Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 1 / Mantra 30

31 Mantra
1/30
Devata- यज्ञो देवता Rishi- परमेष्ठी प्रजापतिर्ऋषिः Chhand- निचृत् जगती, Swara- निषादः
Mantra with Swara
अदि॑त्यै॒ रास्ना॑सि॒ विष्णो॑र्वे॒ष्पोस्यू॒र्ज्जे त्वाऽद॑ब्धेन॒ त्वा॒ चक्षु॒षाव॑पश्यामि। अ॒ग्नेर्जि॒ह्वासि॑ सु॒हूर्दे॒वेभ्यो॒ धाम्ने॑ धाम्ने मे भव॒ यजु॑षे यजुषे॥३०॥

अदि॑त्यै। रास्ना॑। अ॒सि॒। विष्णोः॑। वे॒ष्पः। अ॒सि॒। ऊ॒र्ज्जे। त्वा॒। अद॑ब्धेन। त्वा॒। चक्षु॑षा। अव॑। प॒श्या॒मि॒। अ॒ग्नेः। जि॒ह्वा। अ॒सि॒। सु॒हूरिति सु॒ऽहूः॑। दे॒वेभ्यः॑। धाम्ने॑। धाम्न॒ऽइति॒ धाम्ने॑ धाम्ने। मे॒। भ॒व॒। यजु॑षे यजुष॒ऽइति॒ यजु॑षे यजुषे ॥३०॥

Mantra without Swara
अदित्यै रास्नासि विष्णोर्वेष्पोस्यूर्जे त्वादब्धेन त्वा चक्षुषावपश्यामि । अग्नेर्जिह्वासि सुहूर्देवेभ्यो धाम्नेधाम्ने मे भव यजुषेयजुषे ॥

अदित्यै। रास्ना। असि। विष्णोः। वेष्पः। असि। ऊर्ज्जे। त्वा। अदब्धेन। त्वा। चक्षुषा। अव। पश्यामि। अग्नेः। जिह्वा। असि। सुहूरिति सुऽहूः। देवेभ्यः। धाम्ने। धाम्नऽइति धाम्ने धाम्ने। मे। भव। यजुषे यजुषऽइति यजुषे यजुषे॥३०॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(अदित्यै) पृथिव्या अन्तरिक्षस्य वा। अत्र षष्ठ्यर्थे चतुर्थी। अदितिरिति पृथिवीनामसु पठितम् (निघं॰१।१) पदनामसु च (निघं॰४।१) अनेन गमनागमनव्यवहारप्राप्तिहेतुरवकाशोऽन्तरिक्षं गृह्यते (रास्ना) रसहेतुभूता क्रिया। रास्ना सास्ना स्थूणा वीणाः (उणा॰३।१५) अनेन रसधातोर्निपातनान्नः प्रत्ययः (असि) अस्ति वा। अत्र सर्वत्र पक्षे व्यत्ययः (विष्णोः) व्यापकेश्वरस्य यज्ञस्य वा। यज्ञो वै विष्णुः (शत॰१।१।२।१३) (वेष्पः) वेवेष्टि व्याप्नोति पृथिवीमन्तरिक्षं वा स यज्ञोत्थो वाष्पो ज्ञानसमूहो वा। पानीविषिभ्यः पः (उणा॰३।२३) अनेन विषेः पः प्रत्ययः (असि) अस्ति वा (उर्ज्जे) अन्नाय रसाय पराक्रमाय च (त्वा) त्वां तं वा (अदब्धेन) सुखयुक्तेन (त्वा) त्वां तं वा (चक्षुषा) विज्ञानेन प्रत्यक्षप्रमाणेन नेत्रेण (अव) क्रियार्थे। अवेति विनिग्रहार्थीयः (निरु॰१।३) (पश्यामि) संप्रेक्षे (अग्नेः) भौतिकस्य (जिह्वा) जिहीते विजानाति रसमनया सा। शेवायह्वाजिह्वा॰ (उणा॰१।१५४) अनेनायं निपातितः। (असि) अस्ति वा (सुहूः) सुष्ठु हूयते यो या वा सा कृतो बहुलम् [अष्टा॰भा॰वा॰३.३.११३] इति कर्मणि ह्वेञ् इत्यस्य क्विबन्तः प्रयोगः (देवेभ्यः) विद्वद्भ्यो दिव्यगुणेभ्यो वा (धाम्ने धाम्ने) दधति वस्तूनि सुखानि च यस्मिन् तस्मै प्रत्यधिकरणप्राप्तये। धामानि त्रयाणि भवन्ति स्थानानि नामानि जन्मानीति (निरु॰९।२८) अत्र वीप्सायां द्वित्वम् (मे) मह्यम् (भव) भवति वा (यजुषे यजुषे) यजन्ति येन तस्मै प्रति यजुर्वेदमन्त्रम्। अयं मन्त्रः (शत॰१।३।१।१२-१९) व्याख्यातः॥३०॥
Essence
अत्र श्लेषालङ्कारः। सर्वैर्मनुष्यैरयं जगदीश्वरः प्रतिवस्तु स्थितः प्रतिमन्त्रं प्रतिपादितः पूज्यश्च भवतीति मन्त्रव्यम्। तथा चायं यज्ञः प्रतिमन्त्रेण सम्यगनुष्ठितः सर्वप्राणिभ्यः प्रतिवस्तुषु पराक्रमबलप्राप्तये भवतीति॥३०॥
Subject
पुनः स यज्ञः कीदृशः किं फलो भवतीत्युपदिश्यते॥
Anvaya
हे जगदीश्वर! यस्त्वम [दित्यै अ] अदित्या रास्नासि विष्णुरसि सर्वस्य वेष्पोऽस्यग्नेर्जिह्वासि देवेभ्यो धाम्ने धाम्ने [मे भवं] यजुषे यजुषे सुहूरसि। एवंभूतं [त्वा] त्वाहमदब्धेन चक्षुषा ऊर्ज्जे [त्वा] ऽदित्यै देवेभ्यो धाम्ने धाम्ने यजुषे यजुषे चावपश्यामि। स च त्वमस्माभिः सर्वत्र कृपया विदितः पूजितश्च भवेत्येकः॥ यतोऽयं यज्ञोऽ[दित्यै] अदित्या रास्ना [स्य] स्ति विष्णोर्वेष्पोऽ[स्य] स्त्यग्नेर्जिह्वा [स्य] स्ति देवेभ्यो धाम्ने धाम्ने [मे भव] यजुषे यजुषे सुहूर्भवति तस्मात् तमहमदब्धेन [त्वा] चक्षुषोर्ज्जे [त्वा] ऽवपश्यामि तथाऽदित्यै देवेभ्यो धाम्ने धाम्ने यजुषे यजुषे हितायावपश्यामि॥३०॥