Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 1 / Mantra 26

31 Mantra
1/26
Devata- सविता देवता Rishi- परमेष्ठी प्रजापतिर्ऋषिः Chhand- स्वराट् ब्राह्मी पङ्क्ति,भुरिक् ब्राह्मी पङ्क्ति, Swara- पञ्चमः
Mantra with Swara
अपा॒ररुं॑ पृथि॒व्यै दे॑व॒यज॑नाद्वध्यासं व्र॒जं ग॑च्छ गो॒ष्ठानं॒ वर्ष॑तु ते॒ द्यौर्ब॑धा॒न दे॑व सवितः पर॒मस्यां॑ पृथि॒व्या श॒तेन॒ पाशै॒र्योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्विष्मस्तमतो॒ मा मौ॑क्। अर॑रो॒ दिवं॒ मा प॑प्तो द्र॒प्सस्ते॒ द्यां मा स्क॑न् व्र॒जं ग॑च्छ गो॒ष्ठानं॒ वर्ष॑तु ते॒ द्यौर्ब॑धा॒न दे॑व सवितः पर॒मस्यां॑ पृथि॒व्या श॒तेन॒ पाशै॒र्योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मस्तमतो॒ मा मौ॑क्॥२६॥

अप॑। अ॒ररु॑म्। पृ॒थि॒व्यै। दे॒व॒यज॑ना॒दिति॑ देव॒ऽयज॑नात्। व॒ध्या॒स॒म्। व्र॒जम्। ग॒च्छ॒। गो॒ष्ठान॑म्। गो॒स्थान॒मिति गो॒ऽस्थान॑म्। व॑र्षतु। ते॒। द्यौः। ब॒धा॒न। दे॒व॒। स॒वि॒त॒रिति सवितः। प॒र॒म्। अस्या॑म्। पृ॒थि॒व्याम्। श॒तेन॑। पाशैः॑। यः। अ॒स्मान्। द्वेष्टि॑। यम्। च॒। व॒यम्। द्वि॒ष्मः। तम्। अतः॑। मा। मौ॒क्। अर॑रो॒ऽइत्यर॑रो। दिव॑म्। मा। प॒प्तः॒। द्र॒प्सः। ते॒। द्याम्। मा। स्क॒न्। व्र॒जम्। ग॒च्छ॒। गो॒ष्ठान॑म्। गो॒स्थान॒मिति गो॒ऽस्थान॑म्। व॑र्षतु। ते॒। द्यौः। ब॒धा॒न। दे॒व॒। स॒वि॒त॒रिति॑ सवितः। प॒र॒मस्या॑म्। पृ॒थि॒व्याम्। श॒तेन॑। पाशैः॑। यः। अ॒स्मान्। द्वेष्टि॑। यम्। च॒। व॒यम्। द्वि॒ष्मः। तम्। अतः॑। मा। मौ॒क् ॥२६॥

Mantra without Swara
अपाररुम्पृथिव्यै देवयजनाद्बध्यासँव्रजङ्गच्छ गोष्ठानँवर्षतु ते द्यौर्बधान देव सवितः परमस्याम्पृथिव्याँ शतेन पाशैर्या स्मान्द्वेष्टि यञ्च वयन्द्विष्मस्तमतो मा मौक् । अररो दिवम्मा पप्तो द्रप्सस्ते द्याम्मा स्कन्व्रजङ्गच्छ गोष्ठानँवर्षतु ते द्यौर्बधान देव सवितः परमस्याम्पृथिव्याँ शतेन पाशैर्या स्मान्द्वेष्टि यञ्च वयन्द्विष्मस्तमतो मा मौक् ॥

अप। अररुम्। पृथिव्यै। देवयजनादिति देवऽयजनात्। वध्यासम्। व्रजम्। गच्छ। गोष्ठानम्। गोस्थानमिति गोऽस्थानम्। वर्षतु। ते। द्यौः। बधान। देव। सवितरिति सवितः। परम्। अस्याम्। पृथिव्याम्। शतेन। पाशैः। यः। अस्मान्। द्वेष्टि। यम्। च। वयम्। द्विष्मः। तम्। अतः। मा। मौक्। अररोऽइत्यररो। दिवम्। मा। पप्तः। द्रप्सः। ते। द्याम्। मा। स्कन्। व्रजम्। गच्छ। गोष्ठानम्। गोस्थानमिति गोऽस्थानम्। वर्षतु। ते। द्यौः। बधान। देव। सवितरिति सवितः। परमस्याम्। पृथिव्याम्। शतेन। पाशैः। यः। अस्मान्। द्वेष्टि। यम्। च। वयम्। द्विष्मः। तम्। अतः। मा। मौक्॥२६॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(अप) धात्वर्थे (अररुम्) असुरराक्षसस्वभावशत्रुम्। अर्त्तेररुः। (उणा॰४।७९) अनेन ऋधातोररुः प्रत्ययः (पृथिव्यै) पृथिव्याम्। अत्र सुपां सुलुग् [अष्टा॰७.१.३९] इति सप्तमीस्थाने चतुर्थी (देवयजनात्) देवा यजन्ति यस्मिन् तस्मात् (वध्यासम्) हन्याम् (व्रजम्) व्रजन्ति जानन्ति जना येन तं सत्सङ्गम् (गच्छ) प्राप्नुहि गच्छतु वा (गोष्ठानम्) गौर्वाणी तिष्ठति यस्मिन्नध्ययनाध्यापने तं व्यवहारम्। गौरिति वाङ्नामसु पठितम्। (निघं॰१।११) (वर्षतु) शब्दविद्याया वृष्टिं करोतु (ते) तव (द्यौः) विद्याप्रकाशः। दिवो द्योतनकर्मणामादित्यरश्मीनाम्। (निरु॰१३।२५) (बधान) बन्धय (देव) सर्वानन्दप्रदेश्वरव्यवहारहेतुर्वा (सवितः) सर्वेषु जीवेष्वन्तर्यामितया सत्यप्रेरकव्यवहारप्रेरणाहेतुर्वा (परम्) शत्रुभूतम् (अस्याम्) आधारभूतायाम् (पृथिव्याम्) बहुपदार्थप्रदायाम् (शतेन) बहुभिः (पाशैः) बन्धनैः (यः) मूर्खः (अस्मान्) विद्यारतप्रचारकान् (द्वेष्टि) अपप्रीणाति (यम्) विद्याविरोधिनम् (च) पुनरर्थे (वयम्) विद्वांसः (द्विष्मः) अपप्रीणीमः (तम्) पूर्वोक्तं विद्याशत्रुम् (अतः) अस्माद् बन्धनादुपदेशाद्वा (मा) निषेधार्थे (मौक्) त्यज (अररो) दुष्टमनुष्य (दिवम्) प्रकाशम् (मा) निषेधार्थे (पप्तः) पततु। अत्र लोडर्थे लुङ् (द्रप्सः) हर्षकारी रसः। ‘दृप हर्षणमोहनयोः’ इत्यस्मादौणादिकः ‘सः’ प्रत्ययः। अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्। (अष्टा॰६।१।५९) अनेनामागमः (ते) तव तस्याः पृथिव्या वा (द्याम्) आनन्दम्। दिवु धातोर्बाहुलकाड्डोप्रत्ययष्टिलोपे प्राप्ते वकारलोपश्च (मा) निषेधार्थे (स्कन्) निस्सारयतु। अत्र लोडर्थे लङ्। बहुलं छन्दसि [अष्टा॰२.४.७३] इति शपो लुक् (व्रजम्) व्रजन्ति विद्वांसो यस्मिन् सन्मार्गे तम् (गच्छ) गच्छतु गमय वा (गोष्ठानम्) गौः पृथिवी तिष्ठति यस्मिन् तदन्तरिक्षम् (वर्षतु) सिञ्चतु (ते) तव (द्यौः) कान्तिः। द्यौर्वै सर्वेषां देवानामायतनम्। (शत॰१४।३।२।८) (बधान) बध्नाति वा पक्षे व्यत्ययः (देव) विजयप्रदविजयहेतुर्वा (सवितः) सर्वोत्पादकव्यवहारोत्पत्तिहेतुर्वा (परम्) शत्रुम् (अस्याम्) सर्वबीजारोपणार्थायाम् (पृथिव्याम्) बहुप्रजायुक्तायाम् (शतेन) बहुभिः (पाशैः) सामदामदण्डभेदादिकर्मभिः (यः) न्यायविरोधी (अस्मान्) न्यायाधीशान् (द्वेष्टि) कोपयति (यम्) अन्यायकारिणम् (च) पुनरर्थे (वयम्) सर्वहितसंपादिनः (द्विष्मः) कोपयामः (तम्) अधर्मप्रियम् (अतः) शिक्षणात् (मा) निषेधे (मौक्) त्यजतु॥ अयं मन्त्रः (शत॰१।२।४।१७-२१) व्याख्यातः॥२६॥
Essence
अत्र लुप्तोपमालङ्कारः। ईश्वर आज्ञापयति हे मनुष्या! युष्माभिर्विद्वत्कार्य्यानुष्ठाने विघ्नकारिणो दुष्टाः प्राणिनः सदाऽपहन्तव्याः। सत्समागमेन विद्यावृद्धिर्नित्यं कार्य्या। यथाऽनेकोपायैः श्रेष्ठानां हानिर्दुष्टानां च वृद्धिर्न स्यात् तथैवानुष्ठेयम्। सदा श्रेष्ठाः सत्कार्य्या दुष्टास्ताडनीया बन्धनीयाश्च। परस्परं प्रीत्या विद्याशरीरबलं संपाद्य क्रियया कलायन्त्रैरनेकानि यानानि रचयित्वा सर्वेभ्यः सुखं देयं निरन्तरमीश्वरस्याज्ञापालनं (कर्तव्यम्) स एवोपासनीयश्चेति॥२६॥
Subject
पुनरेतेन यज्ञेन किं किं सिध्यतीत्युपदिश्यते॥
Anvaya
हे देव सवितर्भवत्कृपया वयं परस्परं विद्यामेवेपदिशाम। यथायं सविता देवः सूर्य्यलोकोऽस्यां पृथिव्यां शतेन पाशैर्बन्धनहेतुभिः किरणैराकर्षणेन पृथिव्यादीन् सर्वान् पदार्थान् बध्नाति। तथैव त्वमपि दुष्टान् बद्ध्वा शुभगुणान् प्रकाशय। हे विद्वांसो यथाहं [पृथिव्यै] पृथिव्यां देवयजनादररुमपवध्यासं तथैव तं यूयमप्यपाघ्नत। यथाऽहं व्रजं गच्छामि तथैव त्वमप्येतं गच्छ। यथाहं गोष्ठानं वर्षामि तथैव भवानपि वर्षतु। यथा मम द्यौर्विद्याप्रकाशः सर्वान् प्राप्नोति तथैव ते तवापि प्राप्नोतु। यथाऽहं योऽस्मान् द्वेष्टि यं च वयं द्विष्मस्तं परमस्यां पृथिव्यां शतेन पाशैर्नित्यं बध्नामि कदाचित्तं न त्यजामि तथैव हे वीर! तं त्वमिमं बधान तं चातः कदाचिन्मा मौक्। योऽस्मान् द्वेष्टि यं च वयं द्विष्मस्तमतो बंधनात् कोऽपि मा मुञ्चतु॥ एवं च तं प्रति सर्व उपदिशन्तु। हे अररो! त्वं दिवं मा पप्तस्तथा ते तव द्रप्सो द्यां माऽस्कन्। हे सन्मार्गजिज्ञासो! यथाऽहं व्रजं सन्मार्गं गच्छामि तथैव त्वमप्येतं गच्छ। यथेयं द्यौर्गोष्ठानं वर्षति तथैवेश्वरो विद्वान् वा ते तव कामान् वर्षतु। यथायं सविता देवः सूर्य्यलोकोऽस्यां पृथिव्यां शतेन पाशैर्बन्धनहेतुभिः किरणैराकर्षणेन पृथिव्यादीन् सर्वान् पदार्थान् बध्नाति तथैव त्वमपि च पुनर्योऽस्मान् द्वेष्टि यं च वयं द्विष्मस्तं परं शत्रुमस्यां पृथिव्यां शतेन पाशैर्बधान। यथाऽहं तं द्वेष्टारं शत्रुं शतेन पाशैर्बद्ध्वा न कदाचिन्मुञ्चामि तथैव त्वमप्येनं सदा बधान कदाचिन्मा मौक्॥२६॥