Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 1 / Mantra 31

31 Mantra
1/31
Devata- यज्ञो देवता सर्वस्य Rishi- परमेष्ठी प्रजापतिर्ऋषिः Chhand- जगती अनुष्टुप्, Swara- निषादः
Mantra with Swara
स॒वि॒तुस्त्वा॑ प्रस॒वऽउत्पु॑ना॒म्यच्छि॑द्रेण प॒वित्रेण॒ सूर्य्य॑स्य र॒श्मिभिः॑। स॒वि॒तुर्वः॑ प्र॒स॒वऽउत्पु॑ना॒म्यच्छि॑द्रेण प॒वित्रे॑ण॒ सूर्य्य॑स्य र॒श्मिभिः॑। तेजो॑ऽसि शु॒क्रम॑स्य॒मृत॑मसि॒ धाम॒ नामा॑सि प्रि॒यं दे॒वाना॒मना॑धृष्टं देव॒यज॑नमसि॥३१॥

स॒वि॒तुः त्वा॒। प्र॒स॒व इति॑ प्रऽस॒वे। उत्। पु॒ना॒मि॒। अच्छि॑द्रेण। प॒वित्रे॑ण। सूर्य्य॑स्य। र॒श्मिभि॒रिति॑ र॒श्मिऽभिः॑। स॒वि॒तुः। वः॒। प्र॒स॒व इति॑ प्रऽस॒वे। उत्। पु॒ना॒मि॒। अच्छि॑द्रेण। प॒वित्रे॑ण। सूर्य्य॑स्य। र॒श्मिभि॒रिति॑ र॒श्मिभिः॑। ते॑जः। अ॒सि॒। शु॒क्रम्। अ॒सि॒। अ॒मृत॑म्। अ॒सि॒। धाम॑। नाम॑। अ॒सि॒। प्रि॒यम्। दे॒वाना॑म्। अना॑धृष्टम्। दे॒व॒यज॑न॒मिति॑ देव॒ऽयजन॑म्। अ॒सि॒ ॥३१॥

Mantra without Swara
सवितुस्त्वा प्रसवऽउत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः । सवितुर्वः प्रसवऽउत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः । तेजोसि शुक्रमस्यमृतमसि धाम नामासि प्रियन्देवानामनाधृष्टन्देवयजनमसि ॥

सवितुः त्वा। प्रसव इति प्रऽसवे। उत्। पुनामि। अच्छिद्रेण। पवित्रेण। सूर्य्यस्य। रश्मिभिरिति रश्मिऽभिः। सवितुः। वः। प्रसव इति प्रऽसवे। उत्। पुनामि। अच्छिद्रेण। पवित्रेण। सूर्य्यस्य। रश्मिभिरिति रश्मिभिः। तेजः। असि। शुक्रम्। असि। अमृतम्। असि। धाम। नाम। असि। प्रियम्। देवानाम्। अनाधृष्टम्। देवयजनमिति देवऽयजनम्। असि॥३१॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(सवितुः) परमेश्वरस्य सूर्य्यलोकस्य वा (त्वा) त्वां जगदीश्वरं तं यज्ञं वा (प्रसवे) प्रकृष्टतयोत्पद्यन्ते सर्वे पदार्था यस्मिँस्तस्मिन् संसारे (उत्) उत्कृष्टार्थे। उदित्येतयोः प्रातिलोम्यं प्राह (निरु॰१।३) (पुनामि) पवित्रीकरोमि (अच्छिद्रेण) न विद्यते छिद्रं छेदनं यस्मिन् तेन (पवित्रेण) शुद्धेन (सूर्य्यस्य) चराचरात्मनः परमेश्वरस्य प्रकाशमयस्य सूर्य्यलोकस्य वा। सरति जानाति प्रकाशयति चराचरं जगदिति। राजसूयसूर्य्य॰ (अष्टा॰३।१।११४) अनेन निपातितः (रश्मिभिः) प्रकाशकैर्गुणैः किरणैर्वा (सवितुः) उक्तार्थस्य (वः) युष्मानेताँश्च (प्रसवे) उक्तार्थे (अच्छिद्रेण) निरन्तरेण (पवित्रेण) शुद्धिकारकेण (सूर्य्यस्य) यः सुवत्यैश्वर्य्यं ददाति, ऐश्वर्य्यहेतून् प्रेरयति सः परमेश्वरः प्राणो वा तस्य (रश्मिभिः) अन्तःप्रकाशकैर्गुणैः (तेजः) स्वप्रकाशः प्रकाशहेतुर्वा (असि) अस्ति वा। अत्र सर्वत्र पक्षे व्यत्ययः (शुक्रम्) शुद्धं शुद्धिहेतुर्वा (असि) अस्ति वा (अमृतम्) अमृतात्मकं मोक्षसुखं प्रकाशनं वा (असि) अस्ति वा (धाम) धीयन्ते सर्वे पदार्था यस्मिन् तत् (नाम) नमस्करणीयो जलहेतुर्वा। नाम इत्युदकनामसु पठितम् (निघं॰१।१२) (असि) अस्ति वा (प्रियम्) प्रीतिकारकम् (देवानाम्) विदुषां दिव्यगुणानां वा (अनाधृष्टम्) यन्न समन्ताद् धृष्यते इत्यनाधृष्टम् (देवयजनम्) देवैर्यदिज्यते येन वा देवानां यजनं देवयजनं तत् (असि) अस्ति वा। अयं मन्त्रः (शत॰१।३।१।२२-२८॥ १।३।२।१-१८) व्याख्यातः॥३१॥
Essence
अत्र श्लेषालङ्कारः। ईश्वरो यज्ञविद्याफलं ज्ञापयति युष्माभिर्यथावदनुष्ठितो यज्ञः सूर्य्यस्य रश्मिभिर्विहरति स स्वकीयेन पवित्रेणाच्छिद्रेण गुणेन सर्वान् पदार्थान् पवित्रयति। स च तद्द्वारा सूर्य्यस्य रश्मिभिस्तेजस्विनः शुद्धानमृतरसान् सुखहेतुकान् प्रसन्नताजनकान् दृढान् यज्ञहेतून् पदार्थान् करोति यतस्तद्भोजनाच्छादनद्वारा वयं शरीरपुष्टिबुद्धिबलादीन् शुद्धगुणाँश्च संपाद्य नित्यं सुखयाम इति॥३१॥ ईश्वरेणास्मिन्नध्याये मनुष्यान् प्रति शुद्धकर्मानुष्ठातुं दोषान् शत्रूंश्च निवारयितुं यज्ञक्रियाफलं ज्ञातुं सम्यक् पुरुषार्थं कर्त्तुं विद्या विस्तारयितुं धर्मेण प्रजाः पालयितुं धर्मानुष्ठाते निर्भयतया स्थातुं सर्वैः सह मित्रतामाचरितुं वेदाध्ययनाध्यापनाभ्यां सर्वाविद्या ग्रहीतुं ग्राहयितुं शुद्धये परोपकाराय च प्रयतितुमाज्ञा दत्तास्ति सेयं सर्वैर्मनुष्यैर्यथावदनुष्ठातव्येति॥
Subject
सः यज्ञः कथं पवित्रीकरोतीत्युपदिश्यते॥
Anvaya
यो यज्ञः [सवितुः प्रसवे] अच्छिद्रेण पवित्रेण सूर्य्यस्य रश्मिभिः सह सर्वान् पदार्थान् पुनाति [त्वा] त्वां [तं यज्ञं] यजमानं वाहमुत्पुनामि। त्वां यजमानं वा। एवं च सवितुः प्रसवेऽच्छिद्रेण पवित्रेण सूर्य्यस्य रश्मिभिर्वो युष्मानेताँश्च पदार्थान् यज्ञेनोत्पुनामि। हे ब्रह्मन्! यतस्वं तेजोसि शुक्रमस्यमृतमसि धामासि नामासि देवानां प्रियमस्यनाधृष्टमसि देवयजनमसि तस्मात् त्वामेवाहमाश्रयामीत्येकः॥ यतोऽयं यज्ञस्तेजोऽ[स्य] स्ति शुक्रम[स्य᳕स्त्यमृतम[स्य᳕स्ति धामास्ति नामाडस्य᳕स्ति देवानां प्रियमनाधृष्टं देवयजनम् [स्य] स्ति तेनानेन यज्ञेनाहं सवितुर्जगदीश्वरस्य प्रसवेऽच्छिद्रेण पवित्रेण सूर्य्यस्य रश्मिभिर्वो युष्मानेतान् सर्वान् पदार्थांश्चोत्पुनामि॥ इति द्वितीयः॥३१॥