Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 11 / Mantra 20

83 Mantra
11/20
Devata- क्षत्रपतिर्देवता Rishi- मयोभूर्ऋषिः Chhand- निचृदार्षी बृहती Swara- मध्यमः
Mantra with Swara
द्यौस्ते॑ पृ॒ष्ठं पृ॑थि॒वी स॒धस्थ॑मा॒त्मान्तरि॑क्षꣳ समु॒द्रो योनिः॑। वि॒ख्याय॒ चक्षु॑षा॒ त्वम॒भि ति॑ष्ठ पृतन्य॒तः॥२०॥

द्यौः। ते॒। पृ॒ष्ठम्। पृ॒थि॒वी। स॒धस्थ॒मिति॑ स॒धऽस्थ॑म्। आ॒त्मा। अ॒न्तरि॑क्षम्। स॒मु॒द्रः। योनिः॑। वि॒ख्यायेति॑ वि॒ऽख्याय॑। चक्षु॑षा। त्वम्। अ॒भि। ति॒ष्ठ॒। पृ॒त॒न्य॒तः ॥२० ॥

Mantra without Swara
द्यौस्ते पृष्ठम्पृथिवी सधस्थमात्मान्तरिक्षँ समुद्रो योनिः । विख्याय चक्षुषा त्वमभि तिष्ठ पृतन्यतः ॥

द्यौः। ते। पृष्ठम्। पृथिवी। सधस्थमिति सधऽस्थम्। आत्मा। अन्तरिक्षम्। समुद्रः। योनिः। विख्यायेति विऽख्याय। चक्षुषा। त्वम्। अभि। तिष्ठ। पृतन्यतः॥२०॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(द्यौः) प्रकाश इव विनयः (ते) तव (पृष्ठम्) अर्वाग्व्यवहारः (पृथिवी) भूमिरिव (सधस्थम्) सहस्थानम् (आत्मा) स्वस्वरूपम् (अन्तरिक्षम्) आकाशइवाक्षयोऽक्षोभः (समुद्रः) सागर इव (योनिः) निमित्तम् (विख्याय) प्रसिद्धीकृत्य (चक्षुषा) लोचनेन (त्वम्) (अभि) आभिमुख्ये (तिष्ठ) (पृतन्यतः) आत्मनः पृतनामिच्छतो जनस्य। [अयं मन्त्रः शत॰६.३.३.१२ व्याख्यातः]॥२०॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। यो न्यायपथानुगामी, दृढोत्साहस्थानात्मा, यस्य प्रयोजनानि विवेकसाध्यानि सन्ति, तस्य वीरसेना जायते, स ध्रुवं विजयं कर्त्तुं शक्नुयात्॥२०॥
Subject
मनुष्याः किं साध्नुयुरित्याह॥
Anvaya
हे विद्वन् राजन्! यस्य ते तव द्यौः पृष्ठं पृथिवी सधस्थमन्तरिक्षमात्मा समुद्रो योनिरस्ति, स त्वं चक्षुषा विख्याय पृतन्यतोऽभितिष्ठ॥२०॥