Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 10 / Mantra 7

34 Mantra
10/7
Devata- वरुणो देवता Rishi- वरुण ऋषिः Chhand- विराट् आर्षी त्रिष्टुप्, Swara- धैवतः
Mantra with Swara
स॒ध॒मादो॑ द्यु॒म्निनी॒राप॑ऽए॒ताऽअना॑धृष्टाऽअप॒स्यो वसा॑नाः। प॒स्त्यासु चक्रे॒ वरु॑णः स॒धस्थ॑मपा शिशु॑र्मा॒तृत॑मास्व॒न्तः॥७॥

स॒ध॒माद॒ इति॑ सध॒ऽमादः॑। द्यु॒म्निनीः॑। आपः॑। ए॒ताः। अना॑धृष्टाः। अ॒प॒स्यः᳕। वसा॑नाः। प॒स्त्या᳖सु। च॒क्रे॒। वरु॑णः। स॒धस्थ॒मिति॑ स॒धऽस्थ॑म्। अ॒पाम्। शिशुः॑। मा॒तृत॑मा॒स्विति॑ मा॒तृऽत॑मासु। अ॒न्तरित्य॒न्तः ॥७॥

Mantra without Swara
सधमादो द्युम्निनीरापऽएताऽअनाधृष्टाऽअपस्यो वसानाः । पस्त्यासु चक्रे वरुणः सधस्थमपाँ शिशुर्मातृतमास्वन्तः ॥

सधमाद इति सधऽमादः। द्युम्निनीः। आपः। एताः। अनाधृष्टाः। अपस्यः। वसानाः। पस्त्यासु। चक्रे। वरुणः। सधस्थमिति सधऽस्थम्। अपाम्। शिशुः। मातृतमास्विति मातृऽतमासु। अन्तरित्यन्तः॥७॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(सधमादः) याः सह माद्यन्ति हृष्यन्ति ताः (द्युम्निनीः) प्रशस्तं द्युम्नं धनं यशो वा विद्यते यासां ताः (आपः) जलानीव शान्ताः (एताः) प्राप्तिविद्यासुशिक्षाः (अनाधृष्टाः) धर्षितुमयोग्याः (अपस्यः) अपःसु कर्म्मसु साध्व्यः, अत्र सुपां सुलुक् [अष्टा॰७.१३९] इति जसः स्थाने सुः (वसानाः) वस्त्राभूषणैराच्छादिताः (पस्त्यासु) गृहशालासु (चक्रे) कुर्य्यात् (वरुणः) वरो राजा (सधस्थम्) सहस्थानम् (अपाम्) व्याप्तविद्यानां स्त्रीणाम् (शिशुः) बालकः (मातृतमासु) अतिशयेन शास्त्रोक्तशिक्षया मानकर्त्रीषु धात्रीषु (अन्तः) समीपे॥ अयं मन्त्रः (शत॰ ५। ३। ५। १९) व्याख्यातः॥७॥
Essence
राज्ञा प्रयत्नेन स्वराज्ये सर्वाः स्त्रियो विदुष्यः कार्य्यास्तासां सकाशाज्जाता बालका विद्यायुक्तधात्र्यधीनाः कार्य्याः, यतो न कस्याप्यपत्यं विद्यासुशिक्षाहीनं स्त्री निर्बला च स्यात्॥७॥
Subject
राज्ञामिदमावश्यकं यत्सर्वस्याः प्रजायाः स्वकुलस्य चापत्यानि ब्रह्मचर्येण विद्यासुशिक्षान्वितानि कार्य्याणीत्याह॥
Anvaya
यो वरुणो राजा भवेत् स एताः सधमादो द्युम्निनीरनाधृष्टा आपो वसानाः पस्त्यास्वपस्यः स्त्रियो विदुष्यो भवेयुस्तासामपां यः शिशुस्तं मातृतमास्वन्तः सधस्थं समीपस्थं शिक्षार्थं रक्षेत्॥७॥