Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 9 / Mantra 7

38 Mantra
9/7
Devata- सेनापतिर्देवता Rishi- बृहस्पतिर्ऋषिः Chhand- उष्णिक् Swara- ऋषभः
Mantra with Swara
वातो॑ वा॒ मनो॑ वा गन्ध॒र्वाः स॒प्तवि॑ꣳशतिः। तेऽअग्रेऽश्व॑मयुञ्जँ॒स्तेऽअ॑स्मिन् ज॒वमाद॑धुः॥७॥

वातः॑। वा॒। मनः॑। वा॒। ग॒न्ध॒र्वाः। स॒प्तवि॑ꣳशति॒रिति॑ स॒प्तऽवि॑ꣳशतिः। ते। अग्रे॑। अश्व॑म्। अ॒यु॒ञ्ज॒न्। ते। अ॒स्मि॒न्। ज॒वम्। आ। अ॒द॒धुः॒ ॥७॥

Mantra without Swara
वातो वा मनो वा गन्धर्वाः सप्तविँशतिः । ते अग्रे श्वमयुञ्जँस्ते ऽअस्मिञ्जवमादधुः ॥

वातः। वा। मनः। वा। गन्धर्वाः। सप्तविꣳशतिरिति सप्तऽविꣳशतिः। ते। अग्रे। अश्वम्। अयुञ्जन्। ते। अस्मिन्। जवम्। आ। अदधुः॥७॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(वातः) वायुः (वा) इव (मनः) स्वान्तम् (वा) इव (गंधर्वाः) ये वायव इन्द्रियाणि च धरन्ति त (सप्तविंशतिः) एतत्संख्याकाः (ते) (अग्रे) (अश्वम्) व्यापकत्ववेगादिगुणसमूहम (अयुञ्जन्) युञ्जन्ति (ते) (अस्मिन्) जगति (जवम्) वेगम् (आ) (अदधुः) । अयं मन्त्रः शत० ५।१।४।८ व्याख्यातः ॥ ७॥
Essence
यान्येकः समष्टिर्वायु: प्राणाऽपानव्यानोदानसमाननागकूर्मकृकलदेवदत्तधनंजया दश, द्वादशं मनस्तत्सहचरितानि श्रोत्रादीनि दशेन्द्रियाणि, पञ्च सूक्ष्मभूतानि च मिलित्वा सप्तविंशतिः पूर्वमीश्वरेणास्मिन् जगति वेगवन्ति निर्मितानि ।
य एतानि यथागुणकर्मस्वभावं विज्ञाय यथायोग्यं कार्येषु संप्रयुज्य स्वस्त्रीभिरेव साकं रमन्ते तेऽखिलमैश्वर्यं जनयित्वा राज्यं कर्तुमर्हन्ति ।। ९ । ७ ।।
Subject
मनुष्याः कथं किं कृत्वा वेगवन्तो भवेयुरित्याह ॥
Meaning of Anvay
ये विद्वांसो वातः वायुः वा इव मनः स्वान्तं वा इव यथा सप्तविंशतिः एतत्संख्याकाः गन्धर्वाः ये वायव इन्द्रियाणि च धरन्ति ते [ते] अस्मिन् जगत्यग्रे ऽश्वं व्यापकत्व-वेगादिगुणसमूहम् अयुञ्जन् युञ्जन्ति ते खलुजवं वेगम् आदधुः ।। ९ । ७ ।।
[ये विद्वांसो वातो मनो वा यथा खलु सप्तविशतिर्गन्धर्वा: [ते] अस्मिन् जगत्यग्रेऽश्वम युञ्जन्, ते खलु जवमादधुः]
Meaning of Essence
वातः=समष्टिर्वायुः।
Special
बृहस्पतिः । सेनापतिः=स्पष्टम् । भुरिगुष्णिक् । ऋषभः ॥