Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 9 / Mantra 4

38 Mantra
9/4
Devata- राजधर्मराजादयो देवताः Rishi- बृहस्पतिर्ऋषिः Chhand- भूरिक कृति, Swara- निषादः
Mantra with Swara
ग्रहा॑ऽऊर्जाहुतयो॒ व्यन्तो॒ विप्रा॑य म॒तिम्। तेषां॒ विशि॑प्रियाणां वो॒ऽहमिष॒मूर्ज॒ꣳ सम॑ग्रभमुपया॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वा॒ जुष्ट॑तमम्। स॒म्पृचौ॑ स्थः॒ सं मा॑ भ॒द्रेण॑ पृङ्क्तं वि॒पृचौ॑ स्थो॒ वि मा॑ पा॒प्मना॑ पृङ्क्तम्॥४॥

ग्रहाः॑। ऊ॒र्जा॒हु॒त॒य॒ इत्यू॑र्जाऽआहुतयः। व्यन्तः॑। विप्रा॑य। म॒तिम्। तेषा॑म्। विशि॑प्रियाणा॒मिति॒ विऽशि॑प्रियाणाम्। वः॒। अ॒हम्। इष॑म्। ऊर्ज॑म्। सम्। अ॒ग्र॒भ॒म्। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। इन्द्रा॑य। त्वा॒। जुष्ट॑म्। गृ॒ह्णा॒मि॒। ए॒षः। ते॒। योनिः॑। इन्द्रा॑य। त्वा॒। जुष्ट॑तम॒मिति॒ जुष्ट॑ऽतमम्। स॒म्पृचा॒विति॑ स॒म्ऽपृचौ॑। स्थः॒। सम्। मा॒। भ॒द्रेण॑। पृ॒ङ्क्त॒म्। वि॒पृचा॒विति॑ वि॒ऽपृचौ॑। स्थः॒। वि। मा॒। पा॒प्मना॑। पृ॒ङ्क्त॒म् ॥४॥

Mantra without Swara
ग्रहा ऽऊर्जाहुतयो व्यन्तो विप्राय मतिम् । तेषाँविशिप्रियाणाँवो हमिषमूर्जँ समग्रभमुपयामगृहीतो सीन्द्राय त्वा जुष्टङ्गृह्णाम्येष ते योनिरिन्द्राय त्वा जुष्टतमम् । सम्पृचौ स्थः सम्मा भद्रेण पृङ्क्तँविपृचौ स्थो वि मा पाप्मना पृङ्क्तम् ॥

ग्रहाः। ऊर्जाहुतय इत्यूर्जाऽआहुतयः। व्यन्तः। विप्राय। मतिम्। तेषाम्। विशिप्रियाणामिति विऽशिप्रियाणाम्। वः। अहम्। इषम्। ऊर्जम्। सम्। अग्रभम्। उपयामगृहीत इत्युपयामऽगृहीतः। असि। इन्द्राय। त्वा। जुष्टम्। गृह्णामि। एषः। ते। योनिः। इन्द्राय। त्वा। जुष्टतममिति जुष्टऽतमम्। सम्पृचाविति सम्ऽपृचौ। स्थः। सम्। मा। भद्रेण। पृङ्क्तम्। विपृचाविति विऽपृचौ। स्थः। वि। मा। पाप्मना। पृङ्क्तम्॥४॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(ग्रहाः) ग्रहीतारो=गृहाश्रमिणः (ऊर्जाहुतयः) ऊर्जा=बलप्राणनकारिका आहुतयो=ग्रहणानि दानानि वा येषां ते (व्यन्तः) वेदविद्यासु व्याप्नुवन्तः (विप्राय) मेधाविने (मतिम्) बुद्धिम् (तेषाम्) (विशिप्रियाणाम्) विविधे धर्म्मे कर्मणि हनुनासिके येषाम् । शिप्रे हनुनासिके वा ॥ निरु० ६ । १ । ७ ॥ (व:) युष्मभ्यम् (अहम् ) गृहस्थी राजा (इषम्) अन्नम् (ऊर्जम्) पराक्रमम् (सम्) (अग्रभम् ) गृहीतवानस्मि (उपयामगृहीतः) राज्यगृहाश्रमसामग्रीसहितः (असि) (इन्द्राय) पुरुषार्थे द्रवणाय (त्वा) (जुष्टम्) सेवमानम् (गृह्णामि) (एषः) (ते) (योनिः) सुखनिमित्तम् (इन्द्राय) शत्रुविदारकाय बलाय (त्वा) (जुष्टतमम्) अतिशयेन प्रसन्नम् (सम्पृचौ) राजगृहाश्रमव्यवहाराणां सम्यक् पृङ्क्तारौ राजप्रजाजनौ (स्थः) भवतम् (सम्) (मा) माम् (भद्रेण) भजनीयेन सुखप्रदेनैश्वर्येण (पृङ्क्तम्) स्पर्शं कुरुतम् (विपृचौ) विगतसम्पर्कौ (स्थः) स्यातम् (वि) (मा) माम् (पाप्मना) अधर्मात्मना जनेन (पृङ्क्तम्) ॥ अयं मन्त्रः शत० ५। १।२।८ व्याख्यातः ॥ ४॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। ये राजाप्रजाजना गृहस्था मेधाविने सन्तानाय विद्यार्थिने वा विद्याप्रज्ञां जनयन्ति,
[यथा...... युवां धर्म्ये व्यवहारे सम्पृचौ स्थस्तथा भद्रेण मा=मां सम्पृङ्तंेन, यथा युवां पाप्मना विपृचौ स्थस्तथाऽनेन मा=मामपि विपृङ्क्तम्]
दुष्टाचारात् पृथक् स्थापयन्ति, कल्याणकारकं कर्माचरयन्ति, असत्संगं विहाय सत्संगं सेवयन्ति, त स्वाभ्युदयनिःश्रेयसे लभन्ते नातो विपरीताः ॥९।४॥
Subject
मनुष्यैराप्तं विद्वांसं सुपरीक्ष्य संगन्तव्यम् इत्युपदिश्यते ॥
Meaning of Anvay
हे प्रजाराजपुरुष! यथाऽहं गृहस्थो राजा विप्राय मेधाविने मतिं बुद्धिं व्यन्तः वेदविद्यासु व्याप्नुवन्तः ऊर्जाहुतयः ऊर्जा=बलप्राणनकारिकां आहुतयः=ग्रहणानि दानानि वा येषां ते ग्रहाः ग्रहीतारो=गृहाश्रमिणः सन्ति, यथातेषां विशिप्रियाणां विविधे धर्मे कर्मणि हनुनासिके येषां मतिं बुद्धिम् इषम् अन्नम् ऊर्जं पराक्रमं च [वः] युष्मभ्यंसमग्रभं गृहीतवानस्मि, तथा त्वमपि गृहाण।
हे विद्वन् ! यथा त्वमुपयामगृहीतः राज्यगृहाश्रमसामग्रीसहितः असि, तथाऽहमपि भवेयं, यथाऽहं गृहस्थो राजा इन्द्राय पुरुषार्थे द्रवणाय जुष्टं सेवमानं त्वा गृह्णामि, तथा त्वमपि मां गृहाण ।
यस्यैष ते योनिः सुखनिमित्तम् अस्ति, तमिन्द्राय शत्रुविदारकाय बलाय जुष्टतमम् अति अतिशयेन प्रसन्नं त्वाहं यथा गृह्णामि, तथा त्वमपि मां गृहाण ।
यथा स त्वं च युवां धर्म्ये व्यवहारे सम्पृचौ राजगृहाश्रमव्यवहाराणां सम्यक् पृङ्क्तारौ राजप्रजाजनौ स्थः भवतं तथा भद्रेण भजनीयेन सुखप्रदेनैश्वर्येण मा=मां संपृङ्क्तं स्पर्शं कुरुतम् ।
यथा युवां पाप्मना अधर्मात्मना जनेन विपृचौ विगतसम्पर्कौस्थ: स्यातं, तथाऽनेन मा=मामपि विपृङ्क्तम् ॥ ९। ४ ॥
[हे प्रजाराजपुरुष! यथाऽहं.......विप्रायमतिंव्यन्तः.........ग्रहाःसन्ति, यथातेषां.......मतिं.......[वः]समग्रभंतथा त्वमपि गृहाण]
Meaning of Essence
विप्राय=मेधाविने सन्तानाय, विद्यार्थिने वा । मतिम्=विद्याप्रज्ञाम् ।
Special
बृहस्पतिः । राजधर्मराजादयः = राजधर्मः, राजादयश्च ॥ भुरिक्कृतिः । निषादः ।।