Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 11 / Mantra 6

83 Mantra
11/6
Devata- सविता देवता Rishi- प्रजापतिर्ऋषिः Chhand- निचृज्जगती Swara- निषादः
Mantra with Swara
यस्य॑ प्र॒याण॒मन्व॒न्यऽइद्य॒युर्दे॒वा दे॒वस्य॑ महि॒मान॒मोज॑सा। यः पार्थि॑वानि विम॒मे सऽएत॑शो॒ रजा॑सि दे॒वः स॑वि॒ता म॑हित्व॒ना॥६॥

यस्य॑। प्र॒याण॑म्। प्र॒यान॒मिति॑ प्र॒ऽयान॑म्। अनु॑। अ॒न्ये। इत्। य॒युः। दे॒वाः। दे॒वस्य॑। म॒हि॒मान॑म्। ओज॑सा। यः। पार्थि॑वानि। वि॒म॒म इति॑ विऽम॒मे। सः। एत॑शः। रजा॑सि। दे॒वः। स॒वि॒ता। म॒हि॒त्व॒नेति॑ महिऽत्व॒ना ॥६ ॥

Mantra without Swara
यस्य प्रयाणमन्वन्यऽइद्ययुर्देवा देवस्य महिमानमोजसा । यः पार्थिवानि विममे सऽएतशो रजाँसि देवः सविता महित्वना ॥

यस्य। प्रयाणम्। प्रयानमिति प्रऽयानम्। अनु। अन्ये। इत्। ययुः। देवाः। देवस्य। महिमानम्। ओजसा। यः। पार्थिवानि। विमम इति विऽममे। सः। एतशः। रजासि। देवः। सविता। महित्वनेति महिऽत्वना॥६॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(यस्य) परमेश्वरस्य (प्रयाणम्) प्रयान्ति सर्वाणि सुखानि येन तत्प्रकृष्टं प्रयाणम् (अनु) पश्चात् (अन्ये) जीवादयः (इत्) एव (ययुः) प्राप्नुयुः (देवाः) विद्वांसः (देवस्य) सर्वसुखप्रदातुः (महिमानम्) स्तुतिविषयम् (ओजसा) पराक्रमेण (यः) परमेश्वरः (पार्थिवानि) पृथिव्यां विदितानि (विममे) विमानयानवन्निर्मिमीते (सः) (एतशः) सर्वं जगदितः स्वव्याप्त्या प्राप्तः। इणस्तशन्तशसुनौ॥ (उणा॰३।१४७) (रजांसि) सर्वान् लोकान् (देवः) दिव्यस्वरूपः (सविता) सर्वस्य जगतो निर्माता (महित्वना) स्वमहिम्ना। अत्र बाहुलकादौणादिक इत्वनिः प्रत्ययः। [अयं मन्त्रः शत॰६.३.१.१८ व्याख्यातः]॥६॥
Essence
ये विद्वांसः सर्वस्य जगतोऽन्तरिक्षेऽनन्तबलेन धर्त्तारं निर्मातारं सुखप्रदं शुद्धं सर्वशक्तिमन्तं सर्वान्तर्यामिणमीश्वरमुपासते, त एव सुखयन्ति नेतरे॥६॥
Subject
मनुष्याः कस्योपासनं कुर्य्युरित्याह॥
Anvaya
हे योगिनः! युष्माभिर्यस्य देवस्य महिमानं प्रयाणमन्वन्ये देवा ययुः। य एतशः सविता देवो भगवान् महित्वनौजसा पार्थिवानि रजांसि विममे, स इदेव सततमुपास्यो मन्तव्यः॥६॥