Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 1 / Mantra 22

31 Mantra
1/22
Devata- प्रथतामितिपर्य्यन्तस्य यज्ञो देवता । अन्त्यस्याग्निवितारौ देवते Rishi- परमेष्ठी प्रजापतिर्ऋषिः Chhand- भुरिक् त्रिष्टुप्,गायत्री, Swara- षड्जः
Mantra with Swara
जन॑यत्यै त्वा॒ संयौ॑मी॒दम॒ग्नेरि॒दम॒ग्नीषोम॑योरि॒षे त्वा॑ घ॒र्मोऽसि वि॒श्वायु॑रु॒रुप्र॑थाऽउ॒रु प्र॑थस्वो॒रु ते॑ य॒ज्ञप॑तिः प्रथताम॒ग्निष्टे॒ त्वचं॒ मा हि॑ꣳसीद् दे॒वस्त्वा॑ सवि॒ता श्र॑पयतु॒ वर्षि॒ष्ठेऽधि॒ नाके॑॥ २२॥

जन॑यत्यै। त्वा॒। सम्। यौ॒मि॒। इ॒दम्। अ॒ग्नेः। इ॒दम्। अ॒ग्नीषोम॑योः। इ॒षे। त्वा॒। घ॒र्मः। अ॒सि॒। वि॒श्वायु॒रिति॑ वि॒श्वऽआ॑युः। उ॒रुप्र॑था॒ इत्यु॒रुऽप्र॑थाः। उ॒रु। प्र॒थ॒स्व॒। उ॒रु। ते॒। य॒ज्ञप॑ति॒रिति॑ य॒ज्ञऽप॑तिः। प्र॒थ॒ता॒म्। अ॒ग्निः। ते॒। त्वच॑म्। मा। हि॒ꣳसी॒त्। दे॒वः। त्वा॒। स॒वि॒ता। श्र॒प॒य॒तु॒। वर्षि॑ष्ठे। अधि॑। नाके॑ ॥२२॥

Mantra without Swara
जनयत्यै त्वा संयौमीदमग्नेरिदमग्नीषोमयोरिषे त्वा घर्मासि विश्वायुरुरुप्रथाऽउरु प्रथस्वोरु ते यज्ञपतिः प्रथतामग्निष्टे त्वचम्मा हिँसीद्देवस्त्वा सविता श्रपयतु वर्षिष्ठेधि नाके ॥

जनयत्यै। त्वा। सम्। यौमि। इदम्। अग्नेः। इदम्। अग्नीषोमयोः। इषे। त्वा। घर्मः। असि। विश्वायुरिति विश्वऽआयुः। उरुप्रथा इत्युरुऽप्रथाः। उरु। प्रथस्व। उरु। ते। यज्ञपतिरिति यज्ञऽपतिः। प्रथताम्। अग्निः। ते। त्वचम्। मा। हिꣳसीत्। देवः। त्वा। सविता। श्रपयतु। वर्षिष्ठे। अधि। नाके॥२२॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(जनयत्यै) सर्वसुखोत्पादिकायै राज्यलक्ष्म्यै (त्वा) तं त्रिविधं यज्ञम् (सम्) सम्यक् (यौमि) मिश्रयामि। अग्नौ प्रक्षिप्य वियोजयामि वा (इदम्) संस्कृतं हविः (अग्नेः) अग्नेर्मध्ये (इदम्) यद्धुतं तत् (अग्नीषोमयोः) अग्निश्च सोमश्च तयोर्मध्ये (इषे) अन्नाद्याय (त्वा) तं वृष्टिशुद्धिहेतुम् (घर्मः) यज्ञः। घर्म इति यज्ञनामसु पठितम्। (निघं॰३।१७) (असि) भवति। अत्र व्यत्ययः (विश्वायुः) विश्वं पूर्णमायुर्यस्मात् सः (उरुप्रथाः) बहु प्रथः सुखस्य विस्तारो यस्मात् सः। उर्विति बहुनामसु पठितम्। (निघं॰३।१) (उरु प्रथस्व) बहु विस्तारय (उरु) बहु (ते) तुभ्यम् (यज्ञपतिः) यज्ञस्य स्वामी पालकः (प्रथताम्) विस्तारयतु (अग्निः) भौतिको यज्ञसम्बन्धी शरीरस्थो वा (ते) तव तस्य वा। युष्मत्तत्ततक्षुष्वन्तः पादम्। (अष्टा॰८।३।१०३) अनेन मूर्द्धन्यादेशः (त्वचम्) कञ्चिदपि शरीरायवं सुखहेतुम् (मा) निषेधार्थे (हिंसीत्) हिनस्तु। अत्र लोडर्थे लुङ् (देवः) सर्वप्रकाशकः परमेश्वरः सूर्य्यलोको वा (त्वा) त्वां तं वा (सविता) अन्तःप्रेरको वृष्टिहेतुर्वा (श्रपयतु) श्रपयति पाचयति। अत्र लडर्थे लोट् (वर्षिष्ठे) अतिशयेन वृद्धो वर्षिष्ठस्तस्मिन् विशाले सुखस्वरूपे (अधि) अधीत्युपरिभावमैश्वर्य्यं वा प्राह। (निरु॰१।३) (नाके) अकं दुःखं न विद्यते यस्मिन्नसौ नाकस्तस्मिन्॥ अयं मन्त्रः (शत॰१।१।२।३-१४) व्याख्यातः॥२२॥
Essence
अत्र लुप्तोपमालङ्कारो वेद्यः। मनुष्यैरेवंभूतो यज्ञः सदैव कार्य्यः, यः पूर्णां श्रियं सकलमायुरन्नादिपदार्थान् रोगनाशं सर्वाणि सुखानि च प्रथयति। स केनापि कदाचिन्नैव त्याज्यः। कुतः? नैवैतेन वायुवृष्टिजलौषधिशुद्धिकारकेण विना कस्यापि प्राणिनः सम्यक् सुखानि सिध्यन्तीत्यतः। एवं स जगदीश्वरः सर्वान् प्रत्याज्ञापयति॥२२॥
Subject
स यज्ञः कस्मै प्रयोजनाय संपादनीय इत्युपदिश्यते॥
Anvaya
हे मनुष्या! यथाऽहं जनयत्यै यं यज्ञं संयौमि तथैव स भवद्भिरपि संयूयताम्। अस्माभिर्यदिदं संस्कृतं हविरग्नेर्मध्ये प्रक्षिप्यते, तदिदं विस्तीर्णं भूत्वाऽग्नीषोमयोर्मध्ये स्थित्वेषे भवति। यो विश्वायुरुरुप्रथा घर्मो यज्ञोऽ(स्य) स्ति यथाऽयं मया उरु प्रथ्यते तथैव प्रतिजनं त्वं [त्वा] तमेतमुरु प्रथस्व। एवं कृतवते ते तुभ्यमयं यज्ञपतिरग्निः सविता देवो जगदीश्वरश्चोरु सुखं प्रथताम्। ते तव त्वचं मा हिंसीत् नैव हिनस्ति। स खलु त्वां वर्षिष्ठेऽधिनाके [त्वां तं श्रपयतु] सुखयुक्तं करोतु॥ इत्येकः॥ हे मनुष्य! यथाऽहं मनुष्यो यो विश्वायुरुरुप्रथा घर्मो यज्ञो(स्य)स्ति, त्वा तं जनयत्या इषे संयौमि तत्सिध्यर्थमिदमग्नेर्मध्ये इदमग्नीषोमयोर्मध्ये संस्कृतं हविः संवपामि प्रक्षिपामि तथा त्वमप्येतमुरुप्रथस्व बहु विस्तारय यतोऽयमग्निस्ते तव त्वचं मा हिंसीत् न हिंस्यात्। यथा च देवः सविता वर्षिष्ठेऽधिनाके यं यज्ञं श्रपयेत्। तथा भवानपि त्वा तं संयौतु श्रपयतु। ते तव यज्ञपतिश्च तमुरु प्रथतामिति द्वितीयः॥२२॥