Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 11 / Mantra 13

83 Mantra
11/13
Devata- वाजी देवता Rishi- कुश्रिर्ऋषिः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
यु॒ञ्जाथा॒ रास॑भं यु॒वम॒स्मिन् यामे॑ वृषण्वसू। अ॒ग्निं भर॑न्तमस्म॒युम्॥१३॥

यु॒ञ्जाथा॑म्। रास॑भम्। यु॒वम्। अ॒स्मिन्। यामे॑। वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू। अ॒ग्निम्। भर॑न्तम्। अ॒स्म॒युमित्य॑स्म॒ऽयुम् ॥१३ ॥

Mantra without Swara
युञ्जाथाँ रासभँयुवमस्मिन्यामे वृषण्वसू । अग्निम्भरन्तमस्मयुम् ॥

युञ्जाथाम्। रासभम्। युवम्। अस्मिन्। यामे। वृषण्वसू इति वृषण्ऽवसू। अग्निम्। भरन्तम्। अस्मयुमित्यस्मऽयुम्॥१३॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(युञ्जाथाम्) (रासभम्) जलाग्न्योर्वेगगुणाख्यमश्वम् (युवम्) युवां शिल्पितत्स्वामिनौ (अस्मिन्) (यामे) यान्ति येन यानेन तस्मिन् (वृषण्वसू) वर्षकौ वसन्तौ च (अग्निम्) प्रसिद्धं विद्युतं वा (भरन्तम्) धरन्तम् (अस्मयुम्) अस्मान् यापयितारम्। अत्रास्मदुपपदाद्याधातोरौणादिकः कुः, छान्दसो वर्णलोपो वेति (महा॰८.२.२५) दलोपः। [अयं मन्त्रः शत॰६.३.२.३ व्याख्यातः]॥१३॥
Essence
यैर्मनुष्यैर्यस्मिन् याने यन्त्रकलाजलाग्निप्रयोगाः क्रियन्ते, ते सुखेन देशान्तरं गन्तुं शक्नुवन्ति॥१३॥
Subject
पुनर्मनुष्यैः किं क्व योजनीयमित्याह॥
Anvaya
हे वृषण्वसू सूर्य्यवायू इव शिल्पिनौ! युवमस्मिन् यामे रासभमस्मयुं भरन्तमग्निं युञ्जाथाम्॥१३॥