Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 11 / Mantra 43

83 Mantra
11/43
Devata- अग्निर्देवता Rishi- त्रित ऋषिः Chhand- विराट् त्रिष्टुप् Swara- धैवतः
Mantra with Swara
स जा॒तो गर्भो॑ऽअसि॒ रोद॑स्यो॒रग्ने॒ चारु॒र्विभृ॑त॒ऽओष॑धीषु। चि॒त्रः शिशुः॒ परि॒ तमा॑स्य॒क्तून् प्र मा॒तृभ्यो॒ऽअधि॒ कनि॑क्रदद् गाः॥४३॥

सः। जा॒तः। गर्भः॑। अ॒सि॒। रोद॑स्योः। अग्ने॑। चारुः॑। विभृ॑त॒ इति॒ विऽभृ॑तः। ओष॑धीषु। चि॒त्रः। शिशुः॑। परि॑। तमा॑सि। अ॒क्तून्। प्र। मा॒तृभ्य॑ इति॑ मा॒तृऽभ्यः॑। अधि॑। कनि॑क्रदत्। गाः॒ ॥४३ ॥

Mantra without Swara
स जातो गर्भाऽअसि रोदस्योरग्ने चारुर्विभृतऽओषधीषु । चित्रः शिशुः परि तमाँस्यक्तून्प्रमातृभ्योऽअधि कनिक्रदद्गाः ॥

सः। जातः। गर्भः। असि। रोदस्योः। अग्ने। चारुः। विभृत इति विऽभृतः। ओषधीषु। चित्रः। शिशुः। परि। तमासि। अक्तून्। प्र। मातृभ्य इति मातृऽभ्यः। अधि। कनिक्रदत्। गाः॥४३॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(सः) (जातः) प्रसिद्धः (गर्भः) यो गीर्यते स्वीक्रियते सः (असि) (रोदस्योः) द्यावापृथिव्योः (अग्ने) विद्वन् (चारुः) सुन्दरः (विभृतः) विशेषेण धृतः पोषितो वा (ओषधीषु) सोमादिषु (चित्रः) अद्भुतः (शिशुः) बालकः (परि) (तमांसि) रात्रीः (अक्तून्) अन्धकारान् (प्र) (मातृभ्यः) मान्यकर्त्रीभ्यः (अधि) (कनिक्रदत्) गच्छन् (गाः) गच्छति। अत्राऽ[भावः। [अयं मन्त्रः शत॰६.४.४.२ व्याख्यातः]॥४३॥
Essence
यथा ब्रह्मचर्य्यादिसुनियमैर्जनितः पुत्रो विद्या अधीत्य पितरौ सुखयति, तथैव जनकौ प्रजाः सुखयेताम्॥४३॥
Subject
अथ जनकापत्यव्यवहारमाह॥
Anvaya
हे अग्ने! यस्त्वं यथा रोदस्योर्जातश्चारुरोषधीषु विभृतश्चित्रो गर्भोऽर्को मातृभ्यस्तमांस्यक्तून् पर्य्यधिकनिक्रदत् सन् गा गच्छति तथाभूतः शिशुर्गा विद्याः प्राप्नुहि॥४३॥