Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 9 / Mantra 8

38 Mantra
9/8
Devata- प्रजापतिर्देवता Rishi- बृहस्पतिर्ऋषिः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
वात॑रꣳहा भव वाजिन् यु॒ज्यमा॑न॒ऽइन्द्र॑स्येव॒ दक्षि॑णः श्रि॒यैधि॑। यु॒ञ्जन्तु॑ त्वा म॒रुतो॑ वि॒श्ववे॑दस॒ऽआ ते॒ त्वष्टा॑ प॒त्सु ज॒वं द॑धातु॥८॥

वात॑रꣳहा॒ इति वात॑ऽरꣳहाः। भ॒व॒। वाजि॑न्। युज्यमा॑नः। इन्द्र॑स्ये॒वेतीन्द्र॑स्यऽइव। दक्षि॑णः। श्रि॒या। ए॒धि॒। यु॒ञ्जन्तु॑। त्वा॒। म॒रुतः॑। वि॒श्ववे॑दस॒ इति॑ वि॒श्वऽवे॑दसः। आ। ते॒। त्वष्टा॑। प॒त्स्विति॑ प॒त्ऽसु। ज॒वम्। द॒धा॒तु॒ ॥८॥

Mantra without Swara
वातरँहा भव वाजिन्युज्यमान इन्द्रस्येव दक्षिणः श्रियैधि । युञ्जन्तु त्वा मरुतो विश्ववेदस आ ते त्वष्टा पत्सु जवन्दधातु ॥

वातरꣳहा इति वातऽरꣳहाः। भव। वाजिन्। युज्यमानः। इन्द्रस्येवेतीन्द्रस्यऽइव। दक्षिणः। श्रिया। एधि। युञ्जन्तु। त्वा। मरुतः। विश्ववेदस इति विश्वऽवेदसः। आ। ते। त्वष्टा। पत्स्विति पत्ऽसु। जवम्। दधातु॥८॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(वातरंहाः) वायुवद्रंहो=वेगो यस्य सः (भव) ( वाजिन्) शास्त्रोक्त क्रियाकुशलताबोधयुक्त (युज्यमानः) समाहितः सन् (इन्द्रस्येव) यथा परमैश्वर्य्ययुक्तस्य राज्ञः (दक्षिणः) दक्षः=प्रशस्तं बलं गतिर्विद्यते यस्य तस्य (श्रिया) शोभायुक्त्या राज्यलक्ष्म्या देदीप्यमानया राज्ञा वा (एधि) वृद्धो भव (युञ्जन्तु) प्रेरताम् (त्या) त्वाम् (मरुतः) विद्वांसो मनुष्याः (विश्ववेदसः) सकलविद्यावेत्तारः (आ) (ते) तव (त्वष्टा) वेगादिगुणविद्यावित् (पत्सु) पादेषु (जवम्) वेगम् (दधातु) ।। अयं मन्त्रः शत० ५ । १।४। ९ व्याख्यातः ॥ ८॥
Essence
अत्रोपमालङ्कारः ॥ हे राजस्त्रीपुरुषा: ! यूयं निरभिमामिनो निर्मत्सरा भूत्वा, विद्वत्संगेन राज्यधर्मं पालयित्वा, विमानादियानेषु स्थित्वा, ऽभीष्टदेशेषु गत्वा, नित्यं जितेन्द्रियाः सन्तः प्रजाः सततं प्रसाद्य, श्रीमन्तो भवत ॥९। ८॥
Subject
तं राजानं विद्वांसः किं किमुपदिशेयुरित्याह ।।
Meaning of Anvay
हे वाजिन् ! शास्त्रोक्तक्रियाकुशलताबोधयुक्त!यं त्वा त्वां विश्ववेदसः सकलविद्यावेत्तारः मरुतः विद्वांसो मनुष्याः राज्यशिल्पकार्य्येषु युञ्जन्तु प्रेरताम्, त्वष्टा वेगादिगुणविद्यावित् ते=तव पत्सु पादेषु जवं वेगम् आदधातु, स त्वं वातरंहाः वायुवद्रंहः=वेगो यस्य सः भव । युज्यमानः समाहितः सन् त्वं दक्षिणः दक्ष:=प्रशस्तं बलं, गतिर्विद्यते यस्यतस्य इन्द्रस्य यथा परमैश्वर्य्ययुक्तस्य राज्ञः इव श्रिया शोभायुक्त्या राज्यलक्ष्म्या देदीप्यमानया राज्यािण या सहैधि वृद्धो भव ॥९। ८ ॥
[हे वाजिन् !.......त्वा विश्ववेदसो मरुतो राज्यशिल्पकार्येषुयुञ्जन्ति, त्वष्टा ते=तव पत्सु जवमादधतु,युज्यमानस्त्वं.... श्रिया सहैधि]
Special
बृहस्पतिः । प्रजापतिः=राजा। भुरिक् त्रिष्टुप् । धैवतः ॥