Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 1 / Mantra 11

31 Mantra
1/11
Devata- अग्निर्देवता Rishi- परमेष्ठी प्रजापतिर्ऋषिः Chhand- स्वराट् जगती, Swara- निषादः
Mantra with Swara
भू॒ताय॑ त्वा॒ नारा॑तये॒ स्वरभि॒विख्ये॑षं॒ दृꣳह॑न्तां॒ दुर्याः॑ पृथि॒व्यामु॒र्वन्तरि॑क्ष॒मन्वे॑मि। पृ॒थि॒व्यास्त्वा॒ नाभौ॑ सादया॒म्यदि॑त्याऽउ॒पस्थेऽग्ने॑ ह॒व्यꣳ र॑क्ष॥११॥

भू॒ताय॑। त्वा॒। न। अरा॑तये। स्वः॑। अ॒भि॒विख्ये॑ष॒मित्य॑भि॒ऽविख्ये॑षम्। दृꣳह॑न्ताम्। दुर्य्याः॑। पृ॒थि॒व्याम्। उ॒रु। अ॒न्तरि॑क्षम्। अनु। ए॒मि॒। पृ॒थि॒व्याः। त्वा॒। नाभौ॑। सा॒द॒या॒मि॒। अदि॑त्याः। उ॒पस्थ॒ इत्यु॒पऽस्थे॑। अग्ने॑। ह॒व्यम् र॒क्ष॒ ॥११॥

Mantra without Swara
भूताय त्वा नारातये । स्वरभिवि ख्येषम् । दृँहन्तां दुर्याः पृथिव्याम् । उर्वन्तरिक्षमन्वेमि । पृथिव्यास्त्वा नाभौ सादयाम्यदित्या उपस्थे ग्ने हव्यँ रक्ष ॥

भूताय। त्वा। न। अरातये। स्वः। अभिविख्येषमित्यभिऽविख्येषम्। दृꣳहन्ताम्। दुर्य्याः। पृथिव्याम्। उरु। अन्तरिक्षम्। अनु। एमि। पृथिव्याः। त्वा। नाभौ। सादयामि। अदित्याः। उपस्थ इत्युपऽस्थे। अग्ने। हव्यम् रक्ष॥११॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(भूताय) उत्पन्नानां प्राणिनां सुखाय (त्वा) तं कृषिशिल्पादिसाधिनम् (न) निषेधार्थे (अरातये) रातिर्दानं न विद्यते यस्मिन् तस्मै शत्रवे बहुदानकरणार्थं दारिद्र्यविनाशाय वा (स्वः) सुखमुदकं वा। स्वरिति सुखनामसु पठितम् (निघं॰३।६॥ उदकनामसु च ॥१।१२) (अभिविख्येषम्) अभितः सर्वतो विविधं पश्येयम्। अत्राभिव्योरुपपदे ‘चक्षिङ्’ इत्यस्याशीर्लिङ्यार्धधातुकसंज्ञामाश्रित्य ‘ख्याञ्’ आदेशः। ‘लिङ्याशिष्यङ्’ [अष्टा॰३.१.८६] इत्यङ् सार्वधातुकसंज्ञामाश्रित्य च या इत्यस्य इय् आदेशः। सकारलोपाभाव इति (दृꣳहन्ताम्) दृंहन्तां वर्धयन्ताम्। अत्रान्तर्गतो ण्यर्थः (दुर्य्याः) गृहाणि। दुर्य्या इति गृहनामसु पठितम्। (निघं॰३।४) (पृथिव्याम्) विस्तृतायां भूमौ (उरु) बहु (अन्तरिक्षम्) अवकाशं सुखेन निवासार्थम् (अनु) क्रियार्थे (एमि) प्राप्नोमि (पृथिव्याः) शुद्धाया विस्तृताया भूमेः (त्वा) तं पूर्वोक्तं यज्ञम् (नाभौ) मध्ये (सादयामि) स्थापयामि (अदित्याः) विज्ञानदीप्तेर्वेदवाचः सकाशादन्तरिक्षे मेघमण्डलस्य मध्ये अदितिर्द्यौरदितिरन्तरिक्षमिति मन्त्रप्रामाण्यात्। (ऋ॰१।८९।१०) अदितिरिति वाङ्नामसु पठितम् (निघं॰१।११) पदनामसु च। (निघं॰४।१) (उपस्थे) समीपे (अग्ने) परमेश्वर! (हव्यम्) दातुं ग्रहीतुं योग्यं क्रियाकौशलं सुखं वा (रक्ष) पालय॥ अयं मन्त्रः (शत॰१।१।२।२०-२३) व्याख्यातः॥११॥
Essence
अत्र श्लेषालङ्कारः। ईश्वरेण मनुष्य आज्ञाप्यते। हे मनुष्य! अहं त्वां सर्वेषां भूतानां सुखदानाय पृथिव्यां रक्षयामि त्वया वेदविद्याधर्मानुष्ठानयुक्तेन पुरुषार्थेन सुन्दराणि सर्वर्तुसुखयुक्तानि सर्वतो विशालावकाशसहितानि गृहाणि रचयित्वा सुखं प्रापणीयम्। तथा मत्सृष्टौ यावन्तः पदार्थाः सन्ति तेषां सम्यग्गुणान्वेषणं कृत्वाऽनेकविद्याः प्रत्यक्षीकृत्य तासां रक्षणं प्रचारश्च सदैव संभावनीयः। मनुष्येणात्रैवं मन्तव्यं सर्वत्राभिव्यापकं सर्वसाक्षिणं सर्वमित्रं सर्वसुखवर्धकमुपासितुमर्हं सर्वशक्तिमन्तं परमेश्वरं ज्ञात्वा सर्वोपकारो विविधविद्यावृद्धिधर्मोपस्थानमधर्माद् दूरे स्थितिः क्रियाकौशलसंपादनं यज्ञक्रियानुष्ठानं च कर्त्तव्यमिति॥ अत्र महीधरेण भ्रान्त्या अभिविख्येषमिति पदं ‘ख्या प्रकथने’ इत्यस्य दर्शनार्थे गृहीतं तत् धात्वर्थादेव विरुद्धम्॥११॥
Subject
यज्ञशालादिगृहाणि कीदृशानि रचनीयानीत्युपदिश्यते॥
Anvaya
अहं यं भूतायारातयेऽदानायादित्या उपस्थे यज्ञं सादयामि [त्वा] तं कदाचिन्न त्यजामि। हे विद्वांसो! भवन्तः पृथिव्यां दुर्य्या दृंहन्तां वर्धयन्ताम्। अहं पृथिव्या नाभौ मध्ये येषु गृहेषु स्वरभिविख्येषं यस्यां पृथिव्यामुर्वन्तरिक्षं चान्वेमि। हे अग्ने जगदीश्वर! त्वमस्माकं हव्यं सर्वदा रक्षेत्येकोऽन्वयः॥११॥ हे अग्ने परमेश्वर! अहं भूतायारातये पृथिव्या नाभौ ईश्वरत्वोपास्यत्वाभ्यां स्वः सुखरूपं त्वामभिविख्येषम्। प्रकाशयामि भवत्कृपयेमेऽस्माकं दुर्य्या गृहादयः पदार्थास्तत्रस्था मनुष्यादयः प्राणिनो दृंहन्तां नित्यं वर्धन्ताम्। अहं पृथिव्यामुर्वन्तरिक्षं व्यापकमदित्या उपस्थे व्यापकं त्वा त्वामन्वेमि नित्यं प्राप्नोमि [न सादयामि] न कदाचित् त्वा त्वां त्यजामि त्वमिममस्माकं हव्यं सर्वदा रक्ष॥ इति द्वितीयः॥११॥ अहं शिल्पविद्यजमानो भूतायारातये पृथिव्या नाभौ त्वा [अग्ने] तमग्निं होमार्थं शिल्पविद्यार्थं च सादयामि। यतोऽयमग्निरदित्या अन्तरिक्षस्योपस्थे हुतं हव्यं द्रव्यं [रक्ष] रक्षति, तस्मात्तं पृथिव्यां स्थापयित्वोर्वन्तरिक्षमन्वेमि। अत एव त्वा तं पृथिव्यां सादयामि। एवं कुर्वन्नहं स्वरभिविख्येषम्। तथैवेमे दुर्य्याः प्रासादास्तत्स्था मनुष्याश्च दृंहन्तां शुभगुणैवर्धन्तामिति मत्वा तमिममग्निं कदाचिन्नाहं त्यजामि॥ इति तृतीयोऽन्वयः॥११॥