Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 9 / Mantra 40

38 Mantra
9/40
Devata- यजमानो देवता Rishi- देवावत ऋषिः Chhand- स्वराट ब्राह्मी त्रिष्टुप्, Swara- धैवतः
Mantra with Swara
इ॒मं दे॑वाऽअस॒पत्नꣳ सु॑वध्वं मह॒ते क्ष॒त्राय॑ मह॒ते ज्यैष्ठ्या॑य मह॒ते जान॑राज्या॒येन्द्र॑स्येन्द्रि॒याय॑। इ॒मम॒मुष्य॑ पु॒त्रम॒मुष्यै॑ पु॒त्रम॒स्यै वि॒शऽए॒ष वो॑ऽमी॒ राजा॒ सोमो॒ऽस्माकं॑ ब्राह्म॒णाना॒ राजा॑॥४०॥

इ॒मम्। दे॒वाः॒। अ॒स॒प॒त्नम्। सु॒व॒ध्व॒म्। म॒ह॒ते। क्ष॒त्राय॑। म॒ह॒ते। ज्यैष्ठ्या॑य। म॒ह॒ते। जान॑राज्या॒येति॒ जान॑ऽराज्याय। इन्द्र॑स्य। इ॒न्द्रि॒याय॑। इ॒मम्। अ॒मुष्य॑। पु॒त्रम्। अ॒मुष्यै॑। पु॒त्रम्। अ॒स्यै। वि॒शे। ए॒षः। वः॒। अ॒मी॒ऽइत्य॑मी। राजा॑। सोमः॑। अ॒स्माक॑म्। ब्रा॒ह्म॒णाना॑म्। राजा॑ ॥४०॥

Mantra without Swara
इमन्देवा ऽअसुपत्नँ सुवध्वम्महते क्षत्राय महते ज्यैष्ठ्याय महते जानराज्यायेन्द्रय । इमममुष्य पुत्रममुष्यै पुत्रमस्यै विशऽएष वोमी राजा सोमो स्माकम्ब्राह्मणानाँ राजा ॥

इमम्। देवाः। असपत्नम्। सुवध्वम्। महते। क्षत्राय। महते। ज्यैष्ठ्याय। महते। जानराज्यायेति जानऽराज्याय। इन्द्रस्य। इन्द्रियाय। इमम्। अमुष्य। पुत्रम्। अमुष्यै। पुत्रम्। अस्यै। विशे। एषः। वः। अमीऽइत्यमी। राजा। सोमः। अस्माकम्। ब्राह्मणानाम्। राजा॥४०॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(इमम्) समक्षे वर्तमानम् (देवाः) धार्मिका विद्वांसः (असपत्नम्) अजातशत्रुम् (सुवध्वम्) दिष्पादयत (महते) महागुणविशिष्टाय (क्षत्राय) क्षत्रियाणां पालनाय (सहते) (ज्यैष्ठ्याय) ज्येष्ठत्वाय (महते) (जानराज्याय) जनानां राजसु भवाय (इन्द्रस्य) परमैश्वर्ययुक्तस्य पुरुषस्य (इन्द्रियाय)धनाय (इमम्) (अमुष्यपुत्रम्) प्रतिष्ठितस्य धार्मिकस्य विदुषः सन्तानम् (अमुष्यै) अमुष्या धार्मिकाया विदुष्या: (पुत्रम्) पवित्रमपत्यम् (अस्यै) वर्त्तमानायाः (विशे) प्रजायाः (एषः) सर्वैः स्वीकृतः (वः) युष्माकं क्षत्रियादीनाम् (अमी) परोक्षे वर्त्तमाना: (राजा) न्यायप्रकाशक: (सोमः) सोम इव प्रजासु वर्त्तमान: (अस्माकम्) (ब्राह्मणानाम्) ब्रह्मणः=परमेश्वरस्य वेदचतुष्टयस्य वा सेवकानाम् (राजा) ॥ अयं मन्त्रः शत० ५ । ३ । ३ । ११ व्याख्यातः ॥ ४०॥
Essence
हे राजप्रजाजनाः! यो विद्वद्भ्यां मातापितृभ्यां सुशिक्षितः, कुलीनो, महागुणकर्मस्वभावो, जितेन्द्रियतादिगुणयुक्तः, सेविताऽष्टाचत्वारिंशद्वर्षब्रह्मचर्यविद्यासुशिक्षः, पूर्णशरीरात्मबलः, प्रजापालनप्रियो विद्वानस्ति तं सभाध्यक्षं राजानं कृत्वा साम्राज्यं सेवध्वम् ॥ ९। ४० ॥
Subject
कस्मै कस्मै प्रयोजनाय कथंभूतो राजा स्वीकार्य इत्याह ।।
Meaning of Anvay
हे प्रजास्था देवाः धार्मिका विद्वांसः ! यूयं एषः सर्वैः स्वीकृतः सोमः सोम इव प्रजासु वर्त्तमानः वः युष्माकं क्षत्रियादीनाम् अस्माकं च ब्राह्मणानां ब्राह्मणः=परमेश्वरस्य वेदचतुष्टय्यस्य वा सेवकानां राजा न्यायप्रकाशकः, येऽमी परोक्षे वर्त्तन्ते परोक्षे वर्त्तमानाः तेषाञ्च राजाऽस्ति, तमिमं समक्षे वर्त्तमानम् अमुष्य पुत्रं प्रतिष्ठितस्य धार्मिकस्य विदुषः सन्तानम् अमुष्यै अमुष्या धार्मिकाया विदुष्याः पुत्रं पवित्रमपत्यम्,अस्यै वर्त्तमानाया: विशे प्रजाया:,इममेव महते महागुणविशिष्टाय क्षत्राय क्षत्रियाणां पालनाय, महते महागुणविशिष्टाय ज्यैष्ठ्याय ज्येष्ठत्वाय, महते महागुणविशिष्टाय जानराज्याय जनानां राजसु भवाय, इन्द्रस्य परमैश्वर्ययुक्तस्य पुरुषस्य इन्द्रियाय धनाय, असपत्नम् अजातशत्रुं सुवध्वं निष्पादयत ।। ९ । ४० ।।
[हे प्रजास्था देवाः! यूयं य एष सोमो वोऽस्माकं च ब्राह्मणानां राजा.......अस्ति, तमिममुष्य पुत्रममुष्यै पुत्रं महते क्षत्राय, ज्यैष्ठ्याय, जानराज्यायेन्द्रस्येन्द्रियायासपत्न सुवध्वम्]
Special
देववातः । यजमान:=¬ स्पष्टम्।। भुरिग् ब्राह्मी त्रिष्टुप्। धैवतः ॥
[पूर्वापराध्यायार्थसंगतिमाह]
अस्मिन्नध्याये राजधर्मवर्णनादेतदर्थस्य पूर्वाध्यायार्थेन सह सङ्गतिरस्तीति जानन्तु ॥ ९॥
इति श्रीयुतपण्डितसुदर्शनदेवाचार्यविरचिते दयानन्द-यजुर्वेदभाष्य-भास्करे नवमोऽध्यायः सम्पूर्णः ॥