Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 9 / Mantra 39

38 Mantra
9/39
Devata- रक्षोघ्नो देवता Rishi- देवावत ऋषिः Chhand- अतिजगती Swara- निषादः
Mantra with Swara
स॒वि॒ता त्वा॑ स॒वाना॑ सुवताम॒ग्निर्गृ॒हप॑तीना॒ सोमो॒ वन॒स्पती॑नाम्। बृह॒स्पति॑र्वा॒चऽइन्द्रो॒ ज्यैष्ठ्या॑य रु॒द्रः प॒शुभ्यो॑ मित्रः॒ स॒त्यो वरु॑णो॒ धर्म॑पतीनाम्॥३९॥

स॒वि॒ता। त्वा॒। स॒वाना॑म्। सु॒व॒ता॒म्। अ॒ग्निः। गृ॒ह॑पतीना॒मिति॑ गृ॒हऽप॑तीनाम्। सोमः॑। वन॒स्पती॑नाम्। बृह॒स्पतिः॑। वा॒चे। इन्द्रः॑। ज्यैष्ठ्या॑य। रु॒द्रः। प॒शुभ्य॒ इति॑ पशुऽभ्यः॑। मि॒त्रः॒। स॒त्यः। वरु॑णः। धर्म॑पतीना॒मिति॒ धर्म॑ऽपतीनाम् ॥३९॥

Mantra without Swara
सविता त्वा सवानाँ सुवतामग्निर्गृहपतीनाँ सोमो वनस्पतीनाम् । बृहस्पतिर्वाच ऽइन्द्रो ज्यैष्ठ्याय रुद्रः पशुभ्यो मित्रः सत्यो वरुणो धर्मपतीनाम् ॥

सविता। त्वा। सवानाम्। सुवताम्। अग्निः। गृहपतीनामिति गृहऽपतीनाम्। सोमः। वनस्पतीनाम्। बृहस्पतिः। वाचे। इन्द्रः। ज्यैष्ठ्याय। रुद्रः। पशुभ्य इति पशुऽभ्यः। मित्रः। सत्यः। वरुणः। धर्मपतीनामिति धर्मऽपतीनाम्॥३९॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(सविता) ऐश्वर्य्यस्य प्रसविता (त्वा) त्वाम् (सवानाम्) ऐश्वर्य्याणाम् (सुवताम्) प्रेर्ताम् । अत्र व्यत्ययेनात्मनेपदम् (अग्निः) प्रकाशयुक्तः (गृहपतीनाम्) गृहाऽऽश्रमपालकानाम् (सोमः) सोम्यगुणसम्पन्नो वैद्यकविषय औषधिराजः (वनस्पतीनाम्) पिप्पल्यादीनाम् (बृहस्पतिः) पूर्णविद्यः=आप्तः (वाचे) वेदाऽर्थसुशिक्षायुक्तवाणीविज्ञानाय (इन्द्रः) परमैश्वर्य्ययोगारूढो वृद्धः (ज्यैष्ठ्याय) अतिशयेन वृद्धस्य भावाय (रुद्रः) शत्रूणां रोदयिता शूरवीरः (पशुभ्यः) गवादीनाम् (मित्रः) सर्वस्य सुहृत् (सत्यः) सत्पुरुषेषु भवः (वरुणः) धर्म्माऽऽचरणेन श्रेष्ठः (धर्मपतीनाम्) धर्मस्य रक्षितॄणाम् ।। अयं मन्त्रः शत० ५।३।३।१० व्याख्यातः ॥ ३९ ॥
Essence
हे राजँस्त्वं--ये त्वामधर्मान्निवर्त्य, धर्मानुष्ठाने प्रेरयेयुस्तेषामेव सङ्गं सदा कुरु; नेतरेषाम् ।। ९ । ३९।।
Subject
सभ्यैर्मनुष्यै राजा क्व-क्व प्रेरयितव्य इत्याह ।।
Meaning of Anvay
हे सभेश राजन् ! यस्त्वं सवानाम् ऐश्वर्याणां सविता ऐश्वर्य्यस्य प्रसविता इव, गृहपतीनां गृहाऽऽश्रमपालकानाम् अग्निः प्रकाशयुक्तः इव, वनस्पतीनां पिप्पल्यादीनां सोमः सोम्यगुणसम्पन्नो वैद्यकविषय ओषधिराज इव, धर्मपतीनां धर्मस्य रक्षितॄणां सत्यः सत्पुरुषेषु भवः वरुणः धर्माचरणेन श्रेष्ठः मित्रः सर्वस्य सुहृत् इव, वाचे वेदाऽर्थसुशिक्षायुक्तवाणीविज्ञानाय बृहस्पतिःपूर्णविद्य आप्तइव, ज्यैष्ठ्याय अतिशयेन वृद्धस्यभावाय इन्द्रः परमैश्वर्य्ययोगारुढो वृद्धइव, पशुभ्यः गवादीनां रुद्रः शत्रूणां रोदयिता शूरवीरइवाऽसि, तं त्वा त्वाम् आप्त उपदेष्टा प्रजापालने सुवतां प्रेर्ताम् ॥ ९। ३९।।
[हे सभेश राजन्! यस्त्वं......धर्मपतीनां सत्यो वरुणो मित्र इव........असि, ते त्वाआप्त उपदेष्टाप्रजापालने सुवताम्]
Special
देववातः । रक्षोघ्नः=रक्षसां हन्ता राजा ॥ अतिजगती । निषादः ।।