Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 11 / Mantra 32

83 Mantra
11/32
Devata- अग्निर्देवता Rishi- भारद्वाज ऋषिः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
पु॒री॒ष्योऽसि वि॒श्वभ॑रा॒ऽअथ॑र्वा त्वा प्रथ॒मो निर॑मन्थदग्ने। त्वाम॑ग्ने॒ पुष्क॑रा॒दध्यथ॑र्वा॒ निर॑मन्थत॥ मू॒र्ध्नो विश्व॑स्य वा॒घतः॑॥३२॥

पु॒री॒ष्यः᳖। अ॒सि॒। वि॒श्वभ॑रा॒ इति॑ वि॒श्वऽभ॑राः। अथ॑र्वा। त्वा॒। प्र॒थ॒मः। निः। अ॒म॒न्थ॒त्। अ॒ग्ने॒। त्वाम्। अ॒ग्ने॒। पुष्क॑रात्। अधि॑। अथ॑र्वा। निः। अ॒म॒न्थ॒त॒। मू॒र्ध्नः। विश्व॑स्य। वा॒घतः॑ ॥३२ ॥

Mantra without Swara
पुरीष्योसि विश्वभराऽअथर्वा त्वा प्रथमो निरमन्थदग्ने । त्वामग्ने पुष्करादध्यथर्वा निरमन्थत । मूर्ध्ना विश्वस्य वाघतः ॥

पुरीष्यः। असि। विश्वभरा इति विश्वऽभराः। अथर्वा। त्वा। प्रथमः। निः। अमन्थत्। अग्ने। त्वाम्। अग्ने। पुष्करात्। अधि। अथर्वा। निः। अमन्थत। मूर्ध्नः। विश्वस्य। वाघतः॥३२॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(पुरीष्यः) पुरीषेषु पशुषु साधुः (असि) (विश्वभराः) यो विश्वं बिभर्त्ति सः (अथर्वा) अहिंसको विद्वान् (त्वा) त्वाम् (प्रथमः) आद्यः (निः) नितराम् (अमन्थत्) (अग्ने) संपादितक्रियाकौशल (त्वाम्) (अग्ने) विद्वन्! (पुष्करात्) अन्तरिक्षात् (अधि) (अथर्वा) हिंसादिदोषरहितः (निः) (अमन्थत) (मूर्ध्नः) मूर्धेव वर्त्तमानस्य (विश्वस्य) समग्रस्य संसारस्य (वाघतः) मेधावी॥ वाघत इति मेधाविनामसु पठितम्॥ (निघं॰३।१५)[अयं मन्त्रः शत॰६.४.२.१-२ व्याख्यातः]॥३२॥
Essence
येऽस्मिन् जगति विद्वांसो भवेयुस्ते सुविचारपुरुषार्थाभ्यामग्न्यादिविद्यां प्रसिद्धीकृत्य सर्वेभ्यः शिक्षेरन्॥३२॥
Subject
विद्वान् विद्युतं कथमुत्पादयेदित्याह॥
Anvaya
हे अग्ने विद्वन्! यो वाघतो भवान् पुरीष्योसि, तं त्वाऽथर्वा प्रथमो विश्वभरा विश्वस्य मूर्ध्नो वर्त्तमानात् पुष्करादध्यग्निं निरमन्थत्, स ऐश्वर्य्यमाप्नोति॥३२॥