Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 9 / Mantra 9

38 Mantra
9/9
Devata- वीरो देवता Rishi- बृहस्पतिर्ऋषिः Chhand- धृति Swara- ऋषभः
Mantra with Swara
ज॒वो यस्ते॑ वाजि॒न्निहि॑तो॒ गुहा॒ यः श्ये॒ने परी॑त्तो॒ऽअच॑रच्च॒ वाते॑। तेन॑ नो वाजि॒न् बल॑वा॒न् बले॑न वाज॒जिच्च॒ भव॒ सम॑ने च पारयि॒ष्णुः। वाजि॑नो वाजजितो॒ वाज॑ꣳ सरि॒ष्यन्तो॒ बृह॒स्पते॑र्भा॒गमव॑जिघ्रत॥९॥

ज॒वः। यः। ते॒। वा॒जि॒न्। निहि॑त॒ इति॑ निऽहि॑तः। गुहा॑। यः। श्ये॒ने। परी॑त्तः। अच॑रत्। च॒। वाते॑। ते॑न। नः॒। वा॒जि॒न्। बल॑वा॒निति॒ बल॑ऽवान्। बले॑न। वा॒ज॒जिदिति॑ वाज॒ऽजित्। च॒। भव॑। सम॑ने। च॒। पा॒र॒यि॒ष्णुः। वाजि॑नः। वा॒ज॒जि॒त इति॑ वाजऽजितः। वाज॑म्। स॒रि॒ष्यन्तः॑। बृह॒स्पतेः॑। भा॒गम्। अव॑। जि॒घ्र॒त॒ ॥९॥

Mantra without Swara
जवो यस्ते वाजिन्निहितो गुहा यः श्येने परीत्तो अचरच्च वाते । तेन नो वाजिन्बलवान्बलेन वाजजिच्च भव समने च पारयिष्णुः । वाजिनो वाजजितो वाजँ सरिष्यन्तो बृहस्पतेर्भागमव जिघ्रत ॥

जवः। यः। ते। वाजिन्। निहित इति निऽहितः। गुहा। यः। श्येने। परीत्तः। अचरत्। च। वाते। तेन। नः। वाजिन्। बलवानिति बलऽवान्। बलेन। वाजजिदिति वाजऽजित्। च। भव। समने। च। पारयिष्णुः। वाजिनः। वाजजित इति वाजऽजितः। वाजम्। सरिष्यन्तः। बृहस्पतेः। भागम्। अव। जिघ्रत॥९॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(जव:) वेगः (यः) (ते) तव (वाजिन्) प्रशस्तशास्त्रयोगाभ्यासकृत्यसहित (निहितः) स्थितः (गुहा) गुहायां=बुद्धौ (यः) वेगः (श्येने) पक्षिणीव (परीत्तः) सर्वतो दत्तः (अचरत्) चरति (च) (वाते) वायाविव (तेन) (नः) अस्माकम् (वाजिन्) वेगवन् (बलवान्) बहुबलयुक्तः (बलेन) सैन्येन पराक्रमेण वा (वाजजित्) संग्रामं विजयमानः (च) (भव) (समने) संग्रामे (च) (पारयिष्णु:) दुःखात्पारयिता (वाजिनः) प्रशस्तवेगयुक्ताः (वाजजितः) संग्रामं जयन्तः (वाजम्) बोधमन्नादिकं वा (सरिष्यन्तः) प्राप्स्यन्तः (बृहस्पतेः) महतां वीराणां पालयितुः सेनाध्यक्षस्य (भागम्) सेवनम् (अव) अधोऽर्थे (जिघ्रत) सुगन्धान बोधान् वा गृह्णीत ॥ अयं मन्त्रः शत० ५ । १ । ४ । १० व्याख्यातः ॥ ९ ॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः ॥ राजा पूर्णं शरीरात्मबलं संप्राप्य श्येनवद्वायुवच्छत्रुविजये यशस्वी भूत्वा स्वामात्यान् सेनास्थान् सर्वान् भृत्याँश्च सुशिक्षितान् बलसुखयुक्तान् धार्मिकान् सततं रक्षेत्,
[हे वाजिन् !.......वाजजिच्च भव, हे वाजिनः ! यूयं बृहस्पतेः [भागं]=सेवनं प्राप्य...... [वाजजित:] भवत]
सर्वे राजप्रजाजनाः शत्रुन् विजित्य परस्परं प्रीणन्तु ॥९।९॥
Subject
पुनः स राजा कीदृशो भवेदित्याह ।।
Meaning of Anvay
हे वाजिन् ! वेगवन्सेनाध्यक्ष राजन् ! ते=तव यो जवः वेगः गुहा गुहायां=बुद्धौ निहितः स्थितः यः श्येने पक्षिणिइव परीत्तः सर्वतो दत्तः वाते वायौ इवाचरत् चरति च तेन नः अस्माकं बलेन सैन्येन पराक्रमेण वा बलवान् बहुबलयुक्तः भव।
हे वाजिन् ! वेगवन् ! तेन च समने सङ्ग्रामे पारयिष्णुः दुःखात् पारयिता वाजजित् संग्रामं विजयमानः च भव।
हे वाजिनः=योद्धारः प्रशस्तवेगयुक्ताः!यूयं बृहस्पतेः महतां वीराणां पालयितुः सेनाध्यक्षस्य [भागम्]=सेवनं प्राप्य वाजं बोधमन्नादिकं वा सरिष्यन्तः प्राप्स्यन्तः सन्तः [वाजजितः] संग्रामं जयन्तः भवत । सुगन्धानवजिघ्रत सुगन्धान् बोधान् वा गृह्णीत ॥ ९।९ ॥
[हे वाजिन्=सेनाध्यक्ष राजन् ! ते=तव यो जव:........श्येने इव परीत्तो वाते इवाचरच्च ते नो बलेन बलवान् भव]
Special
बृहस्पतिः । वीरः=बलवान् राजा ॥ धृतिः । ऋषभः ।।