Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 11 / Mantra 26

83 Mantra
11/26
Devata- अग्निर्देवता Rishi- पायुर्ऋषिः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
परि॑ त्वाग्ने॒ पुरं॑ व॒यं विप्र॑ꣳ सहस्य धीमहि। धृ॒षद्व॑र्णं दि॒वेदि॑वे ह॒न्तारं॑ भङ्गु॒राव॑ताम्॥२६॥

परि॑। त्वा॒। अ॒ग्ने॒। पुर॑म्। व॒यम्। विप्र॑म्। स॒ह॒स्य॒। धी॒म॒हि॒। धृ॒षद्व॑र्ण॒मिति॑ धृ॒षत्ऽव॑र्णम्। दि॒वेदि॑व॒ इति॑ दि॒वेऽदि॑वे। ह॒न्तार॑म्। भ॒ङ्गु॒राव॑ताम्। भ॒ङ्गु॒रव॑ता॒मिति॑ भङ्गु॒रऽव॑ताम् ॥२६ ॥

Mantra without Swara
परित्वाग्ने पुरँवयं विप्रँ सहस्य धीमहि । धृषद्वर्णन्दिवेदिवे हन्तारम्भङ्गुरावताम् ॥

परि। त्वा। अग्ने। पुरम्। वयम्। विप्रम्। सहस्य। धीमहि। घृषद्वर्णमिति धृषत्ऽवर्णम्। दिवेदिव इति दिवेऽदिवे। हन्तारम्। भङ्गुरावताम्। भङ्गुरवतामिति भङ्गुरऽवताम्॥२६॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(परि) (त्वा) त्वाम् (अग्ने) विद्यया प्रकाशमान (पुरम्) येन सर्वान् पिपर्त्ति तत् (वयम्) (विप्रम्) विद्वांसम् (सहस्य) य आत्मनः सहो बलमिच्छति तत्सम्बुद्धौ (धीमहि) धरेम। अत्र डुधाञ् धातोर्लिङ आर्धधातुकत्वाच्छबभावः। (धृषद्वर्णम्) धृषत्प्रगल्भो दृढो वर्णो यस्य तम् (दिवेदिवे) प्रतिदिनम् (हन्तारम्) (भङ्गुरावताम्) कुत्सिता भङ्गुराः प्रहताः प्रकृतयो विद्यन्ते येषां तेषाम्। [अयं मन्त्रः शत॰६.३.३.२५ व्याख्यातः]॥२६॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। राजप्रजाजनैर्न्यायेन प्रजारक्षकोऽग्निवच्छत्रुहन्ता सर्वदा सुखप्रदः सेनेशो विधेयः॥२६॥
Subject
कीदृशः सेनापतिः कार्य्य इत्याह॥
Anvaya
हे सहस्याऽग्ने! यथा वयं दिवेदिवे भङ्गुरावतां पुरमग्निमिव हन्तारं धृषद्वर्णं विप्रं त्वा परिधीमहि तथा त्वमस्मान् धर॥२६॥