Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 11 / Mantra 36

83 Mantra
11/36
Devata- अग्निर्देवता Rishi- गृत्समद ऋषिः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
नि होता॑ होतृ॒षद॑ने॒ विदा॑नस्त्वे॒षो दी॑दि॒वाँ२ऽअ॑सदत् सु॒दक्षः॑। अद॑ब्धव्रतप्रमति॒र्वसि॑ष्ठः सहस्रम्भ॒रः शुचि॑जिह्वोऽअ॒ग्निः॥३६॥

नि। होता॑। हो॒तृ॒षद॑ने। हो॒तृ॒सद॑न॒ इति॑ होतृ॒सद॑ने। विदा॑नः। त्वे॒षः। दी॒दि॒वानिति॑ दीदि॒ऽवान्। अ॒स॒द॒त्। सु॒दक्ष॒ इति॑ सु॒ऽदक्षः॑। अद॑ब्धव्रतप्रमति॒रित्यद॑ब्धव्रतऽप्रमतिः। वसि॑ष्ठः। स॒ह॒स्र॒म्भ॒र इति॑ सहस्रम्ऽभ॒रः। शुचि॑जिह्व॒ इति॒ शुचि॑ऽजिह्वः। अ॒ग्निः ॥३६ ॥

Mantra without Swara
नि होता होतृषदने विदानस्त्वेषो दीदिवाँ ऽअसदत्सुदक्षः । अदब्धव्रतप्रमतिर्वसिष्ठः सहस्रम्भरः शुचिजिह्वोऽअग्निः ॥

नि। होता। होतृषदने। होतृसदन इति होतृसदने। विदानः। त्वेषः। दीदिवानिति दीदिऽवान्। असदत्। सुदक्ष इति सुऽदक्षः। अदब्धव्रतप्रमतिरित्यदब्धव्रतऽप्रमतिः। वसिष्ठः। सहस्रम्भर इति सहस्रम्ऽभरः। शुचिजिह्व इति शुचिऽजिह्वः। अग्निः॥३६॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(नि) नितराम् (होता) शुभगुणग्रहीता (होतृषदने) दातॄणां विदुषां स्थाने (विदानः) विविदिषुः सन् (त्वेषः) शुभगुणैर्दीप्यमानः (दीदिवान्) धर्म्यं व्यवहारं चिकीर्षुः (असदत्) सीदेत् (सुदक्षः) सुष्ठु दक्षो बलं यस्य सः (अदब्धव्रतप्रमतिः) अदब्धैरहिंसनीयैर्व्रतैर्धर्माचरणैः प्रकृष्टा मतिर्मेधा यस्य सः (वसिष्ठः) अतिशेयन वसिता (सहस्रम्भरः) सहस्रमसंख्यं शुभगुणसमूहं बिभर्त्ति सः (शुचिजिह्वः) शुचिः पवित्रा सत्यभाषणेन जिह्वा वाग् यस्य सः (अग्निः) पावक इव वर्त्तमानः। [अयं मन्त्रः शत॰६.४.२.७ व्याख्यातः]॥३६॥
Essence
यदा मातापितरः स्वपुत्रान् कन्याश्च सुशिक्ष्य पुनर्विदुषो विदुष्यश्च समीपे चिरं संस्थाप्याध्यापयेयुस्तदा ताः सूर्य्य इव कुलदेशोद्दीपकाः स्युः॥३६॥
Subject
पुनर्मनुष्यकृत्यमाह॥
Anvaya
यदि नरो मनुष्यजन्म प्राप्य होतृषदने दीदिवान् त्वेषो विदानः शुचिजिह्वः सुदक्षोऽदब्धव्रतप्रमतिर्वसिष्ठः सहस्रम्भरो होता सततं न्यसदत्, तर्हि समग्रं सुखं प्राप्नुयात्॥३६॥