। त्वा। धूपयन्तु। त्रैष्टुभेन। त्रैस्तुभेनेति त्रैऽस्तुभेन। छन्दसा। अङ्गिरस्वत्। आदित्याः। त्वा। धूपयन्तु। जागतेन। छन्दसा। अङ्गिरस्वत्। विश्वे। त्वा। देवाः। वैश्वानराः। धूपयन्तु। आनुष्टुभेन। आनुस्तुभेनेत्यानुऽस्तुभेन। छन्दसा। अङ्गिरस्वत्। इन्द्रः। त्वा। धूपयतु। वरुणः। त्वा। धूपयतु। विष्णुः। त्वा। धूपयतु॥६०॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(वसवः) आदिमा विद्वांसः (त्वा) त्वाम् (धूपयन्तु) सुगन्धान्नादिभिः संस्कुर्वन्तु (गायत्रेण) वेदस्थेन (छन्दसा) (अङ्गिरस्वत्) प्राणैस्तुल्यम् (रुद्राः) मध्यमा विपश्चितः (त्वा) (धूपयन्तु) विद्यासुशिक्षाभ्यां संस्कुर्वन्तु (त्रैष्टुभेन) (छन्दसा) (अङ्गिरस्वत्) विज्ञानवत् (आदित्याः) उत्तमा विद्वांसोऽध्यापकाः (त्वा) (धूपयन्तु) सत्यव्यवहारग्रहणेन संस्कुर्वन्तु (जागतेन) (छन्दसा) (अङ्गिरस्वत्) ब्रह्माण्डस्थशुद्धवायुवत् (विश्वे) सर्वे (त्वा) (देवाः) सत्योपदेशका विद्वांसः (वैश्वानराः) सर्वेषु मनुष्येष्विमे सत्यधर्मविद्याप्रकाशकाः (धूपयन्तु) सत्योपदेशेन संस्कुर्वन्तु (आनुष्टुभेन) (छन्दसा) (अङ्गिरस्वत्) विद्युद्वत् (इन्द्रः) परमैश्वर्य्यवान् राजा (त्वा) (धूपयतु) राजविद्यया संस्करोतु (वरुणः) वरो न्यायाधीशः (त्वा) (धूपयतु) राजनीत्या संस्करोतु (विष्णुः) सकलविद्यायोगाङ्गव्यापी योगिराजः (त्वा) (धूपयतु) योगविद्याङ्गैः संस्करोतु। [अयं मन्त्रः शत॰६.५.३.१० व्याख्यातः]॥६०॥
Essence
सर्वेऽध्यापका अखिला अध्यापिकाश्च सर्वाभिः सत्क्रियाभिर्ब्रह्मचारिणो ब्रह्मचारिणीश्च विद्यासुशिक्षाभ्यां युक्ताः सद्यः संपादयेयुः। यत एते कृतपूर्णब्रह्मचर्य्या गृहाश्रमादीन् यथाकालमाचरेयुः॥६०॥
Subject
पुनर्विद्वांसोऽध्येतॄनुपदेश्यान् मनुष्यान् कथं शोधयेयुरित्याह॥
Anvaya
हे ब्रह्मचारिन् ब्रह्मचारिणि वा! ये वसवो गायत्रेण छन्दसा त्वाङ्गिरस्वद् धूपयन्तु। रुद्रास्त्रैष्टुभेन छन्दसा त्वाङ्गिरस्वद् धूपयन्तु। आदित्या जागतेन छन्दसा त्वाङ्गिरस्वद् धूपयन्तु। वैश्वानरा विश्वेदेवा आनुष्टुभेन छन्दसा त्वाङ्गिरस्वद् धूपयन्तु। इन्द्रस्त्वा धूपयतु। वरुणस्त्वा धूपयतु। विष्णुस्त्वा धूपयत्वेतांस्त्वं सततं सेवस्व॥६०॥