Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 9 / Mantra 5

38 Mantra
9/5
Devata- सविता देवता Rishi- बृहस्पतिर्ऋषिः Chhand- भूरिक अष्टि, Swara- मध्यमः
Mantra with Swara
इन्द्र॑स्य॒ वज्रो॑ऽसि वाज॒सास्त्वया॒यं वाज॑ꣳ सेत्। वाज॑स्य॒ नु प्र॑स॒वे मा॒तरं॑ म॒हीमदि॑तिं॒ नाम॒ वच॑सा करामहे। यस्या॑मि॒दं विश्वं॒ भुव॑नमावि॒वेश॒ तस्यां॑ नो दे॒वः स॑वि॒ता धर्म॑ साविषत्॥५॥

इन्द्र॑स्य। वज्रः॑। अ॒सि॒। वा॒ज॒सा इति॑ वाज॒ऽसाः। त्वया॑। अ॒यम्। वाज॑म्। से॒त्। वाज॑स्य। नु। प्र॒स॒व इति॑ प्रऽस॒वे। मा॒तर॑म्। म॒हीम्। अदि॑तिम्। नाम॑। वचसा॑। क॒रा॒म॒हे॒। यस्या॑म्। इ॒दम्। विश्व॑म्। भुव॑नम्। आ॒वि॒वेशत्या॑ऽवि॒वेश॑। तस्या॑म्। नः॒। दे॒वः। स॒वि॒ता। धर्म॑। सा॒वि॒ष॒त् ॥५॥

Mantra without Swara
इन्द्रस्य वज्रोसि वाजसास्त्वयायँ सेत् । वाजस्य नु प्रसवे मातरम्महीमदितिन्नाम वचसा करामहे । यस्यामिदँ विश्वं भुवनमाविवेश तस्यान्नो देवः सविता धर्म साविषत् ॥

इन्द्रस्य। वज्रः। असि। वाजसा इति वाजऽसाः। त्वया। अयम्। वाजम्। सेत्। वाजस्य। नु। प्रसव इति प्रऽसवे। मातरम्। महीम्। अदितिम्। नाम। वचसा। करामहे। यस्याम्। इदम्। विश्वम्। भुवनम्। आविवेशत्याऽविवेश। तस्याम्। नः। देवः। सविता। धर्म। साविषत्॥५॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(इन्द्रस्य) परमैश्वर्य्ययुक्तस्य राज्ञः पुरुषः (वज्रः) वज्र इव शत्रुच्छेदकः (असि) भवसि ( वाजसाः) यो वाजान्=संग्रामान् विभजति सः (त्वया) रक्षकेण सेनापतिना सह (अयम्) जनः (वाजम्) संग्रामम् (सेत्) सिनुयात् । अत्र सिञ् बन्धन इत्यस्माल्लङि विकरणलुगडभावश्च (वाजस्य) संग्रामस्य(नु) क्षिप्रम् (प्रसवे) ऐश्वर्य्ये (मातरम्) मान्यप्रदाम् (महीम् ) पृथिवीम् (अदितिम्) अखण्डिताम् (नाम) प्रसिद्धौ (वचसा) वेदोक्तन्यायोपदेशकवचनेन (करामहे) कुर्य्याम । अत्र लेटि व्यत्ययेन शप् अथवा भ्वानिर्मन्तव्यः (यस्याम्) पृथिव्याम् (इदम्) प्रत्ययालम्बनम् (विश्वम्) सर्वम् (भुवनम्) जगत् (आविवेश) आविष्टमस्ति (तस्याम्) (नः) अस्माकम् (देव:) सर्वप्रकाशकः (सविता) सकलजगदुत्पादक: (धर्म) धारणम् (साविषत्) सवेत् । अत्र सिब्बहुलं णिद् ॥ अ० ३ । १ । ३४ भा० वा० ॥ इति सिपि वृद्धिः ॥ अयं मन्त्रः शत० ५ । १ । ४ । ३-४ व्याख्यातः ॥ ५ ॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः ॥ हे मनुष्याः ! येयं भूमिर्भूतानां सौभाग्यजननी, मातृवत्पालिकाऽऽधारभूता प्रसिद्धास्ति, तां विद्यान्यायधर्मयोगेन राज्याय यूयं सेवध्वम् ॥ ९ । ५ ॥
Subject
अथ किमर्थः सेनापतिरत्र प्रार्थनीय इत्याह ॥
Meaning of Anvay
हे वीर ! यस्यां पृथिव्यां त्वमिन्द्रस्य परमैश्वर्ययुक्तस्य राज्ञः पुरुषः [तस्य] वाजसाः यो वाजान्=संग्रामान् विभजति सः वज्रः वज्र इव शत्रुच्छेदकः असि भवसि,तेन त्वया रक्षकेण सेनापतिना सहाऽयं जनः वाजं संग्रामंसेत् सिनुयात्, --
यत्रेदं प्रत्ययालम्बनं विश्वं सर्वंभुवनं जगत् आविवेशआविष्टमस्ति, यत्र देवः सर्वप्रकाशक: सविता सकलजगदुत्पादकः नः अस्माकं धर्मं धारणंसाविषत् सवेत्,तस्यां नाम प्रसिद्धौ वाजस्य संग्रामस्य प्रसवे ऐश्वर्ये मातरं मान्यप्रदाम् अदितिम् अखण्डितां महीं पृथिवीं वचसा वेदोक्तन्यायोपदेशकवचनेन नु क्षिप्रंकरामहे कुर्य्याम ॥ ९।५ ॥
[वाजस्य प्रसवे मातरमदितिं महीं वचसा नु करामहे]
Special
बृहस्पतिः । सविता=सकलजगदुत्पाकईश्वरः।। भुरिगष्टिः । मध्यमः ॥