Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 10 / Mantra 6

34 Mantra
10/6
Devata- आपो देवताः Rishi- वरुण ऋषिः Chhand- स्वराट ब्राह्मी बृहती, Swara- मध्यमः
Mantra with Swara
प॒वित्रे॑ स्थो वैष्ण॒व्यौ सविर्तुवः॑ प्रस॒वऽउत्पु॑ना॒म्यच्छि॑द्रेण प॒वित्रे॑ण॒ सूर्य॑स्य र॒श्मिभिः॑। अनि॑भृष्टमसि वा॒चो बन्धु॑स्तपो॒जाः सोम॑स्य दा॒त्रम॑सि॒ स्वाहा॑ राज॒स्वः॥६॥

प॒वित्रे॒ऽइति॑ प॒वित्रे॑। स्थः॒। वै॒ष्ण॒व्यौ᳖। स॒वि॒तुः। वः॒। प्र॒स॒व इति॑ प्रऽस॒वे। उत्। पु॒ना॒मि॒। अच्छि॑द्रेण। प॒वित्रे॑ण। सूर्य॑स्य। र॒श्मिभि॒रिति॑ र॒श्मिऽभिः॑। अनि॑भृष्ट॒मित्यनि॑ऽभृष्टम्। अ॒सि॒। वा॒चः। बन्धुः॑। त॒पो॒जा इति॑ तपः॒ऽजाः। सोम॑स्य। दा॒त्रम्। अ॒सि॒। स्वाहा॑। रा॒ज॒स्व᳖ इति॑ राज॒ऽस्वः᳖ ॥६॥

Mantra without Swara
पवित्रे स्थो वैष्णव्यौ सवितुर्वः प्रसव ऽउत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः । अनिभृष्टमसि वाचो बन्धुस्तपोजाः सोमस्य दात्रमसि स्वाहा राजस्वः ॥

पवित्रेऽइति पवित्रे। स्थः। वैष्णव्यौ। सवितुः। वः। प्रसव इति प्रऽसवे। उत्। पुनामि। अच्छिद्रेण। पवित्रेण। सूर्यस्य। रश्मिभिरिति रश्मिऽभिः। अनिभृष्टमित्यनिऽभृष्टम्। असि। वाचः। बन्धुः। तपोजा इति तपःऽजाः। सोमस्य। दात्रम्। असि। स्वाहा। राजस्व इति राजऽस्वः॥६॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(पवित्रे) शुद्धाचरणे (स्थः) स्याताम् (वैष्णव्यौ) सकलविद्या सुशिक्षाशुभगुणस्वभावव्यापिनौ (सवितुः) सकलजगत्प्रसवितुरीश्वरस्य (वः) युष्मान् ब्रह्मचारिणीर्विद्यार्थिनीः कुमारिकाः (प्रसवे) प्रसूतेऽस्मिन् जगति (उत्) उत्कृष्टतया (पुनामि) पवित्रीकरोमि (अच्छिद्रेण) अविच्छिन्नेन निरन्तरेण (पवित्रेण) विद्यासुशिक्षाजितेन्द्रियत्वब्रह्मचर्यादिभिः पवित्रीकारकेण व्यवहारेण (सूर्य्यस्य) अर्कस्य (रश्मिभिः) किरणैरिव (अनिभृष्टम्) नित्यं भृष्टं पापरहितमाचरितवान् (असि) (वाचः) वेदवाण्याः (बन्धुः) भ्राता (तपोजाः) ब्रह्मचर्यादितपसा जातः (सोमस्य) ओषधिगणस्य (दात्रम्) दाति रोगान् येन तद्वान् (असि) (स्वाहा) सत्यक्रियया (राजस्वः) राजवीरप्रसविकाः॥ अयं मन्त्रः (शत॰ ५। ३। ५। १६-१८) व्याख्यातः॥६॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। हे राजादयो राजपुरुषाः! यूयमस्मिन् जगति यथा कुमाराध्यापने सज्जना नियुज्यन्ते, तथा पवित्रविद्यापरीक्षाकारिकाः स्त्रियः कन्यानामध्यापने नियुङ्ग्ध्वम्। यत एत इमाश्च विद्यासुशिक्षाः प्राप्य युवत्यः सत्यः स्वसदृशैः प्रियैर्वरैः पुरुषैः सह स्वयंवरं विवाहं कृत्वा वीरपुरुषान् जनयेयुः॥६॥
Subject
यथा कुमारा ब्रह्मचर्येण विद्या गृह्णीयुस्तथैव कुमार्योऽपि पठेयुरित्याह॥
Anvaya
हे सभेश राजन्! यतस्त्वं वाचो निभृष्टं बन्धुरसि सोमस्य दात्रं तपोजा असि। तवाज्ञया सवितुः प्रसवे वैष्णव्यौ पवित्रे स्थः। हे अध्यापकपरिचारिका अध्येत्र्यश्च स्त्रियः! यथाहं सवितुः प्रसवे सूर्य्यस्य रश्मिभिरिवाच्छिद्रेण पवित्रेण व उत्पुनामि तथा यूयं स्वाहा राजस्वो भवत॥६॥