Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 1 / Mantra 20

31 Mantra
1/20
Devata- सविता देवता Rishi- परमेष्ठी प्रजापतिर्ऋषिः Chhand- विराट् ब्राह्मी त्रिष्टुप्, Swara- धैवतः
Mantra with Swara
धा॒न्यमसि धिनु॒हि दे॒वान् प्रा॒णाय॑ त्वोदा॒नाय॑ त्वा व्या॒नाय॑ त्वा। दी॒र्घामनु॒ प्रसि॑ति॒मायु॑षे धां दे॒वो वः॑ सवि॒ता हिर॑ण्यपाणिः॒ प्रति॑गृभ्णा॒त्वच्छि॑द्रेण पा॒णिना॒ चक्षु॑षे त्वा म॒हीनां॒ पयो॑ऽसि॥ २०॥

धा॒न्य᳖म्। अ॒सि॒। धि॒नु॒हि। दे॒वान्। प्रा॒णाय॑। त्वा॒। उ॒दा॒नायेत्यु॑त्ऽआ॒नाय॑। त्वा॒। व्या॒नायेति॑ विऽआ॒नाय॑। त्वा॒। दी॒र्घाम्। अनु॑। प्रसि॑तिमिति॒ प्रऽसि॑तिम्। आयु॑षे। धा॒म्। दे॒वः। वः॒। स॒वि॒ता। हिर॑ण्यपाणि॒रिति॒ हिर॑ण्यऽपाणिः। प्रति॑। गृ॒भ्णा॒तु॒। अच्छि॑द्रेण। पा॒णिना॒। चक्षु॑षे। त्वा॒। म॒हीना॑म्। पयः॑। अ॒सि॒ ॥२०॥

Mantra without Swara
धान्यमसि धिनुहि देवान् प्राणाय त्वोदानाय त्वा व्यानाय त्वा। दीर्घामनु प्रसितिमायुषे धां देवो वः सविता हिरण्यपाणिः प्रति गृभ्णात्वच्छिद्रेण पाणिना चक्षुषे त्वा महीनां पयोऽसि ॥

धान्यम्। असि। धिनुहि। देवान्। प्राणाय। त्वा। उदानायेत्युत्ऽआनाय। त्वा। व्यानायेति विऽआनाय। त्वा। दीर्घाम्। अनु। प्रसितिमिति प्रऽसितिम्। आयुषे। धाम्। देवः। वः। सविता। हिरण्यपाणिरिति हिरण्यऽपाणिः। प्रति। गृभ्णातु। अच्छिद्रेण। पाणिना। चक्षुषे। त्वा। महीनाम्। पयः। असि॥२०॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(धान्यम्) धातुमर्हं यत् यज्ञात् शुद्धम्। रोगनाशकेन स्वादिष्ठतमेन सुखकारकमन्नं तत्। अत्र दधातेर्यत् नुट च। (उणा॰५।४८) अनेन यत्प्रत्ययो नुडागमश्च (असि) भवति। अत्र सर्वत्र व्यत्ययः (धिनुहि) धिनोति प्रीणाति। अत्र लडर्थे लोट् (देवान्) विदुषो जीवानिन्द्रियाणि च (प्राणाय) प्रकृष्टमन्यते जीव्यते येन तस्मै जीवनधारणहेतवे बलाय (त्वा) तत् (उदानाय) स्फूर्त्तिहेतव ऊर्ध्वमन्यते चेष्ट्यते येन तस्मै उत्क्रमणपराक्रमहेतवे (त्वा) तत् (व्यानाय) विविधमन्यते व्याप्यते येन तस्मै सर्वेषां शुभगुणानां कर्मविद्याङ्गानां च व्याप्तिहेतवे (त्वा) तत्। अत्र त्रिषु प्रथमार्थे मध्यमः (दीर्घाम्) विस्तृताम् (अनु) पश्चादर्थे (प्रसितिम्) प्रकृष्टं सिनोति बध्नात्यनया ताम् (आयुषे) पूर्णायुर्वर्धनेन सुखभोगाय (धाम्) दधामि। अत्र छन्दसि लुङ्लङ्लिटः [अष्टा॰३.४.६] इति वर्त्तमाने लुङ्ङ[भावश्च (देवः) प्रकाशमानः प्रकाशहेतुर्वा (वः) अस्मानेतान् जगत्स्थान् स्थूलान् पदार्थांश्च (सविता) सर्वजगदुत्पादकः सकलैश्वर्य्यादातेश्वरः सूर्य्यलोको वा (हिरण्यपाणिः) हिरण्यस्यामृतस्य मोक्षस्य दानाय पाणिर्व्यवहारो यस्य सः। अमृतꣳ हिरण्यम्। (शत॰७।४।१।१५) यद्वा हिरण्यं प्रकाशार्थं ज्योतिः पाणिर्व्यवहारो यस्य सः (प्रतिगृभ्णातु) प्रतिगृह्णातु प्रतिगृह्णाति वा। अत्र हृग्रहो॰ [अष्टा॰भा॰वा॰८.२.३२] इति हस्य भः। पक्षे लडर्थे लोट् च (अच्छिद्रेण) निरन्तरेण व्यापनेन प्रकाशेन वा (पाणिना) स्तुतिसमूहेन व्यवहारेण तेजसा (चक्षुषे) प्रत्यक्षज्ञानाय, नेत्रव्यवहाराय च। (त्वा) तं च। (महीनाम्) महतीनां वाचां पृथिवानां वा। महीति वाङ्नामसु पठितम्। (निघं॰१।११) पृथिवीनामसु च। (निघं॰१।१) (पयः) अन्नं जलं च येन शुद्धम्। पय इत्युदकनामसु पठितम्। (निघं॰१।१२) अयं मन्त्रः (शत॰१।१।५।१८-२२) व्याख्यातः॥२०॥
Essence
अत्र लुप्तोपमालङ्कारः। ये यज्ञेन शोधिता अन्नजलवाय्वादयः पदार्था भवन्ति, ते सर्वेषां शुद्धये बलपराक्रमाय दृढाय दीर्घायुषे च समर्था भवन्ति, तस्मात् सर्वैर्मनुष्यैरेतद्यज्ञकर्म नित्यमनुष्ठेयम्। तथा च परमेश्वरेण या महती पूज्या वाक् प्रकाशितास्त्यस्याः प्रत्यक्षकरणायेश्वरानुग्रहापेक्षा स्वपुरुषार्थता च कार्य्या। यथेश्वरः परोपकारिणां नृणामुपर्य्यनुग्रहं करोति, तथैवाऽस्माभिरपि सर्वेषां प्राणिनामुपरि नित्यमनुग्रहः कार्य्यः। यथाऽयमन्तर्यामीश्वरः सूर्य्यलोकश्च संसारे अध्यात्मनि वेदेषु च सत्यं ज्ञानं मूर्त्तद्रव्याणि नैरन्तर्य्येण प्रकाशयति, तथैव सर्वैरस्माभिर्मनुष्यैः सर्वेषां सुखायाऽखिला विद्याः प्रत्यक्षीकृत्य नित्यं प्रकाशनीयाः। ताभिः पृथिवीराज्यसुखं नित्यं कार्य्यमिति॥२०॥
Subject
कस्मै प्रयोजनाय स यज्ञः कर्त्तव्य इत्युपदिश्यते॥
Anvaya
यदिदं यज्ञशोधितं धान्यम(स्य)स्ति यज्ञ यज्ञशोधितं पयोऽ(स्य)स्ति तत् देवान् धिनुहि धिनाति तस्माद्यथाऽहं (त्वा) तत्प्राणाय (त्वा) तदुदानाय (त्वा) तद्व्यानाय दीर्घां प्रसितिमायुषे (धाम्) दधामि, तथैव यूयं सर्वे मनुष्यास्तस्मै प्रयोजनायैतन्नित्यं धत्त (त्वा) यथा वः योऽस्मान् हिरण्यपाणिर्देवः सविता जगदीश्वरोऽच्छिद्रेण पाणिना महीनां चक्षुषे (त्वा) प्रत्यनुगृभ्णातु प्रकृष्टतयानुगतं गृह्णाति तथैव वयं तं प्रतिगृभ्णीमः। यथा च हिरण्यपाणिर्देवः सविता सूर्य्यलोको महीनां चक्षुषेऽच्छिद्रेण पाणिना पयो गृहीत्वा धान्यं पोषयति, तथैव तं वयमपि अच्छिद्रेण पाणिना महीनां चक्षुषि प्रतिगृह्णीमः॥२०॥