Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 1 / Mantra 18

31 Mantra
1/18
Devata- अग्निर्देवता Rishi- परमेष्ठी प्रजापतिर्ऋषिः Chhand- ब्राह्मी उष्णिक्,आर्ची त्रिष्टुप्,आर्ची पङ्क्ति, Swara- ऋषभः
Mantra with Swara
अग्ने॒ ब्रह्म॑ गृभ्णीष्व ध॒रुण॑मस्य॒न्तरि॑क्षं दृꣳह ब्रह्म॒वनि॑ त्वा क्षत्र॒वनि॑ सजात॒वन्युप॑दधामि॒ भ्रातृ॑व्यस्य व॒धाय॑। ध॒र्त्रम॑सि॒ दिवं॑ दृꣳह ब्रह्म॒वनि॑ त्वा क्षत्र॒वनि॑ सजात॒वन्युप॑दधामि॒ भ्रातृ॑व्यस्य व॒धाय॑। विश्वा॑भ्य॒स्त्वाशा॑भ्य॒ऽउप॑दधामि॒ चित॑ स्थोर्ध्व॒चितो॒ भृगू॑णा॒मङ्गि॑रसां॒ तप॑सा तप्यध्वम्॥१८॥

अग्ने॑। ब्रह्म॑। गृ॒भ्णी॒ष्व॒। ध॒रुण॑म्। अ॒सि॒। अ॒न्तरि॑क्षम्। दृ॒ꣳह॒। ब्र॒ह्म॒वनीति॑ ब्रह्म॒ऽवनि॑। त्वा॒। क्ष॒त्र॒वनीति॑ क्षत्र॒ऽवनि॑। स॒जा॒त॒वनीति॑ सजात॒ऽवनि॑। उप॑। द॒धा॒मि॒। भ्रातृ॑व्यस्य। व॒धाय॑। ध॒र्त्रम्। अ॒सि॒। दिव॑म्। दृ॒ꣳह॒। ब्र॒ह्म॒वनीति॑ ब्रह्म॒ऽवनि॑। त्वा॒। क्ष॒त्र॒वनीति॑ क्षत्र॒ऽवनि॑। स॒जा॒त॒वनीति॑ सजात॒ऽवनि॑। उप॑। द॒धा॒मि॒। भ्रातृ॑व्यस्य। व॒धाय॑। विश्वा॑भ्यः। त्वा॒। आशा॑भ्यः। उप॑। द॒धा॒मि॒। चितः॑। स्थ॒। ऊ॒र्ध्व॒चित॒ इत्यू॑र्ध्व॒ऽचि॒तः॑। भृगू॑णाम्। अङ्गि॑रसाम्। तप॑सा। त॒प्य॒ध्व॒म् ॥१८॥

Mantra without Swara
अग्ने ब्रह्म गृभ्णीष्व धरुणमस्यन्तरिक्षन्दृँह ब्रह्मवनि त्वा क्षत्रवनि सजातवन्युप दधामि भ्रातृव्यस्य बधाय । धर्त्रमसि दिवन्दृँह ब्रह्मवनि त्वा क्षत्रवनि सजातवन्युप दधामि भ्रातृव्यस्य बधाय । विश्वाभ्यस्त्वाशाभ्यऽउप दधामि चित स्थोर्ध्वचितो भृगूणामङ्गिरसां तपसा तप्यध्वम् ॥

अग्ने। ब्रह्म। गृभ्णीष्व। धरुणम्। असि। अन्तरिक्षम्। दृꣳह। ब्रह्मवनीति ब्रह्मऽवनि। त्वा। क्षत्रवनीति क्षत्रऽवनि। सजातवनीति सजातऽवनि। उप। दधामि। भ्रातृव्यस्य। वधाय। धर्त्रम्। असि। दिवम्। दृꣳह। ब्रह्मवनीति ब्रह्मऽवनि। त्वा। क्षत्रवनीति क्षत्रऽवनि। सजातवनीति सजातऽवनि। उप। दधामि। भ्रातृव्यस्य। वधाय। विश्वाभ्यः। त्वा। आशाभ्यः। उप। दधामि। चितः। स्थ। ऊर्ध्वचित इत्यूर्ध्वऽचितः। भृगूणाम्। अङ्गिरसाम्। तपसा। तप्यध्वम्॥१८॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(अग्ने) परमेश्वर भौतिको वा (ब्रह्म) वेदम् (गृभ्णीष्व) ग्राहय गृह्णाति वा। अत्र सर्वत्र पक्षे व्यत्ययः। हृग्रहोर्भश्छन्दसि (अष्टा॰५।२।३२) इति हकारस्य भकारः (धरुणम्) धरति सर्वलोकान् यत्तत् तेजश्च (असि) अस्ति। अत्र पक्षे प्रथमार्थे मध्यमः (अन्तरिक्षम्) आकाशस्थान् पदार्थान्। अन्तरात्मस्थमक्षयं ज्ञानं वा। अन्तरिक्षं कस्मादन्तरा क्षान्तं भवत्यन्तरेमे इति वा शरीरेष्वन्तरक्षयमिति वा (निरु॰२।१० ) (दृंह) दृढीकुरु करोति वा (ब्रह्मवनि) वेदं वनयति तम् (त्वा) त्वाम् (क्षत्रवनि) राज्यं वनयति तम् (सजातवनि) समाना जाता विद्याः समानं जातं राज्यं वा वनयति तम् (उपदधामि) धारयामि [(भ्रातृव्यस्य) द्विषतः शत्रोः (वधाय) नाशाय हननाय] (धर्त्रम्) धरति यत् येन वा। वायुर्वाव धर्त्रं चतुष्टोमः। स आभिश्चतसृभिर्दिग्भिः स्तुते तद्यत्तमाह धर्त्रमिति प्रतिष्ठा वै धर्त्रम्। वायुरु सर्वेषां भूतानां प्रतिष्ठा तदेव तद्रूपमुपदधाति स वै वायुमेव प्रथममुपदधाति वायुमुत्तमं वायुनैव तदेतानि सर्वाणि भूतान्युभयतः परिगृह्णाति (शत॰८।२।१।१६) अनेन प्रमाणेन धर्त्रशब्देन वायुरीश्वरश्च गृह्येते (असि) अस्ति वा (दिवम्) ज्ञानप्रकाशं सूर्य्यलोकं वा (दृंह) सम्यग्वर्धय, वर्धयति वा (ब्रह्मवनि) सर्वमनुष्यार्थं ब्रह्मणो वेदस्य विभाजितारम्। ब्रह्माण्डस्य मूर्त्तद्रव्यस्य प्रकाशकं वा (त्वा) त्वां तं वा (क्षत्रवनि) राजधर्मप्रकाशस्य विभाजितारं राजगुणानां दृष्टान्तेन प्रकाशयितारं वा (सजातवनि) समानान् जातान् वेदान् क्षत्रधर्मान् मूर्त्तान् जगत्स्थान् पदार्थान् वा वनयति प्रकाशयति तम् [(उपदधामि) धारयामि (भ्रातृव्यस्य) द्विषतः शत्रोः (वधाय) नाशाय हननाय वा] (विश्वाभ्यः) सर्वाभ्यः (त्वा) त्वां तं वा (आशाभ्यः) दिग्भ्यः। आशा इति दिङ्नामसु पठितम् (निघं॰१।६) (उपदधामि) उपदधाति वा सामीप्ये धारयामि तेन पुष्णामि वा (चितः) चेतयन्ति संजानन्ति ये ते चितः। अत्र वा शर्प्रकरणे खर्परे लोपो वक्तव्यः (अष्टा॰वा॰८.३.३६) इति वार्त्तिकेन विसर्जनीयलोपः (स्थ) भवथ भवन्ति वा (ऊर्ध्वचितः) ऊर्ध्वानुत्कृष्टगुणान् चेतयन्ति ते मनुष्याश्चितानि कपालानि वा (भृगूणाम्) भृज्जन्ति यैस्तेषाम् (अङ्गिरसाम्) प्राणानामङ्गाराणां वा। प्राणो वा अङ्गिराः (शत॰६।५।२।३) अङ्गारेष्वङ्गिरा अङ्गारा अङ्कना अञ्चनाः (निरु॰३।१७) (तपसा) धर्मविद्यानुऽष्ठानेन तापेन तेजसा वा (तप्यध्वम्) तपन्तु तापयत वा॥ अयं मन्त्रः (शत॰१।२।१।९-१३) व्याख्यातः॥१८॥
Essence
अत्र श्लेषालङ्कारः। ईश्वरेणेदमादिश्यते भवन्तो विद्वदुन्नतये मूर्खत्वविनाशाय सर्वशत्रूणां निवारणेन राज्यवर्धनाय च वेदविद्यां गृह्णीयुः। योऽग्नेर्वृद्धिहेतुः सर्वाधारको वायुरग्निमयः सूर्य्य ईश्वरश्च स्थ सन्ति, तान् सर्वासु दिक्षु विस्तृतान् व्यापकान् विदित्वा यज्ञसिद्धिं विमानादियानरचनं तानि चालयित्वा दुःखानि निवार्य्य शत्रून् विजयन्ताम्॥१८॥
Subject
पुनरग्निशब्देनोक्तावर्थावुपदिश्येते॥
Anvaya
हे अग्ने परमेश्वर! त्वं धरुणमसि कृपयाऽस्मत्प्रयुक्तं ब्रह्म गृभ्णीष्व तथाऽस्मास्वन्तरिक्षमक्षयं विज्ञानं दृंह वर्धय। अहं भ्रातृव्यस्य वधाय ब्रह्मवनि क्षत्रवनि सजातवनि त्वोपदधामि। हे सर्वधातर्जगदीश्वर! त्वं सर्वेषां लोकानां धर्त्रमसि कृपयाऽस्मासु दिवं ज्ञानप्रकाशं दृंह। अहं भ्रातृव्यस्य वधाय ब्रह्मवनि क्षत्रवनि सजातवनि त्वा त्वामुपदधामि। [त्वा] त्वां सर्वव्यापकं ज्ञात्वा विश्वाभ्य आशाभ्य उपदधामि। हे मनुष्या! यूयमप्यैवं विदित्वा चित [स्थ] ऊर्ध्वचितः कपालानि कृत्वा भृगूणामङ्गिरसां तपसा तप्यध्वं यथा तपन्तु तथा तापयतेत्येकः॥ हे विद्वन् [अग्ने] येनाग्निना धरुणं ब्रह्मान्तरिक्षं गृह्यते दृह्यते च [त्वा] तं त्वं होमार्थं शिल्पविद्यासिध्यर्थं च गृभ्णीष्व दृंह च। तथैवाहमपि भ्रातृव्यस्य वधाय तं ब्रह्मवनि क्षत्रवनि सजातवन्युपदधामि। एवं सोऽग्निर्धृतः (हितः) सन् सुखमुपदधाति। एवं यो वायुर्धर्त्रं सर्वलोकधारको(स्य)स्ति दिवं च दृंह दृंहति तमहं यथा भ्रातृव्यस्य वधाय ब्रह्मवनि क्षत्रवनि सजातवन्युपदधामि। तथैव त्वमप्येतं तस्मै प्रयोजनायोपदृंह। हे शिल्पविद्यां चिकीर्षो विद्वन्! येन वायुना पृथिवी द्यौः सूर्य्यलोकश्च धार्य्यते दृह्यते च तं त्वं जीवनार्थं शिल्पविद्यायै च धारय दृंह च ब्रह्मवनि इत्यादि पूर्ववत्। हे मनुष्या! यथाऽहं वायुविद्यावित् त्वा तमग्निं वायुं च विश्वाभ्य आशाभ्य उपदधामि तथैव यूयमप्युपधत्त। यज्ञार्थं शिल्पविद्यार्थंमुपरिरचित ऊर्ध्वचितः कपालानि कला धारितवन्तः सन्तो भृगूणामङ्गिरसां तपसा तप्यध्वम् तापयत च॥१८॥