Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 1 / Mantra 28

31 Mantra
1/28
Devata- यज्ञो देवता Rishi- परमेष्ठी प्रजापतिर्ऋषिः Chhand- विराट् ब्राह्मी पङ्क्ति, Swara- पञ्चमः
Mantra with Swara
पु॒रा क्रू॒रस्य॑ वि॒सृपो॑ विरप्शिन्नुदा॒दाय॑ पृथि॒वीं जी॒वदा॑नुम्। यामैर॑यँश्च॒न्द्रम॑सि स्व॒धाभि॒स्तामु॒ धीरा॑सोऽअनु॒दिश्य॑ यजन्ते।

पु॒रा। क्रूरस्य॑। वि॒सृप॒ इति वि॒ऽसृपः॑। वि॒र॒प्शि॒न्निति॑ विऽरप्शिन्। उ॒दा॒दायेत्यु॑त्ऽआ॒दाय॑। पृ॒थि॒वीम्। जी॒वदा॑नु॒मिति॑ जी॒वऽदा॑नुम्। याम्। ऐर॑यन्। च॒न्द्रम॑सि। स्व॒धाभिः॑। ताम्। ऊँ॒ इत्यूँ॑। धीरा॑सः। अ॒नु॒दिश्येत्य॑नु॒ऽदिश्य॑। य॒ज॒न्ते॒। प्रोक्ष॑णी॒रिति॑ प्र॒ऽउक्ष॑णीः। आ। सा॒द॒य॒। द्वि॒ष॒तः। व॒धः अ॒सि॒ ॥२८॥

Mantra without Swara
पुरा क्रूरस्य विसृपो विरप्शिन्नुदादाय पृथिवीञ्जीवदानुम् । यामैरयँश्चन्द्रमसि स्वधाभिस्तामु धीरासोऽअनुदिश्य यजन्ते । प्रोक्षणीरा सादय द्विषतो बधो सि ॥

पुरा। क्रूरस्य। विसृप इति विऽसृपः। विरप्शिन्निति विऽरप्शिन्। उदादायेत्युत्ऽआदाय। पृथिवीम्। जीवदानुमिति जीवऽदानुम्। याम्। ऐरयन्। चन्द्रमसि। स्वधाभिः। ताम्। ऊँ इत्यूँ। धीरासः। अनुदिश्येत्यनुऽदिश्य। यजन्ते। प्रोक्षणीरिति प्रऽउक्षणीः। आ। सादय। द्विषतः। वधः असि॥२८॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(पुरा) पुरस्तात् (क्रूरस्य) कृन्तन्त्यङ्गानि यस्मिन् तस्य युद्धस्य। कृतेश्छः क्रू च। (उणा॰२।११) अनेन कृन्ततेरक् प्रत्ययः। क्रू इत्यादेशश्च (विसृपः) योद्धृभिर्विविधं यत्सृप्यते तस्य। सृपितृदोः कसुन्। (अष्टा॰३।४।१७) अनेन भावलक्षणे सृपिधातोः कसुन् (विरप्शिन्) महागुणविशिष्टेश्वर वा महैश्वर्य्यमिच्छुक मनुष्य! विरप्शीति महन्नामसु पठितम्। (निघं॰३।३) (उदादाय) ऊर्ध्वं समन्ताद् गृहीत्वा (पृथिवीम्) विस्तृतप्रजायुक्ताम् (जीवदानुम्) या जीवेभ्यो जीवनार्थं वस्तु ददाति ताम् (याम्) पृथिवीम् (ऐरयन्) राज्याय प्राप्नुवन्ति। अत्र लडर्थे लङ् (चन्द्रमसि) चन्द्रलोकसमीप आह्लादे वा। (स्वधाभिः) अन्नैः सह वर्त्तमानाम्। स्वधेत्यन्ननामसु पठितम्। (निघं॰२।७) (ताम्) एतल्लक्षणाम् (उ) वितर्के (धीरासः) मेधाविनः। धीर इति मेधाविनामसु पठितम्। (निघं॰३।१५) (अनुदिश्य) प्राप्तुं शोधयितुमनुलक्ष्य (यजन्ते) पूजयन्ति सङ्गतिं कुर्वते (प्रोक्षणीः) प्रकृष्टतया सिञ्चन्ति याभिः क्रियाभिः पात्रैर्वा ताः (आ) समन्तात् (सादय) स्थापय (द्विषतः) शत्रोः (वधः) हननम् (असि) भवेत्। अत्रापि पुरुषव्यत्ययो लिङर्थे लट् च॥ अयं मन्त्रः (शत॰१।२।५।१९-२६) व्याख्यातः॥२८॥
Essence
येनेश्वरेणान्तरिक्षे पृथिव्यस्तत्समीपे चन्द्रास्तत्समीपे पृथिव्योऽन्योन्यं समीपस्थानि नक्षत्राणि सर्वेषां मध्ये सूर्य्यलोका एतेषु विविधाः प्रजाश्च रचयित्वा स्थापिताः सर्वैस्तत्रस्थैर्मनुष्यैः स एवोपासितुं योग्योऽस्ति। न यावन्मनुष्या बलक्रियाभ्यां युक्ता भूत्वा शत्रून् विजयन्ते, नैव तावत्स्थिरं राज्यसुखं प्राप्नुवन्ति। नैव युद्धबलाभ्यां विना शत्रवो बिभ्यति। नैव च विद्यान्यायविनयैर्विना यथावत् प्रजाः पालयितुं शक्नुवन्ति तस्मात् सर्वैर्जितेन्द्रियैर्भूत्वैतत् समासाद्य सर्वेषां सुखं कर्तुमनुलक्ष्य नित्यं प्रयतितव्यम्॥२८॥
Subject
ते दोषाः कथं निवारणीयास्तत्र मनुष्यैः पुनः किं करणीयमित्युपदिश्यते॥
Anvaya
हे विरप्शिन् जगदीश्वर! भवानेव यां स्वधाभिर्युक्तां जीवदानुं पृथिवीमुदादाय चन्द्रमसि स्थापितवानस्ति तस्माद् धीरासस्तामिमां पृथिवीं प्राप्य भवन्तमनुदिश्य नित्यं यजन्ते, यथा चन्द्रमस्यानन्देन वर्त्तमाना धीरासः यां जीवदानुं पृथिवीमनुदिश्य सेनां शस्त्राण्युदादाय विसृपः क्रूरस्य मध्ये शत्रून् जित्वा राज्यमैरयन् प्राप्नुवन्ति। यथा चैवं कृत्वा धीरासः पुरा प्रोक्षणीश्चासादितवन्तस्तथैव। हे विरप्शिन्! त्वमपि उ इति वितर्के तां प्राप्येश्वरं यज प्रोक्षणीश्चासादाय यथा च द्विषतो वधोऽसि भवेत्। तथा कृत्वाऽऽनन्दे नित्यं प्रवर्त्तस्व॥२८॥